Content

[Sudden flash of a thought in the mind of Dasaratha about an evil act done by him in the past -- Dasaratha attributes present misfortune to the past action -- seeks forgiveness of Kausalya.]

एवं तु क्रुद्धया राजा राममात्रा सशोकया।

श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः।।2.62.1।।

Translation

क्रुद्धया in anger, सशोकया afflicted with sorrow, राममात्रा by Rama's mother, एवम् in that way, परुषम् harsh, वाक्यम् words, श्रावितः was forced to hear, राजा king, दुःखितः distressed, चिन्तयामास sadly reflected.

Forced to hear the harsh words of angry Kausalya, the king, deeply distressed, was absorbed in sad thought.
Sanskrit Commentary by Mahesvara Tirtha
एवमिति । चिन्तयामास अनया कथितं सर्वं सत्यमेव । अन्यैरकृतपूर्वम् अकृत्यं मया कृतमिति हृदि विचारयामासेत्यर्थः ।। 2.62.1,2 ।।



स इति । पुनश्चिन्तामुपागमत् "अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुते " इति न्यायेन प्रियपुत्रविश्लेषजं महद्दुःखमनुभवामि, एतद्धेतुभूतं किं कर्म कृतमिति पुनश्चिन्तामापेत्यर्थः ।। 2.62.3 ।।



तस्येति । प्रत्यभात् प्रतीतमभूत् । दुष्कृतं कर्म मुनिकुमारवधरूपं कर्म । शब्दवेधिना शब्देन लक्ष्येण वेद्धुं शीलमस्यास्तीति शब्दवेधी तेन ।। 2.62.4 ।।



अमना इति । अमनाः क्षुभितान्तःकरणः । तेन मुनिकुमारवधरूपेण शोकेन ।। 2.62.5,6 ।।



प्रसादय इति । परेष्वपि प्रतिकूलेष्वपि ।। 2.62.7,8 ।।



सा त्वमिति । दृष्टलोकपरावरा दृष्टौ लोके जने परावरौ उत्कर्षापकार्षौ यया सा ।। 2.62.9 ।।



तदिति । प्रणालीजलनिर्गममार्गः । नवोदकम् ।। 2.62.10 ।।



सेति । राज्ञः अञ्जलिं पद्ममिव मूर्ध्नि बद्धा पाणिभ्यां गृहीत्वा, मूर्ध्निबद्धेत्यर्थः ।। 2.62.11 ।।



प्रसीदेति । भूमौ निपतितास्मि प्रणतास्मि । यतः ते याचिता त्वया याचितास्मि, अतो ऽहं न क्षन्तव्येति योजना ।। 2.62.12 ।।



कुत एवमत आहनैषेति । उभयोर्लोकयोर्मध्ये । श्लाघनीयेन पत्या या संप्रसाद्यते प्रार्थ्यते नैषा स्त्री

भवतीति योजना ।। 2.62.13 ।।



जानामीति । मया यत्किमपि भाषितं तत्क्षन्तव्यमिति शेषः ।। 2.62.14,15 ।।



शक्य इति । आपतितः हठात्प्राप्तः ।। 2.62.16 ।।



वनवासायेति । पञ्चरात्रो ऽद्य गण्यतेपञ्चरात्रः पञ्च रात्रयो गण्यन्ते, प्रथमा रात्रिस्तमसातीरे, द्वितीया गुहपुरे, तृतीया गङ्गादाक्षिणकूलस्थवनस्पतिमूले, चतुर्थी प्रयागे, पञ्चमी यमुनावने, षष्ठी चित्रकूटे । षष्ठ्यामेव चायोध्यां सुमन्त्रः प्राप्तः, पूर्वमेवं पञ्च रात्रयो गण्यन्ते ।। 2.62.17,18 ।।



एवमिति । कथयन्त्यां सत्यामित्यर्थः । शुभं वचः अतिदुःखितायामपि पत्यनुनयपरत्वाद्वचसः शुभत्वम् ।। 2.62.19,20 ।।



इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां द्विषष्टितमः सर्गः ।। 2.62 ।।





