Content

Audio
मा निषाद प्रतिष्ठां त्वमगमश्शाश्वतीस्समा: ।

यत्क्रौञ्चमिथुनादेकमवधी: काममोहितम् ।।1.2.15।। 15

Translation

निषाद O Fowler, त्वम् you, यत् for which reason, क्रौञ्चमिथुनात् from the pair of krauncha birds, काममोहितम् when they were infatuated by love, एकम् one, अवधी: have killed, (तत् for that reason), शाश्वती: permanently, समा: for long years, प्रतिष्ठां glorious, मा गम: you will never get.

"O fowler, since you have killed one of the pair of infatuated kraunchas you will be permanently deprived of your position".
Sanskrit Commentary by Amruta Kataka
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे प्रथमः सर्गः ।।

अथ द्वितीयः सर्गः

 ।। 1.2.1 ।। नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः ।

पूजयामास धर्मात्मा सहशिष्यो महामुनिः ।। 1 ।।

एवं नारदादुपश्रुतदिव्यनायकस्योपश्रुतभूतभविष्यच्चरितरूपकाव्यविषयस्य च

वाल्मीकेरपि कालिदासादेरिव काव्यमृषाजल्पस्य प्रसङ्गे तद्वदेव परलोकानुपयुक्तत्वप्रसङ्गे च भगवता ब्रह्मणा काव्यस्य स्वावतारविषयत्वेन स्वविषयकत्वाविशेषात्, स्वविषयकाव्यसन्दर्भस्य श्रुतिवदेव स्वलोकप्राप्तिफलकत्वस्यापि न्याय्यत्वात्, तस्य च सर्वलोकमूर्धन्यस्यान्वर्थसत्याख्यस्य स्वीयब्रह्मलोकस्य सत्यवचनैकलभ्यत्वात्, स्वविषयकदिव्यकाव्यस्य च सत्यवचनत्वाय सरस्वत्या प्रणयनसिद्धये निजप्रादुर्भावत्प्रागेव तस्य मातुः प्रादुर्भवनपूर्वकं निजापरोक्षानुभवपरमानुग्रहं कृत्वा 'न ते वागनृता काव्ये काचिदत्र भविष्यति' इत्यनुग्रहपूर्वं तावत्काव्यकर्तुरेव शाश्वतब्रह्मलोकशाश्वतप्रतिष्ठानुमतिप्रकाशनाय द्वितीयः सर्गः । एतदर्थप्रकाशनमपि प्रागस्मदुक्तरीत्या रामायणस्य साक्षादपवर्गसाधनताधीस्थैर्याय ।। नारदस्य त्वित्यादि ।। विशिष्टा--व्याकरणसंस्कारादिविशेषवती विचित्रार्था वा शारदावाणी यस्य स विशारदः । लौकिकालौकिकवाक्यसन्दर्भे विशिष्टवाणीशक्तिमानिति यावत् । व्याकृतपदार्थो न विस्मरणीयः । सहशिष्यः । सहस्य सत्वाभावो 'वोपसर्जनस्य' इति । महामुनिःवाल्मीकिः । नारदस्य तद्वाक्यं श्रुत्वा वाक्यविशारदत्वादेव तद्वाक्यगुणसामग्रीं दृष्ट्वा हृष्ट्वा तद्वाक्यं प्रथमतः पूजयामास--अतिविचत्रं भगवद्वचनमित्यादिवचनेन । नारदं तु यथागतं जिगमिषुं पुनश्च विशिष्य पुजयामास । अयमर्थो यथावत्पूजित इत्युत्तरवाक्याल्लभ्यते । एवं सर्वत्र प्रत्यक्षरं प्रतिश्लोकं समग्रभावप्रकाशनशक्तौ सत्यामपि बहुतरग्रन्थात् मध्यममार्गेणागच्छम् ।। 1.2.1 ।। 

 ।। 1.2.2 ।। यथावत्पूजितस्तेन देवर्षिर्नारदस्तथा ।

1आपृच्छ्यैवाभ्यनुज्ञातः स जगाम विहायसम् ।। 2 ।।

(1आपृष्ट्वैवघ.)

2आपृच्छ्यैव(2आपृष्ट्वैवग)साधु यामीत्युक्त्वैव । अनुज्ञातश्चैवयथासुखं विहरतामिति वाल्मीकिनानुगमनपूर्वमभ्यनुज्ञातश्चैव । आभ्यां गुरुशिष्ययोः (शिष्यगुर्वोः) स्नेहभक्तिप्रकाशनम् । विहायसमित्यकारान्तः पुल्लिङ्गः सकारान्तः पुल्लिङ्गो वा द्वितीयान्तः । उभयमप्यस्ति । सःवाल्मीकिर्मुनिः तस्मिन्नारदे देवलोकं गते सति स्वयं तदा मुहूर्तं स्वाश्रमे स्थित्वा पश्चान्माध्याह्निकार्थं जाह्नव्या अविदूरतःसमीपे वर्तमानं तमसानदी1तीरं जगाम । क्कचिदुक्तं "मुहूर्तमिति 'अपवर्गे तृतीया' इति तृतीयार्थे द्वितीया छान्दसी । मुहूर्तकालेन देवलोकं गत इत्यर्थ इति" इत्यादिकं योजनाशक्तिजमिथ्याप्रलापमात्रमिति विद्वदुपेक्ष्यम् । क्क तृतीयार्थः । क्कापवर्गः । नारदस्येष्टलोकगमनस्य स्मृतिसमकालसाध्यस्य मुहूर्तकालप्ताध्यत्वं च देवानांप्रियेण केन प्रमाणेनावसितम् ।। 1.2.3 ।। 

(1तीरन्तुग)

(इदं व्याख्यानं गोविन्दराजतीर्थियोरपि सम्मतम् । )

 ।। 1.2.4 ।। स तु तीरं समासाद्य तमसाया मुनिस्तदा ।

शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ।। 4 ।।

अकर्दमंअपङ्कं इत्यर्थः । तीर्थंपुण्यतीर्थं "ऋषिजुष्टजलं तीर्थं" इति निघण्टुः ।। 1.2.4 ।। 

 ।। 1.2.5 ।। अकर्दममिदं तीर्थं भरद्वाज निशामय ।

रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ।। 5 ।।

किमाहेत्यतःअकर्दमित्यादि । निशामयअवलोकय । एवं दर्शनार्थत्वात् 'शमो ऽदर्शने' इति मित्वाभावाद्ध्रस्वाभावः । किमाहापूर्वमित्यतःरमणीयमित्यादि । रमणीयत्वे हेतुःप्रसन्नाम्ब्विति । तत्र हेतुः--अकर्दममिति । सन्मनुष्यचित्तस्य कामादिदोषकर्दमराहित्येन नित्यप्रसन्नत्वात्तदंशे ऽयं दृष्टान्तः ।। 1.2.5 ।। 

 ।। 1.2.6 ।। न्यस्यतां कलशस्तात दीयतां 2वल्कला(2वल्कलंङ.च) मम ।

इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ।। 6 ।।

न्यस्यतां कलश इति । देवपूजार्थं अर्ध्योदकाय नीयत इति शेषः । वल्कला दीयतामिति--'लिङ्गमशिष्यम्' इति भाष्यकारवचनादस्मादेव प्रयोगात् स्त्रीलिङ्गत्वं च । 'वल्कं वल्कलमस्त्रियां' इति निघण्ट्वपि । इदमेवेति । नात्यासन्नमपि गङ्गातीर्थम् । माध्याह्निकादिकालातिक्रमादिति शेषः ।। 1.2.6 ।। 

 ।। 1.2.7 ।। एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना ।

प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ।। 7 ।।

वाल्मीकेनेति । तस्य अपत्यमित्यण् । प्रायच्छतेति छन्दोवशप्राप्तमात्मनेपदम् । गुरोर्नियत इति । सदा सेवापर इति यावत् । अत एव माध्याह्निककाले ऽपि सहगमनम् ।। 1.2.7 ।। 

 ।। 1.2.8 ।। स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः ।

विचचार ह पश्यंस्तत् सर्वतो विपुलं वनम् ।। 8 ।।

नियतेन्द्रियःजितेन्द्रिय इति यावत् । विचचार हेति । शौचाचरणप्रसङ्गेन एकान्ततो अनुष्ठानाय चेति शेषः । अत एव शिष्यहस्ताद्वल्कलग्रहपूर्वं गमनम् ।। 1.2.8 ।। 

 ।। 1.2.9 ।। तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् ।

ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिस्वनम् ।। 9 ।।

तस्येत्यादि । तस्यवनस्याभ्याशेसमीपे चरन् भगवान्, (स) तत्र तुतस्मिन् वनाभ्याश एव चरन्तं अनपायिनं आधिव्याधिमृत्युना कायपीडारहितमिति यावत् । अत एव चारुनिस्वनं क्रौञ्चयोर्मिथुनं ददर्श । अनपायिनमिति पुल्लिङ्गः छान्दसः । परस्तु प्रतिश्लोकमसङ्गतं प्रलपति । दुर्योजं त्यजति । भावगूढार्थं न वेत्त्येकः । अतिशब्दञ्चार्थं कथयति । 1तदस्माभिः उद्भाष्य दूष्यं किं ? मसूरिकाजलूकाचिकित्सा शक्या केनापि ? अतो ऽस्मदुच्यमानरीतिं तदुच्यमानं च सम्यक्पर्यालोचयतामिदमुचितमिदमनुचितमिति स्वयमेव सुस्पष्टं भवति । अतस्सर्गस्य द्वित्रस्थले परकीयासङ्गतवादमुद्भावयिष्यामः ।। 1.2.9 ।। 

(1 अतःइतिग)

 ।। 1.2.10 ।। तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयः ।

जघान वैरनिलयो निषादस्तस्य पश्यतः ।। 10 ।।

तस्मान्मिथुनात्पुमांसमेकं तु, अत्र 'पञ्चमी विभक्ते' इति निर्धारणाश्रयात् मिथुनात्पुंसो विभागस्य निद्यमानत्वात्पञ्चमी, तन्मिथुनस्य प्रतिसंबन्धिभूतमेकमिति निष्कृष्टार्थः । पापनिश्चयःअनादिपापवासनावासितबुद्धिः । अत एव वैरनिलयः--निजानपकारिप्राणिष्वकारणवैराश्रयः । एवंभूतो निषादः, तस्य पश्यतःपश्यन्तं तमानादृत्य, 'षष्ठी, जघान ।। 1.2.10 ।। 

 ।। 1.2.11 ।। तं शोणितपरीताङ्गं वेष्टमानं महीतले ।

भार्या तु निहतं दृष्ट्वा रुराव करूणां गिरम् ।। 11 ।।

तं वेष्टमानंलुठन्तं निहतं दृष्ट्वा, निषादेनेति शेषः । करुणां गिरं । गृशब्दे, असमात्क्किप् । दीनं शब्दं रुराव । रौतेर्लिट् । अत्र धातुमात्रसामान्ये करोतीर्यर्थमात्रे रौतिः । शब्दमकरोदिति यावत् ।। 1.2.11 ।। 

 ।। 1.2.12 ।। वियुक्ता पतिना तेन द्विजेन सहचारिणा ।

ताम्रशीर्षेण मत्तेन पत्रिणा सहितेन च ।। 12 ।।

पतित्वादिविशेषणेन तेन द्विजेन वियुक्ता ऽभूदित्यन्वयः । अक्रियं वाक्यं अस्तिकरोत्यन्यतरक्रियमिति । पतिनापत्येत्यर्थः । नाभावः छान्दसः । भक्ष्याहरणात् पक्ष्यन्तराभिभवादेस्च पातीति तथा । सहचारिणाअहोरात्रमिति शेषः । ताम्रशीर्षेणपुंस्त्वात् कुक्कुटादिवत् ताम्रवर्णशीर्षगतचूडायुक्तेनेति यावत् । मत्तेनकामसम्भोगवशादिति शेषः । तदेव द्योत्यते--पक्षिणेत्यादिभ्यां पत्रिणासम्भोगकालत्वाद्विततपक्षवता, सहितेन स्त्रिया, उपर्यधोभागे तया सङ्गतेन । एवं कामभोगावस्थितस्य निषादहननात् पूर्वकालीनस्य मिथुनस्य महर्षेर्दर्शनं वैशब्देन द्योत्यते ।। 1.2.12 ।। 

