Content

[Sudden flash of a thought in the mind of Dasaratha about an evil act done by him in the past -- Dasaratha attributes present misfortune to the past action -- seeks forgiveness of Kausalya.]

एवं तु क्रुद्धया राजा राममात्रा सशोकया।

श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः।।2.62.1।।

Translation

क्रुद्धया in anger, सशोकया afflicted with sorrow, राममात्रा by Rama's mother, एवम् in that way, परुषम् harsh, वाक्यम् words, श्रावितः was forced to hear, राजा king, दुःखितः distressed, चिन्तयामास sadly reflected.

Forced to hear the harsh words of angry Kausalya, the king, deeply distressed, was absorbed in sad thought.
Sanskrit Commentary by Govindaraja
एवं तु क्रुद्धया राजा राममात्रा सशोकया ।

श्रावित: परुषं वाक्यं चिन्तयामास दु:खित: ।। 2.62.1 ।।

चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रिय: ।

अथ दीर्घेण कालेन संज्ञामाप परन्तप: ।। 2.62.2 ।।

एवमिति । चिन्तयामास अनया सत्यमेव कथितम् मया चान्यैरकृतपूर्वं महदकृत्यं कृतं किमत: परं करोमीति चिन्तयामासेत्यर्थ: ।। 2.62.12 ।।



स संज्ञामुपलभ्यैव दीर्घमुष्णञ्च निश्वसन् ।

कौसल्यां पार्श्वतो दृष्ट्वा पुनश्चिन्तामुपागमत् ।। 2.62.3 ।।

स संज्ञामिति । पुनश्चिन्तामुपागमत् "अत्युत्कटै: पुण्यपापैरिहैव फलमश्नुते" इति न्यायेन प्रियपुत्रविश्लेषजं

महदु:खमनुभवामि । एतद्धेतुभूतं किं कर्म कृतमिति पुनश्चिन्तां प्राप्तवानित्यर्थ: ।। 2.62.3 ।।



तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् ।

यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना ।। 2.62.4 ।।

तस्येति । दुष्कृतं कर्म मुनिकुमारवधरूपं कर्म प्रत्यभात् प्रतीतमभूत् । शब्दवेधिना शब्देन लक्ष्येण वेद्धुं शीलमस्यास्तीति शब्दवेधी, राजा बाणो वा ।। 2.62.4 ।।



अमनास्तेन शोकेन रामशोकेन च प्रभु: ।

द्वाभ्यामपि महाराज: शोकाभ्यामन्वतप्यत ।। 2.62.5 ।।

अमना इति । अमना: अस्वस्थचित्त:, क्षुभितान्त:करण इत्यर्थ: । तेन मुनिकुमारवधजनितेन ।। 2.62.5 ।।



दह्यमान: स शोकाभ्यां कौसल्यामाह भूपति: ।

वेपमानो ऽञ्जलिं कृत्वा प्रसादार्थमवाङ्मुख: ।। 2.62.6 ।।

दह्यमान इति । अवाङ्मुख: अवनतमुख: स्वकृतकौसल्याविषयाप्रियजन्यया लज्जया भीत्या चेति भाव: ।। 2.62.6 ।।



प्रसादये त्वां कौसल्ये रचितो ऽयं मयाञ्जलि: ।

वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि ।। 2.62.7 ।।

भर्त्ता तु खलु नारीणां गुणवान्निर्गुणोपि वा ।

धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम् ।। 2.62.8 ।।

प्रसादय इति । परेष्वपि प्रतिकूलेष्वपि । ।। 2.62.78 ।।



सा त्वं धर्मपरा नित्यं दृष्टलोकपरावरा ।

नार्हसे विप्रियं वक्तुं दु:खितापि सुदु:खितम् ।। 2.62.9 ।।

सा त्वमिति । दृष्टलोकपरावरा दृष्टौ लोके जने परावरौ उत्कर्षापकर्षौ यया सा तथोक्ता । सुदु:खितं मां प्रतीति शेष: ।। 2.62.9 ।।



तद्वाक्यं करुणं राज्ञ: श्रुत्वा दीनस्य भाषितम् ।

कौसल्या व्यसृजद्बाष्पं प्रणालीव नवोदकम् ।। 2.62.10 ।।

तद्वाक्यमिति । प्रणाली प्रासादादिषु दार्वादिनिर्मितजलनिर्गममार्ग: । "द्वयो: प्रणाली पयस: पदव्याम्" इत्यमर: । नवोदकं वर्षजलम् ।। 2.62.10 ।।



सा मूर्ध्नि बध्वा रुदती राज्ञ: पद्ममिवाञ्जलिम् ।

सम्भ्रमादब्रवीत् त्रस्ता त्वरमाणाक्षरं वच: ।। 2.62.11 ।।

सेति । राज्ञ: अञ्जलिं पद्ममिव मूर्ध्नि बध्वा पाणिभ्यां गृहीत्वा । मूर्ध्नि बद्ध्वेत्यर्थ: । त्रस्ता धर्माद्भीता ।। 2.62.11 ।।



प्रसीद शिरसा याचे भूमौ निपतितास्मि ते ।

याचितास्मि हता देव हन्तव्याहं नहि त्वया ।। 2.62.12 ।।

प्रसीदेति । भूमौ निपतितास्मि प्रणतास्मीत्यर्थ: । कुत: ? यत: ते याचिता त्वया याचिताहं हतास्मि अत: त्वयाहं हन्तव्या नहि संहर्तव्या नहि । एतदपराधशान्तये मम प्रहार एव त्वया कर्तव्यो न संहारो दास्या इवेत्यर्थ: ।। 2.62.12 ।।



नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता ।

उभयोर्लोकयोर्वीर पत्या या सम्प्रसाद्यते ।। 2.62.13 ।।

नैषेति । श्लाघनीयेन स्वयंप्रसाद्येन पत्या लोके या संप्रसाद्यते सा स्त्री उभयोर्लोकयोर्न भवति । ऐहिकामुष्मिकसुखभागिनी न भवतीत्यर्थ: ।। 2.62.13 ।।



जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम् ।

पुत्रशोकार्तया तत्तु मया किमपि भाषितम् ।। 2.62.14 ।।

शोको नाशयते धैर्यं शोको नाशयते श्रुतम् ।

शोको नाशयते सर्वं नास्ति शोकसमो रिपु: ।। 2.62.15 ।।

जानामीति । किमपि अविचारितम् अनुचितं च तत् क्षन्तव्यमिति शेष: ।। 2.62.1415 ।।



शक्य आपतित: सोढुं प्रहारो रिपुहस्तत: ।

सोढुमापतित: शोक: सुसूक्ष्मोपि न शक्यते ।। 2.62.16 ।।

शक्य इति । आपतित: हठात्प्राप्त: ।। 2.62.16 ।।



वनवासाय रामस्य पञ्चरात्रो ऽद्य गण्यते ।

य: शोकहतहर्षाया: पञ्चवर्षोपमो मम ।। 2.62.17 ।।

शोकस्य नूतनत्वादशक्यत्वमाह--वनवासायेति । वनवासाय वने वासं कर्तुम् । प्रस्थितस्य रामस्य पञ्चरात्रोद्य गण्यते वने पञ्चरात्रो वासो गण्यते । अत्र केचित् प्रथमायां रात्रौ तमसातीरे, द्वितीयरात्रौ जाह्नवीतीरे, तृतीयरात्रौ गङ्गादक्षिणकूलस्थे वनस्पतौ, चतुर्थरात्रौ प्रयागे, पञ्चमरात्रौ यमुनातीरे । तत: सुमन्त्र: षष्ठदिवसे रामश्चित्रकूटं गमिष्यतीति वृत्तान्तं ज्ञात्वा तदहस्सायाह्नसमये अयोध्यां प्राप्तवान् ततो ऽत्र पञ्चरात्रगणनमुपपद्यत इत्यूचिरे । अन्ये त्वाहु:--गङ्गातरणपर्यन्तं वनवासत्वाभावात् तत:परं वनस्पतिभरद्वाजाश्रमयमुनातीरचित्रकूटेषु चतस्त्रो रात्रय: चतुर्थ्यां सुमन्त्रस्य निर्गभ: पञ्चम्यामिदं वचनमिति, एवंसत्यद्यपदस्वारस्यमिति । ननु सप्तपञ्चाशे सर्गे "भरद्वाजाभिगमनं प्रयागे च सहासनम् । आगिरेर्गमनं तेषां तत्रस्थैरभिलक्षितम् । अनुज्ञात: सुमन्त्रोथ योजयित्वा हयोत्तमान् ।।" इत्याद्यनन्तरं "तत: सायाह्नसमये तृतीयेऽहनि सारथि:। अयोध्यां समनुप्राप्य निरानन्दां ददर्शह ।।" इत्युक्त्या अयोध्यानिर्गमदिवसमारभ्य षष्ठे ऽहनि किल रामस्य चित्रकूटप्रवेश: अथ चारेभ्य: सप्तमे अष्टमे वा सूतस्य तद्वृत्तान्तश्रवणं ततस्तृतीये ऽहनि सूतस्यायोध्याप्रवेश: तत्कथं पञ्चरात्रय इति परिगण्यते ? उच्यते--तृतीये ऽहनीत्यत्र अह्नस्तृतीयभाग इत्यर्थ: । आगिरेर्गमनमित्यत्र गमनोद्योगमित्यर्थ: । तथाच "गुहेन सार्धं तत्रैव स्थितो ऽस्मि दिवसान् बहून् । आशया यदि मां राम: पुन:शब्दापयेदिति" इत्यत्र बहूनित्युक्त्या दिनत्रयं श्रृङ्गिबेरपुरे सूतस्य वास: । चतुर्थे दिने ऋजुमार्गेण दिवारात्रमागतचारमुखात् रामस्य चित्रकूटप्रवेशोद्योगं निशम्य तद्दिवससायंकाले वेगेनायोध्याप्रवेश:, तस्मिन् दिने कौसल्याह पञ्चरात्रोद्यगण्यत इति, अतो न किंचिदनुपपन्नम् ।। 2.62.17 ।।



तं हि चिन्तयमानाया: शोको ऽयं हृदि वर्द्धते ।

नदीनामिव वेगेन समुद्रसलिलं महत् ।। 2.62.18 ।।

तमिति । नदीवेगेन समुद्रवृद्धिरिति लोकवाद: ।। 2.62.18 ।।



एवं हि कथयन्त्यास्तु कौसल्याया: शुभं वच: ।

मन्दरश्मिरभूत् सूर्यो रजनी चाभ्यवर्तत ।। 2.62.19 ।।

तथा प्रसादितो वाक्यैर्देव्या कौसल्यया नृप: ।

शोकेन च समाक्रान्तो निद्राया वशमेयिवान् ।। 2.62.20 ।।

एवमिति । कथयन्त्या: कथयन्त्यामित्यर्थ: । शुभं वच: अतिदु:खितावस्थायामपि पत्यनुनयपरत्वात् वचस: शुभत्वम् ।। 2.62.1920 ।।



इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विषष्टितम: सर्ग: ।। 62 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्विषष्टितम: सर्ग: ।। 62 ।।