Sanskrit Commentary by Nagesa Bhatta
एवं कौसल्याक्रूरवचोभीतस्य राज्ञो ऽञ्जलिपर्यन्तं दैन्यं दृष्ट्वा राजानमनुनयति एवं त्विति । चिन्तयामासानयोच्यमानं सर्वं सत्यं किमिह कर्तव्यमिति विचारयामास ।। 2.62.1 ।।



मोहव्याकुलितेन्द्रियः जात इति शेषः ।। 2.62.2 ।।



चिन्तामुपागमत्पुत्रविश्लेषजदुःखसाधनं कर्म ममेति चिन्तामाप ।। 2.62.3 ।।



प्रत्यभात्प्रतिभातम् दुष्कृतं कर्म मुनिकुमारवधरूपं शब्दमेव लक्ष्यदेशस्थं प्राप्य विध्यतीति शब्दवेधी ।। 2.62.4 ।।



अमना दुर्मनाः तेन शोकेन मुनिकुमारवधजेन शोकेन ।। 2.62.5 ।।



अवाङ्मुखः स्वकृततदप्रियस्मरणाल्लज्जया ।। 2.62.6 ।।



परेष्वपि शत्रुष्वपि ।। 2.62.7 ।।



विमृशमानानां जानतीनाम् ।। 2.62.8 ।।



दृष्टौ लोके परावरावुत्कर्षापकर्षौ यया सा अपकृष्टा अपि भर्तारमेवं न वदन्तीति भावः ।। 2.62.9 ।।



प्रणाली प्रासादादौ जलनिर्गममार्गः नवोदकं वर्षजलम् ।। 2.62.10 ।।



स्वानुनयाय राज्ञा कृतं राज्ञो ऽञ्जलिं पाणिभ्यां गृहीत्वा पद्ममिव मूर्ध्नि बद्धा रुदती त्रस्ता अहमपि कैकेयीवत्पतिशोककारिवचनादिकं प्राप्तवतीति भीता संभ्रमाद्राज्ञ्यत्यादराद्वच आह ।। 2.62.11 ।।



भूमौ निपतितास्मि साष्टाङ्गं प्रणमामि हे देव त्वया याचिताहमनुनीताहं हतास्मि ईश्वरेप्सितवैपरीत्यस्यान्याय्यत्वात् अतस्त्वया क्षन्तव्या न किंतु दासीवत्प्रहर्तव्येत्यर्थः ।। 2.62.12 ।।



एषा हि लोके सा स्त्री कुलस्त्री न भवति या उभयोः श्लाघनीयेन पत्या संप्रसाद्यते ।। 2.62.13 ।।



किमप्यत्यनुचितं भाषितं तत्क्षन्तव्यमिति शेषः ।। 2.62.14 ।।



शोक एवमाद्यमनुचितव्यवहारप्रवर्तक इत्याह शोक इत्यादि ।। 2.62.15 ।।



सुसूक्ष्मो ऽपि शोकः सोढुं न शक्यते किं पुनर्महानिति शेषः ।। 2.62.16 ।।



स्वशोकस्य महत्त्वं दर्शयति वनेति । पञ्चरात्र इत्यस्य गत इति शेषः । तत्र प्रथमा तमसातीरे, द्वितीया गुहपुरे, तृतीया गङ्गातीरे, चतुर्थी प्रयागे, पञ्चमी यमुनातीरे, षष्ठी चित्रकूटे तद्दिने सुमन्त्रस्यायोध्याप्राप्तिः अत एवाग्रे षष्ठीति दशरथोक्तिः । अथवाद्यदिने संपूर्णदिनं स्वनिकटे स्थितत्वेन स्वदेशे तमसातीरे एव स्थितत्वेन तद्दिनमगणय्य कौसल्ययाद्य पञ्चरात्रो गण्यत इत्युक्तम् राजा तु तमपि गृहीत्वा षष्ठीति वक्ष्यति । यत्तु कतकेन निर्गमनात्सप्तरात्रः सुमन्त्रागमनदिने इत्युक्तम्, तदज्ञानात् गङ्गोत्तरणदिनात्तृतीये ऽहनि चारप्रतिनिवृत्त्युत्तरं सायाह्ने तद्दिन एव सुमन्त्रप्रस्थानस्य वक्तुं शक्यत्वात् रामस्य निर्गमनाद्दिने षष्ठे इति पूर्वलिखितपाद्मविरोधाच्च ।। 2.62.17 ।।