 ।। 1.2.13 ।। तथा तु तं द्विजं दृष्ट्वा निषादेन निपातितम् ।

ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ।। 13 ।।

तथा तु तमिति । तथा कामभोगदशायामेव तु तं द्विजं निपातितं दृष्ट्वा धर्मात्मनःदयादाक्षिण्यहिंसामुखधर्मेण प्रवणचित्तस्य महर्षेस्तत एव कारुण्यंघृणा समपद्यत ।। 1.2.13 ।। 

 ।। 1.2.14 ।। ततः करुणवेदित्वात् अधर्मो ऽयमिति द्विजः ।

निशाम्य रुदतीं क्रौञ्चीं, इदं वचनमब्रवीत् ।। 14 ।।

तत इति । ततो द्विजःऋषिः रुदतीं क्रौञ्चीं निशाम्यअवलोक्य अयमधर्म इति निश्चित्य ।। 1.2.14 ।। 

 ।। 1.2.15 ।। मा निषाद प्रतिष्ठां त्वं अगमः शाश्वतीस्समाः ।

यत् क्रौञ्चमिथुनादेकं अवधीः काममोहितम् ।। 15 ।।

यद्यपि मृगयावऐहारिणः क्षत्रियस्य सुतरां निषादस्य च मृगयासु पशुपक्षिहनने न दोषः । तथापि यत्--यस्मात् काममोहितमवधीः, तत्तस्मादेव हेतोस्त्वं क्कचिद्देशे नगरे ग्रामे वा गृहक्षेक्षादिमत्तया प्रतिष्ठांस्थितिं मा गमः । न केवलमल्पायुषस्तवैकस्यायं शापः, अपि तु सन्तानपरम्परया शाश्वतीस्समाःअपारकालव्यापिन्य इति । कथमेवं आत्मात्मीयानपकारिणि घोरशापप्रवृत्तिः ऋषेः, तत्पापं तेन भुज्यतामित्युपेक्षामात्रस्यैव न्यायप्राप्तत्वात् । तथा हि विश्वामित्रादयः स्वापकारिष्वपि राक्षसादिषु क्षमां कुर्वते " शमो दमस्तपश्शौचं" इत्याद्युपदिष्टसहजब्रह्मधर्मपरिपालनाय । अत्रोच्यते--नैष दोषः ऋषेरेवंवचनस्य परवशप्रवृत्तत्वात् । किंपारवश्यात् ? भगवन्नियोगात् तन्मुखसन्निहतदेवीवशादेव । कथं तर्हि देव्यां आदौ शोकशापश्लोकविभावनं ? ऋषि प्रणेतव्यस्य शोकरसप्राधान्य 1सिद्ध्यर्थत्वात् । आदिमध्यावसानेषु तथात्वं स्पष्टम् । तथा त्रैलोक्यानर्थसंहाररूपपरममङ्गलस्य तत्तत्काव्यप्रतिपाद्यार्थस्य सत्यसरस्वतीत्वेनान्यापदेशत आदौ प्रतिपादनार्थत्वाच्च । तथा हि--सादयतेः पचाद्यचि 'सदिरप्रतेः' इति षत्वं । नितरां सदेवर्षिगणं त्रैलोक्यमवसादयति पीडयतीति निषादः, तस्य सम्बुद्धिः हे निषादरावण । यत्यस्मात् क्रौञ्चमिथुनात्--अल्पीभावार्थत्वात् क्रुञ्चेर्वा सरूपविधिना पचाद्यचि क्रुञ्चतीति क्रुञ्चः । तस्य भावः क्रौञ्चः, क्रौञ्चयोर्मिथुनं तता राज्यक्षयवनवासादिदुःखेनाल्पी भूतंपरमकार्श्यं गतं यन्मिथुनं सीतारामलक्षणं तस्यैकमवयवं सीतारूपं, भोगसुखितं, यत्यस्मादवधीःमिथुनादपहृत्य वियुज्यावधिष्टवधाभ्यधिकां पीडां कृतवान् असि, तत्तस्मादेव, भगवता ते शाश्वतीस्समाःअनेककोटिकालं, महाजलदुर्गकनकमयलङ्कापुरे सपुत्रपौत्रभृत्यगणतया या प्रितिष्ठा दत्ता तां प्रतिष्ठां अतः परं मा गम इति । इदमेव काव्यप्रतिपाद्यं महर्षिणोपदिश्यते'तदुपगतेत्यादिदशशिरसश्च वधं निशामयध्वं' इत्येतत्सर्गान्ते । अतस्सत्यसरस्वत्या देव्या परममङ्गलमेव पुरस्तादाविर्भावितमिति योगिकुलाभिध्येयम् ।। 1.2.15 ।। 

(1 सिद्धाग)

(इयं व्याख्या तिलेके अनूद्य विस्तरशो दूषिता ।।)

 ।। 1.2.16 ।। तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः ।

शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ।। 16 ।।

तस्यैवंमानुषेत्याद्युक्तरीत्या ब्रुवतः, 'वर्तमानसामीप्ये वर्तमानवत्' इति लटः शता, उक्तवतस्तस्य मुनेस्स्वोक्तमेव च हृदि वीक्षतःपर्यालोचयतः । छान्दसं परस्मैपदं । चिन्ताविचारो बभूव । कीदृश इत्यतःशोकेत्यादि । अस्य शकुनेःपतिवियुक्तपक्षिणो दर्शनजेन शोकेनार्तेनदीनेन मया यदिदं व्याहृतं तदिदं किं गद्यरूपं, पद्यरूपं, आहोस्वित् संस्कृतभाषामात्रमिति चिन्ता बभूवेति पूर्वेणान्वयः ।। 1.2.16 ।। 

 ।। 1.2.17 ।। चिन्तयन् स महाप्राज्ञश्चकार मतिमान् मतिम् ।

शिष्यं चैवाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः ।। 17 ।।

मतिमान्प्रशस्तबुद्धिः । महाप्राज्ञः'प्रज्ञाश्रद्धा'इत्यादिना मत्वर्थीयो णः । ऊहापोहसुशब्दापशब्दपद्यगद्यादिविवेचनचतुर इत्यर्थः । अत एवोक्तश्लोकस्य स्वरूपं चिन्तयन् । मतिं1तत्स्वरूपविषयकनिश्चयबुद्धिं चकार । एवं 2कृत्वा अथ स मुनिपुङ्गवः शिष्ये प्रतीदंवक्ष्यमाणलक्षणं वाक्यं चाब्रवीत् ।। 17 ।।

(1 ततः स्वरूपग.)

(2 कृत्वैवग.) ।। 1.2.17 ।। 

 ।। 1.2.18 ।। पादबद्धो ऽक्षरसमस्तन्त्रीलयसमन्वितः ।

शोकार्तस्य प्रवृत्तो मे श्लोको 3भवति नान्यथा ।। 18 ।।

पक्षिशोकार्तस्य मे प्रवृत्तो ऽयं शब्दसन्दर्भः श्लोक एव भवति, कुत इत्यतःपादबद्ध इत्यादि । 'अष्टाक्षरा गायत्री' इत्यष्टाक्षरगायत्रीपादवत्तया बद्धःबन्धः यस्य सन्दर्भस्य स तथा । एतेन न गद्यं नापि संस्कृतमात्रमित्युक्तम् । अपि च न केवलं प्राकृतश्लोकमात्रम् । अपि त्वक्षरसमःवृत्तरत्नाकरादिछन्दश्शास्त्रप्रतिपाद्यमानगुरुलध्वक्षरवैषम्यरहितः । अत एव तन्त्रीलयसमन्वितःतन्त्रीसम्बन्धेन गीतियोग्यतया समन्वितस्तथा । तथा नृत्तगीततालादियोग्यतया च समन्वितः । लयःतालमृदङ्गहस्तपादाभिनयानां समकालविरामः । 'लयस्साम्यम्' इत्यमरः । अतो ऽयमुक्तः एवंलक्षणः श्लोक एव भवति नान्यथा । न श्लोकाभासादिः । हे भरद्वाज एवमुक्तश्लोकत्व 1ज्ञानपूर्वं तद्ग्रहश्च ते भवतु2उक्तश्लोकं गृहाणेति यावत् ।। 18 ।।

(1 तत्वज्ञानग.)

(2 पूर्वेक्तग.)

(3 भवतुङ) ।। 1.2.18 ।। 

 ।। 1.2.19 ।। शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् ।

प्रतिजग्राह सन्तुष्टस्तस्य तुष्टो ऽभवन्मुनिः ।। 19 ।।

शिष्यस्त्विति । तस्य मुनेस्तु विशिष्टश्लोकं तद्ग्रहं च स्वस्मै ब्रुवतः अनुत्तमं वाक्यं शिष्यो भरद्वाजः संहृष्टो भूत्वा द्राक् प्रतिजग्राहगुरोः अर्थतः पाठतश्च गृहीतवान्, अतस्तस्य गुरुः अहो ते सौबुध्यमिति तुष्टो ऽभवत् ।। 1.2.19 ।। 

 ।। 1.2.20 ।। सो ऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि ।

तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः ।। 20 ।।

सो ऽभिषेकमिति । अभिषेकमिति मध्याह्नकर्तव्यक्रियासामान्योपलक्षणम् । तमेवार्थमितिउक्तश्लोकस्यार्थमिति यावत् । उपावर्ततन्यवर्तत ।। 1.2.20 ।। 

 ।। 1.2.21 ।। भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः ।

कलशं पूर्णमादाय पृष्ठतो ऽनुजगाम ह ।। 21 ।।

भरद्वाजः, श्रुतवान्बहुश्श्रुतः । पृष्ठतःस्कन्धपृष्ठभागेन पूर्णं कलशमादाय तं मुनिं आचार्यं अनुजगामेति योजना ।। 21 ।।

(अनुजगामेत्यनेनैव पृष्ठतो गमनस्य सिद्धत्वादेवं व्याख्यातम् । पृष्ठत इत्युक्तिः अव्यवधानसूचनार्था वा ।) ।। 1.2.21 ।। 

 ।। 1.2.22 ।। स प्राविश्याश्रमपदं शिष्येण सह धर्मवित् ।

उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ।। 22 ।।

स कथाश्चान्याःधर्म्याश्चकार । अनन्तरं माध्याह्निककृत्यत्वेन नित्यप्राप्तमम्बया चतुर्मुखध्यानमास्थितो बभूव । मध्याह्ने चतुर्मुखरुद्रप्राधान्येनाम्बया ध्यानं गायत्रीहृदयादितः श्रोत्रियमन्त्रप्रसिद्धं चतुर्मुखरुद्राभेदं मामकास्तु विदुः ।। 22 ।।

(इदं तिलके ऽनूद्य दूषितम् । ध्यानं--अवशोत्पन्नशोकविषयचिन्ताम्--इति तु. युक्तं ।) ।। 1.2.22 ।। 

 ।। 1.2.23 ।। आजगाम ततो ब्रह्मा लोककर्ता स्वयंप्रभुः ।

चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ।। 23 ।।

आजगामेति । स्वयं प्रभुःअनन्यमुख 1निरीक्षकतया भूरादिसर्वलोक लौकिकसर्गादिपञ्चकृत्यापेक्षितसमग्रभूमविद्यैश्वर्यानन्दशक्तिमान् । अत एव लोककर्तालोकानां भूरादीनां तल्लोकस्थत्रिस्रोतसां च सर्गादिपञ्चकृत्यसाक्षात्कर्ता, साक्षादखण्डकाले प्रतिष्ठत्वात् । अत एव महातेजाःयत्तेजःसमक्षं सर्वतेजांसि चन्द्रग्रहनक्षत्रतारादीन्यस्तं यान्ति । तथा हि श्रुतिः--"अमी य ऋक्षा निहिता स उच्चा । नक्तं ददृश्रे कुह चिद्दिवेयुः ।।" इति । एवं महातेजाश्चतुर्मुखो ब्रह्मेति अम्बाचतुर्व्यूहविद्यावलम्बनेन तदर्थरामादिचतुर्व्यूहब्रह्मावतारमूर्तिप्राधान्येन च सन्तत 1ध्यानप्रवृत्तत्वान्महर्षेस्तदनुग्रहाच्चतुर्मुखमूर्त्यैवागमनम् । चतुर्मुखस्वरूपं तु "यजुरथर्वसामर्चक्षमादिव" इत्याद्युपनिषद्रहस्यप्रकाशितम् । प्राकृतश्रुतिगोचरार्हे ऽस्मिन् व्याख्याने वा रहस्यवदनादि प्रापनीय्यम् । मामकास्तु तत्सर्वं विदुरेव । एवं सादर 2सदाध्यानपरत्वादृषिसत्तमं तं वाल्मीकिं द्रष्टुमाजागामतदीयकविताचातुर्यकाव्यौन्मुख्यादिप्रवृत्तिं द्रष्टुम्, दृष्ट्वा तामुपोद्वलयितुमाजगामेत्यर्थः । एतेन लोककर्तुर्भगवतः ऋषेर्दर्शनार्थमागमनमश्रद्धेयमिति शङ्का ऽपास्ता ।। 23 ।।

(1निरीक्षितयाग.)

