अश्रुपूर्णमुखीं दीनां शोकभाराभिपीडिताम्।
वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे।।3.55.4।।
मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम्।
अधोमुखमुखीं सीतामभ्येत्य च निशाचरः।।3.55.5।।
तां तु शोकपरां दीनामवशां राक्षसाधिपः।
स बलाद्दर्शयामास गृहं देवगृहोपमम्।।3.55.6।।