नदीनां वेगेन समुद्रसलिलमिवेत्युत्प्रेक्षामात्रं न तु तस्य तेन वृद्धिरित्याहुः । परे तु महत्समुद्रसलिलं वेगेन चन्द्रोदयवृद्धिवेगे नदीनां हृदि तटद्वयान्तरे यथा वर्धत इत्यर्थः । समुद्रगामिनदीनां चन्द्रोदयकालिकसमुद्रवृद्धया वृद्धेः कियद्दूरमद्याप्युपलम्भादित्याहुः ।। 2.62.18 ।।



शुभं वचो ऽतिदुःखिताया अपि पत्यनुनयपरत्वाद्वचसः शुभत्वम् ।। 2.62.19,20।।



इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे द्विषष्टितमः सर्गः ।। 2.62 ।।





Sanskrit Commentary by Sivasahaya
राजवृत्तं बोधयन्नाह-- एवमिति । क्रुद्धया प्रातिभासिकक्रोधविशिष्टया राममात्रा परुषं कठिनत्वेन प्रतीयमानं वाक्यं श्रावितो राजा चिन्तयामास ।। 2.62.1 ।।



चिन्तयित्वेति । मोहव्याकुलितेन्िद्रयो राजा दीर्घेण अनल्पेन कालेन सञ्ज्ञां बहि:पदार्थविषयकज्ञानमाप ।। 2.62.2 ।।



स इति । उपलभ्य प्राप्य पार्श्वत: पार्श्वे कौशल्यां दृष्ट्वा चिन्तामुपागमत् ।। 2.62.3 ।।



तस्येति । चिन्तयमानस्य तस्य राज्ञ: अज्ञानादयं क्रूरमृगभिन्न इति ज्ञानाभावाच्छब्दवेधिना शब्दमेव लक्षीकृत्य विध्यतीति शब्दवेधी तेन बाणेन करणेन यदानेन राज्ञा दुष्कृतं कर्म कृतं तत्कर्म प्रत्यभाद्बुद्धिविषयत्वमगच्छत् ।। 2.62.4 ।।



दुष्कृतस्वरूपं तु स्वयमेव वक्ष्यति-- अमना इति । तेन स्मृतिविषयीभूतदुष्कृतजनितेन शोकेन रामशोकेन च महाराज: अमना: दुर्मना अभवदिति शेष: । अत एव द्वाभ्यां शोकाभ्यामभितप्यते अभ्यतप्यत ।। 2.62.5 ।।



दह्यमान इति । प्रसादार्थं कौशल्याप्रीत्यर्थमञ्जलिं कृत्वा अवाङ्मुख: उदासीनमुखदर्शनसहनासमर्थत्वेन अवनतमुख: अत एव वेपमानो राजा कौशल्यामाह ।। 2.62.6 ।।



वचनाकारमाह-- प्रसादय इति । यत: परेषु शत्रुष्वपि त्वं वत्सला अत एव अनृशंसा क्रूरतारहिता त्वमसि अतस्त्वां प्रसादये ।। 2.62.7 ।।



भर्तेति । धर्मं विमृशमानानां विचारयन्तीनां नारीणां गुणवान्निर्गुणो वा भर्ता दैवतं देवता तासां पतिभिन्नं दैवतं नास्तीत्यर्थ: ।। 2.62.8 ।।



सेति । सा ज्ञातसकलधर्मतत्त्वा अत एव धर्मपरा अत एव दृष्टलोकपरावरा दृष्टौ निश्चितौ लोकपरावरौ जनानामुत्तममध्यमत्वे यया सा त्वं दु:खितापि प्रियं भर्तारं विप्रियं वक्तुं नार्हसे अर्हसि ।। 2.62.9 ।।