(1 प्रवृत्तध्यानत्वाग)

(2 सदूध्यानग.) ।। 1.2.23 ।। 

 ।। 1.2.24 ।। वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः ।

प्रणतः प्राञ्चलिर्भूत्वा तस्थौ परमविस्मितः ।। 24 ।।

प्राक् प्रणतः पश्चात् प्राञ्जलिर्भूत्वा तस्थाविति योजना । अत्र 'पाद्यार्ध्य' इत्युपनिषदुपदिश्यमानषोडशोपचाराणां मध्ये दैवात्सम्पन्नमिहाद्यमुपचारद्वयम् ।। 1.2.24 ।। 

 ।। 1.2.25 ।। पूजयामास तं देवं पाद्यार्ध्यासनवन्दनैः ।

प्रणम्य विधिवच्चैनं पृष्ट्वा चैव निरामयम् ।। 25 ।।

पाद्यादिः उपचारान्तराणामप्युपलक्षकः, तत्रानामयप्रश्न आवाहनशेषः । अव्ययंव्ययःजन्मादिनाशान्तविकारः, स्वेतरसर्वसंस्कारस्य तत्साक्षात्प्रवर्तकं, कालोपग्रहत्वतो ऽपि व्ययप्रसक्तिशून्यम्, देवंअपरोक्षानुभूयमानानन्यसामान्यदिव्यार्थं । प्रथमं स्वागतं अत्रभवतां स्वामिनामित्यनामयं पृष्ट्वास्वागतप्रश्नं कृत्वा, पाद्याद्युपचारैस्सम्पूज्य पश्चाद्दक्षिणं बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणो ऽभिवादयीत, इत्याद्युपदिश्यमानन्यायेन विधिवच्च प्रणम्यब्राह्मं प्रणामं कृत्वा एनमेवं पूजयामास ।। 1.2.25 ।। 

 ।। 1.2.26 ।। अथोपविश्य भगवान् आसने परमार्चिते ।

वाल्मीकये च ऋषये संदिदेशासनं ततः ।। 26 ।।

वल्मीकये च ऋषय इति पठितव्यम् । महर्षय इति पाठे चतुर्थगुर्वक्षरेण छन्दोभङ्गः । आसनं सन्दिदेशेति । आसनोपवेशनानुज्ञां कृतवान् भगवानिति यावत् ।।

ब्रह्मणा समनुज्ञातः सो ऽप्युपाविशदासने ।

ब्रह्मणेत्याद्यर्धं स्वस्मिन्नेव परिसमाप्तवाक्यं सत् श्लोकत्वेन गण्यतां, पूर्वापरश्लोकास्सर्वे यथावदर्धद्वयान्विताः ।। 26 ।।

( नन्वर्धत्रयकरणं विरुद्ध्यतेमैवंलेखकदोषेणार्धान्तरपतनसम्भवात्गो)

( गो.) ।। 1.2.26 ।। 

 ।। 1.2.27 ।। उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे ।

तद्गतेनैव मनसा वाल्मीकिर्ध्यानमाश्रितः ।। 27 ।।

उपविष्ट इति । भगवति साक्षादुपविष्टे सति । तद्गतेनैवभगवद्गतेनैव मनसा । वाल्मीकिः ध्यानंसमाधिमाश्रितः ।। 27 ।।

( अत्रापि 22तम श्लोकवदेव ध्यानं विवक्षितुं युक्तं, उत्तरश्लोकानुगुणं च तत् । ।। 1.2.27 ।। 

 ।। 1.2.28,29.पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना ।

यत्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् ।। 28 ।।

शोचन्नेव पुनः क्रौञ्चीमुपश्लोकमिमं जगौ ।

पुनरन्तर्गतमना भूत्वा शोकपरायणः ।। 29 ।।

अथापि । पापेत्यादिश्लोकद्वयं एकसम्बन्धम् । पापात्मनापापवासनाविशिष्टचित्तेनः । अत एव पशुपक्ष्यादिष्वकारणत एव वैरग्रहणबुद्धिनानित्यजिघांसोपगृहीतबुद्धिना अहो कष्टं कृतं । किं कष्टं कृतमित्यत--यदित्यादि । तादृशं सम्भोगप्रसक्तं चारुरवं क्रौञ्चमकारणाद्धन्यात्हतवानस्ति इति यत्, कष्टमेतत् । "यच्चयत्रयोः" इति गर्हायां भूतार्थे लिङ् । एवं वियुक्तां क्रौञ्चीमुद्दिश्य घृणाद्यष्टपाशबद्धसंसारित्वात् मुहुश्शोचन् भगवत्यन्तर्गतमना भूत्वैव सन् " उपसमीपे भगवद्ध्याने क्रियमाण एवान्तरान्तरा प्रागुक्तभावित्वात् शोकपरायणस्सन् इमं श्लोकंपापात्मनेत्याद्युक्तं श्लोकं च पुनःपुनर्जगौ ।। 29 ।।

( उपजगौ इत्यन्वयःगो.)

( मानिषादेत्याद्युक्तंइति युक्तम्). ।। 1.2.29 ।। 

 ।। 1.2.30 ।। तमुवाच ततो ब्रह्मा प्रहस्य मुनिपुङ्गवम् ।

श्लोक एव त्वया बद्धो नात्र कार्या विचारणा ।। 30 ।।

ततो भगवान् ब्रह्मा सर्वान्तर्यामित्वात्तदीयं शापबन्धकृतं दुश्चित्तमालक्ष्य प्रहस्य तं मुनिपुङ्गवं उवाच । किमिति--मच्चित्तेनापि त्वया पारतन्त्र्यात् इदानीमपि शोकव्याजेन श्लोक एव बद्धः । त्वया प्राङ्निश्चितश्लोकत्वश्लोकवदयमपि समीचीनश्लोक एव । नात्र संदर्भमात्रत्वविचारणाचिन्ता श्लोकाभासत्वादिचिन्ता वा कार्या । णौ चरसंशये, अस्मात् 'ण्यासश्रन्थो युच्' इति युच् ।। 1.2.30 ।। 

 ।। 1.2.31 ।। मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती ।

रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम ।। 31 ।।

ननु नाथ कथं मयि त्वद्ध्यानारूढचित्ते ऽपि अन्तरान्तरा मे श्लोकप्रवृत्तिरित्यत उच्यतेमच्छन्दादिति । परमभक्तत्वन्मुखेन मदवताररामचरितविषयकं सत्यं काव्यं प्रवर्तनीयमित्येवंरूपमदभिप्रायानुवर्तनाद्धेतोः, हे ब्रह्मन् तेतव मुखादियं सरस्वती प्रवृत्ता । मदनुग्रहात् त्वयि सन्निहितयानया महर्षिसत्तम रामस्य कृत्स्नं चरितं विषयीकृत्य काव्यं कुरु ।। 1.2.31 ।। 

 ।। 1.2.32 ।। धर्मात्मनो 1भगवतो लोके रामस्य धीमतः ।

वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् ।। 32 ।।

कथं मया कर्तव्यमित्यत्राह--धर्मेति । अस्मिन् लोके इदानीं धर्मात्मनेत्यर्थः ।। 32 ।।

(1 गुणवतोङ) ।। 1.2.32 ।। 

 ।। 1.2.33,34 ।। रहस्यं च प्रकाशं च यद्वृत्तं तस्य धीमतः ।

रामस्य सहसौमित्रे राक्षसानां च सर्वशः ।। 33 ।।

वैदह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रहः ।

यच्चाप्यविदितं सर्वं विदितं ते भविष्यति ।। 34 ।।

यच्चाप्यविदितमिति । प्राकृतदुर्वेदं प्रसङ्गात् काव्यमध्ये 2वक्तव्यं ब्रह्मरहस्यान्तमलौकिकार्थतत्त्वं लोकायतान्तलौकिकव्यवहारार्थतत्त्वं चेत्यर्थः ।। 34 ।।

(2 कर्तव्यम्क). ।। 1.2.34 ।। 

 ।। 1.2.35 ।। न ते वागनृता काव्ये काचिदत्र भविष्यति ।

कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् ।। 35 ।।

अनृतामिथ्यार्था । कुरु रामकथांरामचरितविषयिणी कथा3काव्यप्रबन्धस्तथा ।। 35 ।।

(3 वाक्यक.) ।। 1.2.35 ।। 

 ।। 1.2.36 ।। यावत् स्थास्यन्ति गिरयः सरितश्च महीतले ।

तावद्रामायणकथा लोकेषु प्रचरिष्यति ।। 36 ।।

यद्यपि त्वदाज्ञासन्निहितदेव्यनुग्रहात् काव्यं सुकरम् । अथापि तस्य प्रचारेण मम शक्त्यभावात् किं तेन प्रयोजनमित्यतःयावदिति । यावत्तावताववध्यर्थावव्ययौ । प्रचरिष्यतीति । मदनुग्रहात् स्वयमेव लोकेष्विति शेषः ।। 1.2.36 ।। 

 ।। 1.2.37 ।। यावद्रामस्य च कथा त्वत्कृता प्रचरिष्यति ।

तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि ।। 37 ।।

कर्तुश्च तवानन्यदुर्लभफललाभ इत्युच्यते--यावद्रामेति । ऊर्ध्वमधश्चेत्यव्ययम् । ऊर्ध्वं लोका भूरादयः । अधो लोका अतलादयः सप्त । मल्लोकेष्विति । महाविराडण्डविग्रहमदवयवभूतलोकेष्वित्यर्थः । निवत्स्यसीति । वसेस्स्ये परे 'सस्यार्धधातुके' इति तत्त्वम् ।। 1.2.37 ।। 

 ।। 1.2.38 ।। इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत ।

ततस्सशिष्यो वाल्मीकिर्मुनिर्विस्मयमाययौ ।। 38 ।।

इत्युक्त्वेति । तत्रैवेति । न तु नारदादिवत् ऊर्ध्वादिदेशगमनपूर्वं तस्य अन्तर्धानम् ।। 1.2.38 ।। 

 ।। 1.2.39 ।। तस्य शिष्यास्ततस्सर्वे जगुः श्लोकमिमं पुनः ।

मुहूर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ।। 39 ।।

इममिति । मा निषादेत्याद्युक्तरूपम् । प्राहुश्चेति । इदं वक्ष्यमाणवचनमिति शेषः ।। 1.2.39 ।। 

 ।। 1.2.40 ।। समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा ।

सो ऽनुव्याहरणाद्भूयः शोकः श्लोकत्वमागतः ।। 40 ।।

किं प्राहुरित्यतःसमेति । अयं श्लोको महर्षिणा समाक्षरैश्चतुर्भिः पादैर्गीतःश्लोकत्वबुद्धिराहित्येन संस्कृतमात्रत्वेन वर्णितः । सः शोकविषयश्शब्दो भूयो ऽनुव्याहरणात्अनुस्मृत्य व्याहरणाद्धेतोः दैवगत्या श्लोकत्वमागतस्तिष्ठति । अचिन्तिततया एवं कवितामार्गः प्रादुर्भूतो ऽस्मदाचार्यस्य । इदमपूर्वमिति प्राहुरित्यन्वयः पूर्वेण । आहुरित्यर्थः । ब्रूते(भूते)र्लिटि 'ब्रुवः पञ्चानाम्' इत्युसाहादेशौ । यद्वा एवमादौ भूतार्थासिद्धये सर्वत्र स्मशब्दो ऽध्याहार्यः ।। 1.2.40 ।। 

 ।। 1.2.41 ।। तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः ।

कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ।। 41 ।।

तस्य करवाण्यहमितीयं बुद्धिरिति योजना । रामायणमिति । रामायणाख्यमिति यावत् । ईदृशैरितिमा निषादेतिवत् श्लोकरूपैरेव सन्दर्भैरित्यर्थः ।। 1.2.41 ।। 

 ।। 1.2.42 ।। उदारवृत्तार्थपदैर्मनोरमैः

तदास्य रामस्य चकार कीर्तिमान् ।

समाक्षरैः श्लोकशतैर्यशस्विनो

यशस्करं काव्यमुदारधीर्मुनिः ।। 42 ।।

सत्यसङ्कल्पत्वात् ऋषेः यथासङ्कल्पं क्रियानिवृत्तिरित्युच्यते--उदारेति । "उदारो महति ख्याते" इति वैजयन्ती । वृत्तंचरितम् । छन्दोवर्तनवाची अयम् । अर्थःअभिधेयः । पदंसुप्तिङन्तलक्षणम् । उदाराणि ख्यातानि लोकव्याकरणप्रसिद्धानि वृत्तानि तथा, करणे तृतीया । अत एव मनोरमत्वम् । समाक्षरैः--गुरुलध्वक्षरवैषम्यरहितैः । अत एव पुरस्ताद्वाल्मीकये च ऋषय इति पाठ इत्युक्तम् । शतशब्दो ऽनेकपर्यायः । उदारधीःमहाबुद्धिः । यशस्विनो रामस्य चरितविषयकं लोककवेश्च यशस्करं तत्तादृक्काव्यं चकारेति योजनार्थः ।। 1.2.42 ।। 

 ।। 1.2.43 ।। तदुपगतसमाससन्धियोगं

सममधुरोपनतार्थवाक्य 1बन्धम् ।

रघुवरचरितं मुनिप्रणीतं

दशशिरसश्च वधं निशामयध्वम् ।। 43 ।।

(1 बद्धम्ङ.च)

इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्वितीयः सर्गः

--

एवं काव्यं निर्माय विद्वांसो ऽभिमुखीक्रियन्तेतदुपगतेत्यादि । समासो द्वन्द्वादिः । सन्धिरेकादेशतुगागमादिजः । योगःविभक्तार्थयोः प्रकृतिप्रत्ययोः । उपगताःयथाव्याकरणमर्यादं समासादयो यस्मिन् पादे तत्तथा । तस्मान्मत्वर्थीयो ऽच् । उपगतसमाससन्धियोगपदवदित्यर्थः । एवं काव्यस्य विशिष्टपदवैभवमुक्त्वा वाक्यवैभवं उच्यतेसमेत्यादि । समःओजः प्रसादसमः, ओजस्समस्तपदभूयस्त्वं, प्रसादो व्यस्तपदभूयस्त्वम् । न चागमवत् केवलं ओजोभूयः । न च वेदवत् प्रसादभूय इत्यर्थः । मधुरःवैदर्भरीतिः । तेन मधुरपाकेन, वाक्याश्रितपदशक्तिवैभवेन उपनतःउपलभ्यमानस्तत्तत्प्रकरणोचितार्थो यस्मिन् तत्तथा । परस्परान्वितक्रियाकारकपदं वाक्यम् । वाक्यत्वेन 1बन्धःसम्बन्धो वाक्य2बन्धः । समो मधुरः उपनतार्थो वाक्य3बन्धो यस्मिन् काव्ये तत्तथा । एवं विशिष्टपदवाक्यवैभववतो ऽपि मिथ्यार्थकत्वादप्रामाण्यप्रसङ्ग इत्यतःमुनिप्रणीतमिति । भगवदनुग्रहप्राप्तसत्यसरस्वतीकमहर्षिप्रणीतम् । अत एव परं प्रमाणम् । एवमपि लोकिकाप्तवाक्यवत् परलोकानुपयोग इत्यतःरघुवरचरितमिति । यतो भगवदवतारश्रीरामचरितं अतो ब्रह्मलोकावाप्तिसाधनं तदिदमेव विशेषविषयप्रयोजनकं काव्यम्, श्रेयो ऽर्थिनः निशामयध्वंसेन्द्रजित्कुम्भकर्णरावणस्यैव त्रिपदाघोरांशजमलत्वात्तन्नाशपर्यन्तश्रवणत एव युष्माकमपि शुद्धिसिद्धेः आन्तमिदं काव्यं श्रृणुध्वं इत्यर्थः ।। 43 ।।

(1 बद्धःक.)

(2 बद्धः.क.)

(3 बद्धः.क.) ।। 1.2.43 ।। 

इति श्रीमद्रामाणामृतकतकटीकायां बालकाण्डे द्वितीयस्सर्गः ।। 34734 ।। 
Sanskrit Commentary by Govindaraja
नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः ।

पूजयामास धर्मात्मा सहशिष्यो महामुनिः ।। 1.2.1 ।।

श्रीमच्छठारिगुरुणा गुरुणोपदिष्टं रामायणस्य हृदयं सरसं गृहीत्वा । श्रीकौशिकान्वयकुलेन्दुरशेषबन्धुर्गोविन्दराजविबुधो विशदीकरोति ।। 1 ।।

अथ परमकारुणिको वाल्मीकिः "इष्टं हि विदुषां लोके समासव्यासधारणम्" इत्युक्तरीत्या सङ्क्षेपेणोक्तं रामचरित्रं पुनर्विस्तरेण प्रतिपिपादयिषुस्तत्र प्रेक्षावत्प्रवृत्त्यर्थं वक्तृवैलक्षण्यं प्रबन्धवैलक्षण्यं प्रतिपाद्यवैलक्षण्यं चेति वैलक्षण्यत्रयं निदिदर्शयिषुर्वक्तृवैलक्षण्यं तावदादौ दर्शयति नारदस्येत्यादिना

द्वितीयसर्गेण । वक्तृवैलक्षण्यं तु परमाप्तत्वम् । आप्तत्वं च यथार्थदर्शित्वे सति यथार्थवादित्वम्, तस्य परमत्वं तु पितामहवरप्रसादलब्धत्वम्, तदेतदुपदर्शयितुमुपोद्घातत्वेनाह नारदस्येत्यादि । तुशब्दो वैलक्षण्यपरः । "तु स्याद्भेदे ऽवधारणे" इत्यमरः । स च काकाक्षिन्यायेनोभयत्रान्वेति । त्रिलोकज्ञतया इतरविलक्षणस्य नारदस्य शब्दतो ऽर्थतश्चेतरवाक्यविलक्षणोत्कर्षम्, तत् पूर्वं सङ्क्षेपरूपेणोक्तम् । वाक्यं सम्पूर्णार्थप्रतिपादकपदसमूहं प्रश्नानुरूपोत्तरं श्रुत्वा निशम्य, वाक्ये विशारदो विद्वान् "विद्वत्सुप्रगल्भौ विशारदौ" इत्यमरः । वाक्यविशेषज्ञ इत्यर्थः । धर्मे आत्मा बुद्धिर्यस्यासौ धर्मात्मा धर्मस्वभावो वा । अत्र प्रकरणात् गुर्वनुवर्तनधर्मज्ञ इत्यर्थः । महामुनिः वेदान्तार्थनिर्णयसम्पत्त्या सर्वोत्कृष्टमुनिर्वाल्मीकिः सहशिष्यः शिष्यसहितः सन् । "वोपसर्जनस्य" इति पक्षे सहशब्दस्य सभावाभावः । पूजयामास अहो वाक्यवैखरीति तद्वाक्यं श्लाघयामासेति वाक्यविशारदत्वोक्तिभङ्ग्यावगम्यते । महामुनिमिति पाठे वाल्मीकिपदाध्याहारः । तमिति प्रयोक्तव्ये अन्यत्वप्रतीतिकरमहामुनिपदप्रयोगास्वारस्यम् ।। 1.2.1 ।।



यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा ।

आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसम् ।। 1.2.2 ।।

यथावदिति । देवश्चासौ ऋषिश्चदेवर्षिर्नारदः । "नारदाद्याः सुरर्षयः" इत्युक्तेः । तेन वाल्मीकिना यथावत् यथार्हम् पूजितः प्रदक्षिणनमस्कारादिभिरर्चितः सन् । तदा पूजावसाने आपृष्ट्वा आपृच्छ्य । "क्त्वापि छन्दसि" इति ल्यबभावः । अभ्यनुज्ञातः गच्छ त्वमिति वाल्मीकिना कृताभ्यनुज्ञानः विहायसमाकाशं जगाम ।। 1.2.2 ।।



स मुहूर्तं गते तस्मिन् देवलोकं मुनिस्तदा ।

जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ।। 1.2.3 ।।

स इति । तस्मिन्नारदे मुहूर्तम् अल्पकालम् "मुहूर्तमल्पकाले स्यात्" इति निघण्टुः । अत्यन्तसंयोगे द्वितीया । देवलोकं ब्रह्मलोकं गते वाल्मीके रामभक्तिं ब्रह्मणे कथयितुं प्राप्ते सति, स मुनिर्वाल्मीकिः, तदा नारदगमनोत्तरकाले जाह्नव्या गङ्गाया अविदूरतः समीपे । सप्तम्यर्थे तसिः । स्थितमिति शेषः । तु गङ्गातो ऽपि विलक्षणं तमसातीरम्, जगाम माध्याह्निकाभिषेकाय प्राप्तः ।। 1.2.3 ।।



स तु तीरं समासाद्य तमसाया मुनिस्तदा ।

शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ।। 1.2.4 ।।

स त्विति । स मुनिस्तमसाया विलक्षणं तीरमासाद्य, तदा आसादनकाले । अकर्दममपङ्कम् । तीर्थं जलावतरणम् । "तीर्थं मन्त्राद्युपाध्यायशास्त्रेष्वम्बुनि पावने । पात्रोपायावतारेषु" इति वैजयन्ती । दृष्ट्वा पार्श्वे स्थितं शिष्यमाह ।। 1.2.4 ।।



अकर्दममिदं तीर्थं भरद्वाज निशामय ।

रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ।। 1.2.5 ।।

अकर्दममिति । भरद्वाज इति वाल्मीकेः प्रधानशिष्यस्य नाम । हे भरद्वाज अकर्दममपङ्कम्, अधः प्रदेशे पङ्करहितमित्यर्थः । अन्यत्र पापरहितम् । प्रसन्नाम्बु प्रसन्नसलिलं लोके किञ्चिदधः पङ्करहितत्वे ऽपि जलं कलुषमेव भवति किञ्चिन्निर्मलोदकत्वे ऽप्यधः सपङ्कमेव दृश्यते, न तथेदमिति

भावः । अन्यत्राम्बुवत्प्रसन्नम् । अत एव रमणीयम्, सन्मनुष्यमनो यथा सत्पुरुषहृदयसदृशमिदं तीर्थं निशामय पश्य । "शमो दर्शने" इति मित्वाभावाद्दर्शनार्थो ऽयं शब्दः । सन्मनुष्यमनोवत्प्रसन्नाम्ब्िवति वा योजना ।। 1.2.5 ।।



न्यस्यतां कलशस्तात दीयतां वल्कलं मम ।

इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ।। 1.2.6 ।।

न्यस्यतामिति । हे तात वत्स कलशः उदपात्रं न्यस्यतां भूमौ स्थाप्यताम्, मम वल्कलं स्नानशाट्यर्था वृक्षत्वक् दीयताम् । किमर्थमित्यत्राह इदमेवेति । उत्तमम् अकर्दमत्वादिगुणयोगेन जाह्नवीतीर्थात् श्रेष्ठमिदमेव तमसातीर्थमवगाहिष्ये अत्रैव स्नास्यामि, माध्याह्निककालातिक्रमादगत्वा, जाह्नवीमिति शेषः । त्वमप्यत्रैव स्नाहीत्यर्थः ।। 1.2.6 ।।