तदिति । तत्करुणं वाक्यं श्रुत्वा बाष्पमश्रु व्यसृजत् । तत्र दृष्टान्त: प्रणाली प्रासादादिषु निर्मितजलनिर्गममार्ग: नवादेकं वृष्टिजलमिव "द्वयो: प्रणाली पयस: पदव्याम्" इत्यमर: ।। 2.62.10 ।।



सेति । रुदती त्रस्ता पतिविषयकस्वापराधहेतुकत्रासविशिष्टा सा कौशल्या राज्ञ: अञ्जलिं बद्धयुगलकरं पद्ममिव मूर्ध्नि स्वशिरसि बद्धा धृत्वा सम्भ्रमादत्यादरात्त्वरमाणं अतिवेगविशिष्टमक्षरं यस्मिंस्तद्वच: अब्रवीत् ।। 2.62.11 ।।



वचनाकारमाह-- प्रसीदेति । ते अग्रे भूमौ निपतिता कृतप्रणामास्मि हे देव हता पुत्रवियोगपीडिता ऽहं त्वया न हन्तव्या स्वदैन्यवचनोक्त्या न पीडयितव्या इत्यहं याचिता याचनकर्त्री पूर्वं कर्माविवक्षया कर्तरि निष्ठा । "क्षन्तव्याहं नहि त्वया" इति भट्टपाठस्तत्र त्वयाहं न हता पीडिता किन्तु मन्थरया पीडितेत्यर्थ: ।। 2.62.12 ।।



नेति । उभयोर्लोकयो: श्लाघनीयेन पत्या या स्त्री सम्प्रसाद्यते सा स्त्री लोके नास्ति । एतेन स्वभाग्यवत्तातिशय: सूचित: ।। 2.62.13 ।।



जानामीति । हे धर्मज्ञ धर्मं पति: परुषं न वक्तव्यं इत्यादिरीतिं जानामि त्वां सत्यवादिनं च जाने । तथापि पुत्रशोकार्तया मया तत्परुषाभासं किमपि भाषितम् । तुस्तथाप्यर्थे ।। 2.62.14 ।।



शोकस्याकार्यकारित्वं बोधयन्ती आह-- शोक इति । श्रुतं शास्त्रश्रवणजनितनिश्चितधर्ममत: सर्वं यश आदिकं नाशयते ।। 2.62.15 ।।



शक्यमिति । रिपुहस्तत: आपतित: प्रहार: आयुधादि: सोढुं शक्यं आपतित: विधिवशात्प्राप्त:

सुसूक्ष्मो ऽपि शोक: सोढुं न शक्यते शक्यमिति सामान्ये नपुंसकम् ।। 2.62.16 ।।



शोकस्य चिरकालस्थायित्वं बोधयन्ती आह-- वनेति । वनवासाय गतस्य रामस्य अद्य इदानीं य: पञ्चरात्रो गत: स: पञ्चरात्र: शोकहतहर्षाया मम अत्रास्मिन्समये पञ्चवर्षोपमो गण्यते ज्ञायते ।। 2.62.17 ।।



तमिति । तं रामं चिन्तयमानाया: मे अयं शोक: हृद्येव वर्धते न बहिर्गच्छतीत्यर्थ: । तत्र दृष्टान्त: नदीनां वेगेन महत्समुद्रसलिलमिव एतेन शोकस्य स्थिरत्वं ध्वनितम् ।। 2.62.18 ।।



एवमिति । कौशल्याया एवमनेन प्रकारेण कथयन्त्या: सत्या: सूर्यो मन्दरश्मिरभूदत एव रजनी रात्रि: अभ्यवर्तत ।। 2.62.19 ।।



अथेति । शोकेन समाक्रान्त: कौशल्यया प्रह्लादितो नृप:, निद्राया वशमेयिवान्प्राप्त: ।। 2.62.20 ।।



इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे द्विषष्टितम: सर्ग: ।। 2.62 ।।