एवमुक्ते भरद्वाजो वाल्मीकेन महात्मना ।

प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ।। 1.2.7 ।।

एवमिति । महात्मना महामनसा वाल्मीकेन वाल्मीकिना । "तस्येदम्" इति सम्बन्धमात्रे ऽण् । सम्बन्धश्चात्र पुत्रत्वम् । एवं पूर्वोक्तरीत्या उक्तः गुरोर्नियतः परतन्त्रः भरद्वाजः मुनेस्तस्य वाल्मीकेः वल्कलं प्रायच्छत प्रादात् । दाणः यच्छादेशः । छन्दसि बहुलग्रहणादात्मनेपदम् । सम्बन्धसामान्ये षष्ठी । तस्मा इत्यर्थः ।। 1.2.7 ।।



स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः ।

विचचार ह पश्यंस्तत्सर्वतो विपुलं वनम् ।। 1.2.8 ।।

स इति । नियतेन्द्रियः निगृहीतेन्द्रियो ऽपि स वाल्मीकिः शिष्यहस्ताद्वल्कलमादाय । विपुलं विशालम् । वनं सर्वतः पश्यन् सन् विचचार । हेति विस्मये, निगृहीतेन्द्रियस्य विपुल वनावलोकनं दैवकृतत्वाद्विस्मयनीयमित्यर्थः ।। 1.2.8 ।।



तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् ।

ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम् ।। 1.2.9 ।।

तस्येति । भगवान् माहात्म्यवान् "भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु" इत्यमरः । शापानुग्रहसमर्थ इत्यर्थः । वाल्मीकिः तत्र वने, तस्य तीर्थस्याभ्याशे समीपे, चरन्तं वर्तमानम् अनपायिनम् अविनाभूतम् । क्षणविरहासहिष्णुक्रौञ्चमिथुनमिति प्रसिद्धम् । चारुनिःस्वनमिति रतिकालिकस्वरोक्त्या रतिर्द्योत्यते । क्रौञ्चयोर्मिथुनं द्वन्द्वम् । पुँल्लिङ्गत्वमार्षम् । ददर्श ।। 1.2.9 ।।



तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयः ।

जघान वैरनिलयो निषादस्तस्य पश्यतः ।। 1.2.10 ।।

तस्मात्त्विति । पापनिश्चयः रतिसमये ऽपि हननकरणात् क्रूरनिश्चयः । वैरनिलयः सर्वजन्तुविषयसहजशात्रवयुक्तः निषादः तस्मान्मिथुनात्तन्मिथुनमासाद्य । ल्यब्लोपे पञ्चमी । पुमांसमेकमवयवं तस्य पश्यतः तं पश्यन्तं मुनिमनादृत्य । "षष्ठी चानादरे" इत्यनादरे षष्ठी । जघान हतवान् ।। 1.2.10 ।।



तं शोणितपरीताङ्गं वेष्टमानं महीतले ।

भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् ।। 1.2.11 ।।

तमिति । भार्या क्रौञ्ची निहतं व्याधहतम् अत एव महीतले भूतले वेष्टमानं घूर्णमानम् । शोणितपरीताङ्गं रुधिरव्याप्तशरीरं तं क्रौञ्चं दृष्ट्वा करुणां श्रोतुः कारुण्यावहां गिरं रुराव करुणशब्दमकरोत् । 'ओदनपाकं पचति' इतिवत् । अरोदीत् ।। 1.2.11 ।।



वियुक्ता पतिना तेन द्विजेन सहचारिणा ।

ताम्रशीर्षेण मत्तेन पत्रिणा सहितेन वै ।। 1.2.12 ।।

वियुक्तेति । पतिना पत्या । नाभाव आर्षः । सहचारिणा सहचारशीलेन । ताच्छील्ये णिनिः । सहितेनेत्यनेन मनस्सङ्गतिरुच्यत इति न तेन पुनरुक्तिः । ताम्रशीर्षेण रक्तशिरसा । "उत्तमाङ्गं शिरः शीर्षम्" इत्यमरः । मत्तेन, रतिपरवशेनेत्यर्थः । पत्रिणा प्रशस्तपक्षेण तेन द्विजेन पक्षिणा । "दन्तविप्राण्डजा द्विजाः" इत्यमरः । भार्या वियुक्ता विरहिता सती करुणां गिरं रुरावेति पूर्वेणान्वयः । वै इति पादपूरणे । "तु हि च स्म ह वै पादपूरणे" इत्यमरः । अत्र विशेषणानि भार्यायाः शोकातिरेकहेतुत्वेन निर्दिष्टानि ।। 1.2.12 ।।



तथा तु तं द्विजं दृष्ट्वा निषादेन निपातितम् ।

ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ।। 1.2.13 ।।

तथेति । तथा शोणितपरीताङ्गमित्याद्युक्तरीत्या निषादेन निपातितम्, हिंसितमित्यर्थः । तं द्विजं दृष्ट्वा स्थितस्य धर्मात्मनः धर्मस्वभावस्य ऋषेर्वाल्मीकेः । करुणैव कारुण्यम् । स्वार्थे ष्यञ् । दया समपद्यत आसीत् ।। 1.2.13 ।।



ततः करुणवेदित्वादधर्मो ऽयमिति द्विजः ।

निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् ।। 1.2.14 ।।

तत इति । ततः क्रौञ्चीविषयकारुण्यसम्पत्त्यनन्तरं द्विजः सहजकारुण्यस्वभावो मुनिः । रुदतीं क्रौञ्चीं निशाम्य दृष्ट्वा । करुणवेदित्वात् कारुण्यभाक्त्वात् । "विद्लृ लाभे" इत्यस्मात् णिनिः । अयं रति काले हिंसनमधर्म इति मत्वा इदं वक्ष्यमाणं वचनमब्रवीत् ।। 1.2.14 ।।



मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।

यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ।। 1.2.15 ।।

तदेव वचनमाह मा निषादेति । हे निषाद त्वं शश्वदेव शाश्वत्यः । स्वार्थे अण्, ततो ङीप् । ताः अनारता इत्यर्थः । समाः संवत्सरान् । "संवत्सरो वत्सरो ऽब्दो हायनो ऽस्त्री शरत्समाः" इत्यमरः । अत्यन्तसंयोगे द्वितीया । प्रतिष्ठां क्वचित्स्थानं "प्रतिष्ठा स्थितिमाहात्म्य " इति वैजयन्ती । मा गमः मा प्राप्नुहि । "आशंसायां भूतवच्च" इति लुङतिदेशात् लुङ्, लृदित्वादङ् । नायं माङ्, अपि तु माशब्द इति काशिकाकारः, तेनाडागमे ऽपि न विरोधः । दुर्घटवृत्तिकारस्तु अमेति पदच्छेदः । हे अम हे अलक्ष्मीक इति निषादविशेषणम् । ततो "न माङ्योगे" इत्यडभाव इत्याह । एवं पूर्वार्द्धेन शाप उक्तः, तत्र हेतुरुत्तरार्द्धेनोच्यते यद्यस्मात्कारणात् क्रौञ्चमिथुनात् क्रौञ्चमिथुनमासाद्य । ल्यब्लोपे पञ्चमी ।

एकं काममोहितं कामेन मोहं प्रापितम्, रतिक्रीडाविवशमित्यर्थः । एकमवयवमवधीः हिंसितवानसि तस्मात्तद्वदेव प्रतिष्ठां मा गम इति योजना । चतुर्मुख प्रसादेन वाल्मीकिमुखात् प्रथमोदितो ऽयं श्लोकः केवलं शापपरो न भवितुमर्हतीति भगवन्मङ्गलाशासनपरतया मङ्गलाचरणपरो ऽयं प्राथमिकश्लोक इति पूर्वाचार्या वर्णयन्ति । तथाहि निषीदन्त्यस्मिन्निति निषादो निवासः । अधिकरणे घञ् । मा लक्ष्मीः, तस्या निषादो मानिषादः श्रीनिवासः, तत्र सम्बुद्धिः हे श्रीनिवास त्वं शाश्वतीः समाः सर्वकालं प्रतिष्ठां माहात्म्यमगमः गच्छ । लकारव्यत्ययः । यद्यस्मात् क्रौञ्चमिथुनात् राक्षसमिथुनाद्रावणमन्दोन्दरीरूपात् कामेन मन्मथेन मोहितं सीतापहर्तारमेकं रावणमवधीः, रावणं हत्वा कृतत्रैलोक्यत्राणस्त्वं यावत्कालं विजयीभवेत्यर्थः । वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः । एवमनेन श्लोकेनेष्टदेवतास्मरणरूपं मङ्गलमाचरितम् । "काव्यार्थसूचनं कैश्चिन्नान्द्यामेव निरूप्यते" इति वचनादस्मिन्नेव श्लोके वक्ष्यमाणकाव्यार्थः सङ्क्षेपेण दर्शितः । तथाहि "मानिषाद" इत्यनेन सीतापरिणयपर्यवसायिनी बालकाण्डकथोद्बोधिता । "प्रतिष्ठां त्वमगमः" इत्यनेन पितृवचनपरिपालनप्रतिष्ठाभिधायिन्ययोध्याकाण्डकथावेदिता । "शाश्वतीः समाः" इत्यनेन ऋषिगणविषयप्रतिज्ञानिर्वहणेन रामस्य प्रतिष्ठानुवृत्तिमभिदधत्यारण्यकाण्डकथा सूचिता । "क्रुञ्च गतिकौटिल्याल्पीभावयोः" इत्यस्माद्धातोः "ऋत्विक् " इत्यादिना क्विन्निपातनात् नलोपः संयोगान्तलोपश्च न भवति । क्रुञ्चेव क्रौञ्चः । स्वार्थे अण् । तथा च क्रौञ्चयोः कुटिलयोस्तिरश्चोस्तारावालिनोर्मिथुनादेकं काममोहितं सुग्रीवभार्यापहर्तारं वालिनमवधीरिति किष्किन्धाकाण्डकथाभिहिता । क्रौञ्चौ अल्पीभूतौ, कृशाविति यावत् । तयोरन्योन्यविरहक्लेशक्रशीयसोः सीतारामयोरेकमवयवं सीतारूपमवधीः भृशं पीडितवानसीति सीताविरहदुःखातिशयवर्णनपरा सुन्दरकाण्डकथा बोधिता । क्रौञ्चौ कुटिलौ राक्षसौ, तन्मिथुनादेकं काममोहितं रावणमवधीरिति युद्धकाण्डकथा सूचिता । दण्डकारण्यवासिऋषिपत्नीदर्शनाभिलाषमोहितसीतापीडाभिधानेनोत्तरकाण्डार्थो ऽपि सङ्क्षिप्तः । ननु मृगपक्ष्यादि वधस्य व्याधकुलधर्मत्वात् कथमनपराधिनमेनं मुनिः शप्तुमर्हति ? वक्ष्यति राम एव वालिवधप्रस्तावे "प्रमत्तानप्रमत्तान् वा नरा मांसार्थिनो भृशम् । वध्यन्ति विमुखांश्चापि न च दोषो ऽत्र विद्यते ।।" इति। सत्यम् तथापि रतिपरवशतादशायां तद्वधो दोष एवेति मुनेराशयः। सूचयति हि रतिपरवशतां काममोहितमिति पदेन। अत एव भारते पाण्डुं प्रति मुनिः "अस्वर्ग्यमयशस्यं त्वमनुतिष्ठसि भारत। को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने ।।" इति । नन्विदं मलयं गच्छतो मन्दरपथोपवर्णनम्, यदयमात्मनो वैलक्षण्यं परमाप्तत्वं वक्तुमारभ्य स्वचरित्रवर्णनं करोति, ब्रह्मागमनवरप्रदानादेरेव तदर्थं वक्तव्यत्वात् । उच्यते श्रूयतामवधानेन । "अर्थतः शब्दतो वापि मनाक्काव्यार्थसूचनम्" इति दर्शितरीत्या काव्यार्थसूचनमियता ग्रन्थसन्दर्भेण क्रियते । तथाहि "अकर्दमम्" इत्यादिना पावनं समुद्रसेतुस्थलमुच्यते । "तस्याभ्याशे" इत्यादिना तत्तीरे मन्दोदर्या सह चरन्तं भोगान् भुञ्जानम् अनपायिनं चतुर्मुखवरप्रदानेन लब्धचिरायुष्कं चारुनिस्वनं रम्यवीणादिविनोदं क्रौञ्चयो राक्षसयोर्मिथुनं ददर्श धर्मबलेनालोकितवान् । "तस्मात्" इत्यादिना पापनिश्चयो निश्चितरावणपापः, वैरनिलयः हिरण्यकशिपुरावणशिशुपालरूपजन्मत्रयानुसारित्वात्सहजशात्रवः निषीदन्त्यत्र सर्वाणि जगन्तीति निषादो विष्णुः । पुमांसं रावणं जघानेत्युच्यते । "भार्या तु" इत्यादिना मन्दोदरीप्रलापः । द्विजेन पुलस्त्यवंशत्वात् ब्राह्मणेन, ताम्रशीर्षेण रत्नमुकुटधारित्वात्, पत्रिणा वाहनपरिच्छदादिमता, सहितेन कुम्भकर्णेन्द्रजिदादिसहायसम्पन्नेन । कारुण्यं जुगुप्सा । "जुगुप्सा करुणा घृणा" इत्यमरः । अधर्मो ऽयमिति रावणकृतो ऽयमधर्म इति एतत्सर्वं रावणवधवृत्तान्तमवलोक्य

पौलस्त्यवधाभिधानं तद्विषयप्रबन्धं निरमिमीतेति मानिषादेत्यस्य रामायणार्थसङ्ग्रहपरत्वं चोक्तम् । अथवा अकर्दममित्यादिना गोदावरीतीर्थमुच्यते । तत्तीरे पञ्चवट्यां रामस्य सीतया सह वर्तनं तयोरेकस्याः सीताया रावणेन दुरात्मना हिंसनं पीडनमित्येतत्सर्वं साक्षात्कृत्य विधिचोदितो मुनिः सीतायाश्चरितमिति तद्विषयं प्रबन्धमकरोदित्यर्थः । तस्मिन् पक्षे अनपायिनमाद्यन्तशून्यम् । चारुनिःस्वनं सर्ववेदान्तप्रवर्तकम् । क्रौञ्चयोः कृशयोः तपस्विनोः सीतारामयोः । पापनिश्चयो वैरनिलयो निषादो लोकहिंसको रावणः सीतामपजहार सा च रुरोद । द्विजने क्षत्रियेण ताम्रशीर्षेण रत्नमुकुटारुणेन पत्रिणा शरेणोपलक्षितेन सहितेन लोकहितपरेण । अन्यत्सर्वं समानम् । मानिषादेत्याद्यर्थः शापार्थेन दर्शितः ।। 1.2.15 ।।



तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः ।

शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ।। 1.2.16 ।।

तस्येति । वीक्षतः तन्मिथुनं वीक्षमाणस्य । "सञ्ज्ञापूर्वको विधिरनित्यः" इति वा चक्षिङो ऽनुदात्तस्य ङित्करणज्ञापितानित्यत्वेन वा परस्मैपदम् । एवं मानिषादेत्येवं ब्रुवतः, क्रौञ्चीं दृष्ट्वा मानिषादेत्येवं वदत इत्यर्थः । तस्य वाल्मीकेर्हृदि अस्य शकुनेरेतत्पक्षिनिमित्तं शोकार्तेन मया व्याहृतमिदं वाक्यं किं किंरूपमिति चिन्ता बभूव ।। 1.2.16 ।।



चिन्तयन् स महाप्राज्ञश्चकार मतिमान् मतिम् ।

शिष्यं चैवाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः ।। 1.2.17 ।।

चिन्तयन्निति । प्रकर्षेण जानातीति प्रज्ञः ऊहापोहसमर्थः । प्रज्ञ एव प्राज्ञः । "प्रज्ञादिभ्यश्च" इति स्वार्थे ऽण् । यद्वा प्रज्ञा धीः । "धीः प्रज्ञा शेमुषी मतिः" इत्यमरः । सास्यास्तीति प्राज्ञः । "प्रज्ञाश्रद्धार्चाभ्यो णः" इति मत्वर्थीयो णः । महांश्चासौ प्राज्ञश्चेति महाप्राज्ञः । मतिमान् शास्त्रज्ञानवान् । स वाल्मीकिः मतिमुत्तरश्लोके वक्ष्यमाणं निश्चयं चकार । स मुनिपुङ्गवः शिष्यमिदं वाक्यमब्रवीच्च । "ब्रूशासु" इत्यादिना द्विकर्मकत्वम् । अयोगव्यवच्छेदक एवकारः ।। 1.2.17 ।।



पादबद्धो ऽक्षरसमस्तन्त्रीलयसमन्वितः ।

शोकार्त्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ।। 1.2.18 ।।

पादेति । शोकार्तस्य क्रौञ्चीशोकेनार्तस्य मे प्रवृत्तो मत्तः प्रवृत्तो ऽयं सन्दर्भ इत्यर्थः । पादबद्धश्चतुर्भिः पादैर्युक्तः । अक्षरसमः प्रतिपादं समाक्षरः । तन्त्री वीणागुणः, लयः तौर्यत्रिकस्यैककालविरामः । "नाशे संश्लेषणे तौर्यत्रिकसाम्ये भवेल्लयः" इति रत्नमाला । ताभ्यां समन्वितः, तन्त्र्यामारोप्य वाद्यैः सह गातुं शक्य इत्यर्थः । श्लोको भवतु श्लोकलक्षणलक्षितत्वात् श्लोकशब्दवाच्यो भवतु । नान्यथा श्लोकादन्यः केवलपदसन्दर्भो न भवति इति मतिं चकारेति पूर्वेणान्वयः ।। 1.2.18 ।।



शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् ।

प्रतिजग्राह संहृष्टस्तस्य तुष्टो ऽभवद्गुरुः ।। 1.2.19 ।।

शिष्यस्त्विति । शिष्यः भरद्वाजः तस्य मुनेर्ब्रुवतः तस्मिन्मुनौ ब्रुवति सति । "यस्य च भावेन भावलक्षणम्" इत्यस्मिन्नर्थे षष्ठी । अनुत्तमं सर्वरामायणार्थसङ्ग्रहरूपत्वेन स्वापेक्षयोत्तमान्तररहितम् ।

वाक्यं मानिषादेत्यादिकं संहृष्टः सन् प्रतिजग्राह, वाग्विधेयं चकारेत्यर्थः । गुरुर्वाल्मीकिस्तस्य तुष्टो ऽभवत्, स्वश्लोकधारणात्तस्मिन् प्रीतो ऽभवदित्यर्थः ।। 1.2.19 ।।



सो ऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि ।

तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः ।। 1.2.20 ।।

स इति । ततः शिष्यविषयसन्तोषानन्तरम् । स मुनिः तस्मिन् तीर्थे "अकर्दममिदं तीर्थम्" इत्यादिना वर्णिते तीर्थे । यथाविधि विधिमनतिक्रम्याभिषेकं माध्याह्निकस्नानं कृत्वा तमेवार्थमवशात् श्लोकोत्पत्तिरूपमेवार्थं चिन्तयन्सन्नुपावर्तत आश्रममागच्छत् । अभिषेकविधिस्तु व्यासस्मृतौ विशेषतो दर्शितः "ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत् । पुष्पाक्षतान् कुशतिलान् गोमयं गन्धमेव च । नदीषु देवखातेषु तटाकेषु सरस्सु च । स्नानं समाचरेन्नित्यं नदी प्रस्रवणेषु च । मृदैकया शिरः क्षाल्य द्वाभ्यां नाभेस्तथोपरि । अधश्चतसृभिः क्षाल्यं पादौ षड्भिस्तथैव च । मृत्तिका च समादिष्टा त्वार्द्रामलकमात्रतः । गोमयस्य प्रमाणं तत् तेनाङ्गं लेपयेत्ततः । लेपयेदथ तीरस्थस्तल्लिङ्गेनैव मन्त्रतः । प्रक्षाल्याचम्य विधिवत्ततः स्नायात्समाहितः । अभिमन्त्र्य जलं मन्त्रैरब्लिङ्गैर्वारुणैः शुभैः । आपो नारायणोद्भूतास्ता एवास्यायनं पुनः । तस्मान्नारायणं देवं स्नानकाले स्मरेद्बुधः । प्रेक्ष्य सोङ्कारमादित्यं त्रिर्निमज्जेज्जलाशये । अथोपतिष्ठेदादित्यमूर्ध्वं पुष्पं जलान्वितम् । प्रक्षिप्यालोकयेद्देवमृग्यजुःसामरूपिणम् ।।" इत्यादि ।। 1.2.20 ।।



भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् मुनेः ।

कलशं पूर्णमादाय पृष्ठतो ऽनुजगाम ह ।। 1.2.21 ।।

भरद्वाज इति । ततः मुनेः उपावर्तनानन्तरं विनीतः विनयसम्पन्नः श्रुतवान् शास्त्रवान् अवधृतवान् वा । "श्रुतं शास्त्रावधृतयोः" इत्यमरः । धृतगुरुश्लोक इत्यर्थः । मुनिर्मननवान् भरद्वाजः भरद्वाजाख्यः शिष्यः पूर्णं जलपूर्णं कलशमादाय पृष्ठतः पश्चादनुजगाम, अनुगमनोक्तौ पृष्ठत इत्युक्तिरव्यवधानसूचनार्था ।। 1.2.21 ।।



स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् ।

उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ।। 1.2.22 ।।

स इति । स वाल्मीकिः शिष्येण सहाश्रमपदमाश्रमस्थानं प्रविश्य धर्मवित् कृतदेवपूजादिधर्मः उपविष्टः कृतसुखासनः सन्, ध्यानम् अवशोत्पन्नश्लोकविषयचिन्तामास्थितः प्राप्त एव सन् अन्याः कथाः पुराणपारायणानि चकार ।। 1.2.22 ।।



आजगाम ततो ब्रह्मा लोककर्त्ता स्वयं प्रभुः ।

चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ।। 1.2.23 ।।

आजगामेति । लोककर्ता लोकस्रष्टा प्रभुः स्वामी चतुर्मुखः वेदचतुष्टयोच्चारणोपयोगिमुखचतुष्कः महातेजाः महाप्रभावो ब्रह्मा, मुनिपुङ्गवं नारदोक्तवैभवं वाल्मीकिं द्रष्टुं कुतूहलात्स्वयमाजगाम । स्वस्थानस्थित एव रामायणप्रवर्तनसमर्थो ऽप्यादरातिशयेन स्वयमेवाजगामेत्यर्थः ।। 1.2.23 ।।



वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः ।

प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ।। 1.2.24 ।।

वाल्मीकिरिति । अथ ब्रह्मागमनानन्तरं तं ब्रह्माणं दृष्ट्वा सहसा उत्थाय "ऊर्ध्वं प्राणा ह्युत्क्रमन्ति यूनः स्थविर आगते । प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ।।" इति वचनात् स्वप्राणा उत्क्रामेयुरिति सहसोत्थायेत्यर्थः। परमविस्मितः सन्। वाग्यतः यतवाक्। आहिताग्न्यादित्वात् परनिपातः। प्रयतः नियतमनस्कः। प्रकृष्टः अञ्जलिर्यस्यासौ प्राञ्जलिः स च भूत्वा तस्थौ स्थितवान् ।। 1.2.24 ।।



पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः ।

प्रणम्य विधिवच्चैनं पृष्ट्वानामयमव्ययम् ।। 1.2.25 ।।

पूजयामासेति । मुनिः तं देवं ब्रह्माणं, पाद्यार्घ्यासनवन्दनैः पाद्यं पादोदकप्रदानम्, अर्घ्यं अर्घजलसमर्पणम्, वन्दनं स्तुतिः एतैरुपचारैः पूजयामास । एनं ब्रह्माणम् । अन्वादेशे इदम एनादेशः । विधिवत् शास्त्रोक्तरीत्या प्रणम्य अव्ययम् अविच्छिन्नम्, अनामयं कुशलं पृष्ट्वा च पूजयामासेति योजना । प्रणामशास्त्रं तु "मनोबुद्ध्यभिमानेन सह न्यस्य धरातले । कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम् । प्रदक्षिणसमेतेन ह्येवंरूपेण सर्वदा । अष्टाङ्गेन नमस्कृत्य ह्युपविश्याग्रतः प्रभोः ।।" इति। यद्वा तमेनं देवं विधिवत्प्रणम्यानामयं पृष्ट्वा च पाद्यार्घ्यासनवन्दनैः पूजयामास। "वदि अभिवादनस्तुत्योः" इति धातुः ।। 1.2.25 ।।



अथोपविश्य भगवानासने परमार्चिते ।

वाल्मीकये महर्षये सन्दिदेशासनं ततः ।

ब्रह्मणा समनुज्ञातः सो ऽप्युपाविशदासने ।। 1.2.26 ।।

अथेति सार्धश्लोक एकः । अथ पूजानन्तरम् । भगवान् ब्रह्मा परमार्चिते परमं यथा भवति तथा वाल्मीकिनार्चिते ब्रह्मोपवेशार्थं पूजिते, आसने विष्टरे उपविश्य स्थित्वा । महर्षये वाल्मीकये । आसनम् उपवेशनं सन्दिदेश आज्ञापयामास । सो ऽपि ब्रह्मणा समनुज्ञातः सन्, आसने उचितनीचासने उपाविशत् । आसनानुज्ञानं लोकहितार्थमनेन काव्यं कारयितुम् । "वाल्मीकये महर्षये" इत्यत्रायुजि पादे पथ्यावक्त्रस्य गणनियमाभावात्तथोक्तम् । नन्वर्धत्रयकरणम् "ईदृशैः करवाण्यहम्" इत्यनेन विरुध्यते । मैवम् लेखकदोषेणार्धान्तरपतनसम्भवात् ।। 1.2.26 ।।



उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे ।

तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः ।। 1.2.27 ।।

उपविष्ट इति । लोकपितामहे तस्मिन् साक्षात्प्रत्यक्षतया उपविष्टे ऽपि तदा तद्गतेन क्रौञ्चहननगतेन मनसा ध्यानमास्थितः तद्विषयचिन्तामकरोत् ।। 1.2.27 ।।



पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना ।

यस्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् ।। 1.2.28 ।।

पापात्मनेति । वैरग्रहणबुद्धिना वैरेण क्रौञ्चग्रहणबुद्धिना पापात्मना पापस्वरूपेण व्याधेन कष्टं कुत्सितं कर्म कृतम् । कथमित्यत्राह य इति । यो व्याधः तादृशं रतिलालसमित्यग्राह्यत्वोक्तिः ।

चारुरवं रम्यरतिकूजितं क्रौञ्चम् अकारणात् निष्कारणम् "निमित्तकारणहेतूनां प्रयोगे सर्वासां प्रायदर्शनम्" इत्युक्तेः पञ्चमी । हन्यात् हन्तुं शक्नुयात् । शकि लिङ् ।। 1.2.28 ।।



शोचन्नेव मुहुः क्रौञ्चीमुपश्लोकमिमं पुनः ।

जगावन्तर्गतमना भूत्वा शोकपरायणः ।। 1.2.29 ।।

शोचन्निति । शोकपरायणः क्रौञ्चवधदर्शनेन दुःखपरवशः पुनः क्रौञ्चीं गतमना भूत्वा, क्रौञ्चीं विचिन्त्येत्यर्थः । मुहुः शोचन्नेव वाल्मीकिः इमं मानिषादेत्यादिश्लोकम् अन्तः मनसि उपजगावित्यन्वयः । "व्यवहिताश्च" इत्युपसर्गस्य व्यवहितप्रयोगः ।। 1.2.29 ।।



तमुवाच ततो ब्रह्मा प्रहसन् मुनिपुङ्गवम् ।

श्लोक एव त्वया बद्धो नात्र कार्या विचारणा ।। 1.2.30 ।।

तमिति । ततः मनसि श्लोकपाठश्रवणानन्तरम्, मुनिपुङ्गवं प्रहसन् मन्नियोगेन स्वजिह्वाग्रे ऽवतीर्णं सरस्वतीमयं न जानातीति प्रहसन्नुवाच । मानिषादेत्यस्य श्लोकत्वनिश्चयं द्रढयति श्लोक इति । त्वया बद्धो मानिषादेत्यादिः श्लोक एव । अत्र श्लोकविषये विचारणा चिन्ता न कार्या ।। 1.2.30 ।।



मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती ।

रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम ।। 1.2.31 ।।

अकारणकार्योत्पत्तिकृतविस्मयं वारयति मदिति । हे ब्रह्मन् ते इयं सरस्वती मानिषादेत्यादिरूपा मच्छन्दादेव मदभिप्रायादेव, न तु कारणान्तरात् प्रवृत्ता । प्रवर्तनप्रयोजनमाह रामस्येति । हे ऋषिसत्तम "नानृषिः कुरुते काव्यम्" इत्युक्तरीत्या प्रतिलब्धकाव्यनिर्माणशक्तिक सर्वं रामस्य चरितं रामचरितविषयप्रबन्धं कुरु । ईदृशैः श्लोकैरिति शेषः । ईदृशैः करवाण्यहमित्यनुवादात् ।। 1.2.31 ।।



धर्मात्मनो गुणवतो लोके रामस्य धीमतः ।

वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् ।। 1.2.32 ।।

एवं सामान्येन रामचरितविषयप्रबन्धनिर्माणमनुज्ञाय सङ्क्षेपकरणमादिशति धर्मात्मन इति । अत्र विशेषणैः प्रबन्धनायकस्य रामस्य नायकगुणाः दर्शिताः । नायकगुणवर्णनेन हि काव्यं प्रथते । उक्तं हि भोजेन "कवेरल्पापि वाग्वृत्तिर्विद्वत्कर्णावतंसति । नायको यदि वर्ण्येत लोकोत्तरगुणोत्तरः ।।" इति। नायकगुणास्तु "महाकुलीनतौज्ज्वल्यं महाभाग्यमुदारता। तेजस्विता विदग्धत्वं धार्मिकत्वादयो गुणाः ।।" इत्युक्ताः । तत्र धर्मात्मन इत्यनेन धार्मिकत्वमुक्तम् । लोके लोकमध्ये गुणवतः बहुगुणकस्य, अनेन उदारतोक्ता । रामस्येत्यनेन तेजस्वित्वमौज्ज्वल्यं च । धीमत इत्यनेन पण्डितत्वम्, धीरस्येत्यनेन वसुन्धराधुरन्धरत्वरूपं महाभाग्यम् । अन्यद्गुणशब्देन ज्ञेयम् । एवम्भूतस्य रामस्य वृत्तं चरित्रं "वृत्तं पद्ये चरित्रे च" इत्यमरः । यथा येन प्रकारेण नारदात्ते त्वया श्रुतं तेन प्रकारेण कथय, सङ्क्षेपेण कथयेत्यर्थः ।। 1.2.32 ।।



रहस्यं च प्रकाशं च यद्वृत्तं तस्य धीमतः ।

रामस्य सहसौमित्रे राक्षसानां च सर्वशः ।। 1.2.33 ।।

वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रहः ।

तच्चाप्यविदितं सर्वं विदितं ते भविष्यति ।। 1.2.34 ।।

पुनर्विस्तरेण रामचरित्रवर्णनं नियोक्ष्यमाणस्तद्विषयज्ञानलाभमनुगृह्णाति रहस्यमित्यादिना, श्लोकद्वयमेकवाक्यम् । धीमत इति रहस्यवृत्तसम्भवहेतुतयोक्तम् । सुमित्राया अपत्यं पुमान्सौमित्रिः । बाह्वादित्वादिञ् । सहसौमित्रेः सौमित्रिसहितस्य धीमतस्तस्य रामस्य रहस्यमनितरविदितं च, प्रकाशं सर्वविदितं च, यद्वृत्तं राक्षसानां रावणादीनां च, सर्वशः सर्वप्रकारं रहस्यप्रकाशरूपं यद्वृत्तं तत् वैदेह्याः सीतायाश्च । अपिशब्दाद्भरतादीनां च, प्रकाशं यदि वा रहो रहस्यं वा यद्वृत्तं तच्च सर्वमविदितमपि नारदमुखेनाज्ञातमपि ते विदितं भविष्यतीति योजना ।। 1.2.33,34 ।।



न ते वागनृता काव्ये काचिदत्र भविष्यति ।

कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् ।। 1.2.35 ।।

एवं यथार्थदर्शित्वमनुगृह्य यथार्थवादित्वमनुगृह्णाति न त इति । अत्र करिष्यमाणे काव्ये ते वाक्काचिदपि, किञ्चिदपि वाक्यमित्यर्थः । अनृता बाधितार्था न भविष्यति । यद्वा वाक् पदम्, कदाचिदपि अनृता दुष्टा न भविष्यति । तेन काव्यदोषत्वेनोक्तपदवाक्यतदर्थदोषशून्यत्वमुक्तम् । अतः रामकथां रामविषयप्रबन्धकल्पनां कुरु । काव्यनिर्माणप्रयोजनमाह पुण्यां पापहराम् । प्रयोजनान्तरमाह मनोरमां शब्दश्रवणसमनन्तरमेव विगलितवेद्यान्तरमानन्दं जनयन्तीमित्यर्थः । श्लोकबद्धामित्यनेन गद्यप्रबन्धेभ्यो हर्षचरितजातीयेभ्यो मिश्रप्रबन्धेभ्यो नाटकादिभ्यश्च व्यावृत्तिरुक्ता ।। 1.2.35 ।।



यावत्स्थास्यन्ति गिरयः सरितश्च महीतले ।

तावद्रामायणकथा लोकेषु प्रचरिष्यति ।। 1.2.36 ।।

यशो ऽपि काव्यनिर्माणप्रयोजनमित्याह यावदिति । गिरयः सरितश्च महीतले भूतले यावत् स्थास्यन्ति तावत् रामायणकथा रामायणरूपा कथा लोकेषु सप्तसु प्रचरिष्यति । यावत्त्वत्प्रबन्धप्रचारस्तावत्तव यशो भविष्यतीति हृदयम् ।। 1.2.36 ।।



यावद्रामायणकथा त्वत्कृता प्रचरिष्यति ।

तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि ।। 1.2.37 ।।

यशसः स्वतः पुरुषार्थत्वात्तत्फलमाह यावद्रामेति । किं च त्वत्कृता रामस्य कथा यावत्प्रचरिष्यति तावन्मल्लोकेषु मध्ये यावच्छरीरपातम् अधः भूमौ तदुपरि ऊर्ध्वं च निवत्स्यसि ।। 1.2.37 ।।



इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत ।

ततः सशिष्यो वाल्मीकिर्मुनिर्विस्मयमाययौ ।। 1.2.38 ।।

इत्युक्त्वेति । तत्रैव आसन एव ।। 1.2.38 ।।



तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः ।

मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ।। 1.2.39 ।।

तस्येति । ततः मुनिविस्मयानन्तरम् । सर्वे तस्य वाल्मीकेः शिष्याः मुहुर्मुहुः प्रीयमाणाः सन्तः, इमं मानिषादेति श्लोकं पुनर्जगुः । भृशं विस्मिताः अत्यन्तं विस्मिताः सन्तः । 'अव्ययमात्रस्य समासे तु लोपः' इति मलोपः । प्राहुश्च, अन्योन्यमिदमद्भुतमिति प्राहुश्चेत्यर्थः । आश्रम एव स्थिताभ्यां कुशलवाभ्यां भरद्वाजेन चात्र बहुवचनम् ।। 1.2.39 ।।



समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा ।

सो ऽनुव्याहरणाद्भूयः श्लोकः श्लोकत्वमागतः ।। 1.2.40 ।।

समेति । यः समाक्षरैरिति विषमवृत्तव्यावृत्तिः । चतुर्भिरित्यर्धसमवृत्तव्यावृत्तिः । पादैश्चतुर्थांशैः महर्षिणा, गीतः उक्तः स श्लोकः अनुव्याहरणात् शिष्यैः पुनः पुनर्व्यवह्रियमाणत्वात् भूयः श्लोकत्वमागतः इति । पूर्वं श्लोकलक्षणलक्षितत्वात् श्लोकत्वं गतः, सम्प्रति श्लोक्यमानत्वात्, पुनः श्लोकत्वं गत इत्यर्थः । शोकः श्लोकत्वमागतः इति पाठे शोककृतश्लोक एव शोक इत्युच्यत इति ज्ञेयम् । यः श्लोकः महर्षिणा समाक्षरैश्चतुर्भिः पादैर्बद्धः श्लोकः क्रौञ्चीविषयः तादृशश्लोकत्वमागतः, स शोक वेगादुत्पन्न इत्यर्थः । कथमवगम्यते ? अनुव्याहरणात् । अनु पश्चात् शोकानन्तरम् उच्चारणात्, शोके सति जातत्वादित्यर्थः ।। 1.2.40 ।।



तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः ।

कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ।। 1.2.41 ।।

अथ मुनेः कृतिप्रणयनविषयसङ्कल्पमाह तस्येति । भावितात्मनश्चिन्तितपरमात्मनः, अनेनारम्भकर्तव्यं विघ्नविघातकं मङ्गलं मुनिना आचरितमित्युक्तम् । तस्य वाल्मीकेः इयं बुद्धिर्जाता । इदंशब्दार्थमाह कृत्स्नमित्यादिना । सर्वं रामायणाख्यं काव्यमीदृशैर्मानिषादेतिश्लोकप्रकारैः श्लोकैः । करवाणि इति इयं बुद्धिरित्यन्वयः । ईदृशैरिति प्रायिकाभिप्रायमेतत्, वृत्तान्तराणामपि तत्र तत्र प्रयोगात् ।। 1.2.41 ।।



उदारवृत्तार्थपदैर्मनोरमैस्ततः स रामस्य चकार कीर्तिमान् ।

समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारधीर्मुनिः ।। 1.2.42 ।।

अथ यथासङ्कल्पं काव्यरचनामाह उदारेति । कीर्तिरस्यास्तीति कीर्तिमान् । अनेन "काव्यं यशसे ऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ।।" इत्यालङ्कारिकोक्तकाव्यप्रयोजनेष्वस्य यश एव प्रधानं प्रयोजनमिति दर्शितम्। काव्यनिर्माणानन्तरं भाविनो यशसः पूर्वभावोक्त्यातिशयोक्तिरुक्ता। उदारा महती धीर्यस्यासौ उदारधीः। "उदारो दातृमहतोः" इत्यमरः। तेन कवित्वबीजभूता निपुणतोक्ता। तदुक्तं काव्यप्रकाशे "शक्तिर्निपुणता लोककाव्यशास्त्राद्यवेक्षणात्। काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ।।" इति । मुनिः मननशीलः, अनेन विविक्तसेवित्वमरोचकित्वं चोक्तम् । तदुक्तं वामनेन "द्वये हि कवयः अरोचकिनः सतृणा ऽभ्यवहारिणश्च" इत्यादि । तदा ब्रह्मवरप्रदानानन्तरकाले । अनेन कवित्वहेतुभूता शक्तिरुक्ता । यशस्विनो ऽपि रामस्य यशस्करम् । तदुक्तं दण्डिना "आदिराजयशोबिम्बमादर्शं प्राप्य वाङ्मयम् । तेषामसन्निधाने ऽपि न स्वयं पश्य नश्यति ।।" इति। इतरकीर्त्यपेक्षया काव्यनायकत्वकृता कीर्त्तिरनुपमेत्यर्थः। काव्यं कविर्लोकोत्तरवर्णननिपुणः, कवेः कर्म काव्यं, शब्दार्थयुगलम्। तथोक्तम्

"सगुणौ सालङ्कारौ शब्दार्थौ दोषवर्जितौ काव्यम् ।" इति अत्र काव्यशब्दने काव्यसन्दर्भरूपं महाकाव्यमुच्यते । तल्लक्षणमुक्तं काव्यादर्शे "सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् । आशीर्नमस्क्रिया वस्तुनिर्देशो वापितन्मुखम् । इतिहासकथोद्भूतमितरद्वारसंश्रयम् । चतुर्वर्गफलायत्तं चतुरोदात्तनायकम् । नगरार्णवशैलर्त्तुचन्द्रार्कोदयवर्णनैः । उद्यानसलिलक्रीडामधुपानरतोत्सवैः । विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः । मन्त्रद्यूतप्रयाणाजिनायकाभ्युदयैरपि । अलङ्कृतमसङ्क्षिप्तं रसभावनिरन्तरम् । सर्गैरनतिविस्तीर्णैः श्राव्यवृत्तैः सुसन्धिभिः । सर्वत्र भिन्नसर्गान्तैरुपेतं लोकरञ्जनम् । काव्यं कल्पान्तरस्थायि जायते सदलङ्कृति ।।" इति एवम्भूतं काव्यं श्लोकशतैरवयवैश्चकारश्लोकशब्देन गद्यपद्यमिश्रप्रबन्धेषु स्वग्रन्थस्य पद्यरूपता दर्शिता। शतैरित्यनेन शतकादिक्षुद्रप्रबन्धव्यावृत्तिरुक्ता। बहुवचनार्थं च स्वयमेव विवरिष्यति चतुर्विंशतिसहस्राणीति। कीदृशैः श्लोकशतैः ? उदारवृत्तार्थपदैः उदाराणि महान्ति वृत्तार्थपदानि येषां तैः। वृत्तानि पथ्यावक्त्रोपजातिवंशस्थवसन्ततिलकादीनि, तेषामुदारत्वं नाम तत्तद्रसाभिव्यञ्जकत्वम्। अर्थाः वाच्यलक्ष्यव्यङ्ग्याः, तेषामुदारत्वम् द्राक्षापाकनारिकेलपाकरसालपाकेषु द्राक्षापाकवत्त्वम्। एतल्लक्षणमुक्तं रुद्रटेन "द्राक्षापाकः स कथितो बहिरन्तः स्फुरद्रसः" इति। पदानि वाचकलक्षकव्यञ्जकानि, तेषामुदारत्वम् "या पदानां पराऽन्योन्यं मैत्री शय्येति कथ्यते" इत्युक्तलक्षणशय्यावत्त्वम्। पुनः कीदृशैः ? मनोरमै रमणीयैः, अनेन वैदर्भीगौडीपाञ्चाली चेत्युक्तासु रीतिषु वैदर्भीरितिमत्त्वमुक्तम्। तल्लक्षणं चोक्तम् "बन्धपारुष्यरहिता शब्दकाठिन्यवर्जिता। नातिदीर्घसमासा च वैदर्भी रीतिरिष्यते ।।" इति समाक्षरैः प्रतिपादं समानाक्षरैः, अनेन विषमवृत्तादिरूपता व्यावृत्ता ।। 1.2.42 ।।



तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्धम् ।

रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ।। 1.2.43 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वितीयः सर्गः ।। 2 ।।

एवं प्रबन्धनिर्माणमभिधाय कुशलवादिभ्यस्तत्प्रतिपादनं सङ्ग्रहेण दर्शयति तदिति ।

स्वग्रन्थस्योत्तमकाव्यत्वप्रदर्शनाय निर्दोषत्वमाह उपगतसमाससन्धियोगमिति । समासास्तत्पुरुषादयः, सन्धयः संहिताः, योगः पदव्युत्पत्तिः, उपगताः शास्त्रानुरूपेण प्राप्ताः समाससन्धियोगा यस्मिन् तत्तथोक्तम्, अनेन समासदोषसन्धिदोषपददोषशून्यत्वमुक्तम् । प्रधानमल्लनिबर्हणन्यायेनैतत्सर्वदोषराहित्यस्योपलक्षणम् । अथ काव्यगुणान् प्राधान्येन दर्शयति समेति । समैर्मधुरैरुपनतार्थैर्वाक्यैर्बद्धं रचितम् । तत्र समतालक्षणमुक्तं दण्डिना "समं बन्धेष्वविषमं ते मृदुस्फुटमध्यमाः" इति । माधुर्यलक्षणं च तेनैवौक्तम् "मधुरं रसवद्वाचि वस्तुन्यपि रसस्थितिः । येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः ।।" इति उपनतार्थत्वमर्थव्यक्तिः। तत्स्वरूपं च तेनैवोक्तम् "अर्थव्यक्तिरमेयत्वमर्थस्य" इति। रघुवंश्या रघवस्तेषुवरो रामस्तच्चरितं तच्चरितविषयकं मुनिना वाल्मीकिना मया प्रणीतं, मुनिना नारदेन वा प्रणीतम्। दशशिरसो रावणस्य वधमधिकृत्य कृतं ग्रन्थम् "अधिकृत्य कृते ग्रन्थे " इति विहितस्याणो लुप्। निशामयध्वम् निशामयध्वं निशामयध्वमिति न्यशामयतेत्यर्थः। "क्रियासमभिहारे लोट्लोटो हिस्वौ वा च तध्वमोः" इति तध्वमोर्हिस्वादेशस्य वैकल्पिकत्वात्तध्वमः पाक्षिकः स्वादेशाभावः। "मितां ह्रस्वः" इति विहितस्य ह्रस्वस्य "घटादयोमितः" इति सञ्ज्ञापूर्वकत्वात् "सञ्ज्ञापूर्वको विधिरनित्यः" इति अनित्यत्वात् ह्रस्वाभावः, किन्तु णिचि दीर्घ एव, अश्रावयदित्यर्थः। शिष्यानिति शेषः। "णिचश्च" इत्यात्मनेपदम्। यद्वा मुनिः रघुवरचरितं चकार

तन्निशामयध्वमिति शिष्यान्प्रति परोक्षतयोच्यते । श्रवणे ऽपि चरितस्य दर्शन समतया भानान्निशामयध्वमित्युच्यते । "चिरनिर्वृत्तमप्येतत्प्रत्यक्षमिव दर्शितम्" इति हि वक्ष्यते । पूर्वश्लोके वंशस्थवृत्तम् "जतौ तु वंशस्थमुदीरितं जरौ" इति लक्षणात् । अत्र पुष्पिताग्रावृत्तम् "अयुजिनयुगरेफतो यकारो युजिचनजौ जरगाश्च पुष्पिताग्रा" इति लक्षणात् ।। 1.2.43 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने द्वितीयः सर्गः ।। 2 ।।



Sanskrit Commentary by Mahesvara Tirtha
नारस्येति । तद्वाक्यम् प्रश्नानुरूपमुत्तरम् । श्रुत्वा निशम्य । वाक्ये विशारदो विद्वान्, वाक्यविशेषज्ञ इत्यर्थः । महामुनिः वाल्मीकिः । पूजयामास तद्वाक्यं श्लाघयामासेत्यर्थः ।। 1.2.12।।



स मुहूर्तमिति । मुहूर्तमात्रेणदेवलोकं गते तस्मिन्नित्यर्थः । अवदूरतः आसन्नम् अकर्दममित्यवतरणप्रदेशस्य पङ्कराहित्यमुच्यते ।। 1.2.34।।



अकर्दममिति । निशामय पश्य । मनसः प्रसन्नमात्रेण सादृश्यं विवक्षितम् ।। 1.2.5।।



न्यस्यतामिति । इदमेव गङ्गातीर्थमत्यासन्नमपि माध्याह्निककालातिक्रमादगत्वेति शेषः ।। 1.2.6।।



एवमिति । प्रायच्छत प्रादात् । नियतःसेवापरः ।। 1.2.78।।



तस्येति । तस्य तीरस्याभ्याशे समीपवनप्रदेशे, चरन्तम् अनपायिनमविश्लिष्टम् । पुँल्लिङ्गत्वमार्षम् ।। 1.2.9।।



तस्मादिति । तस्य पश्यत इत्यनादरे षष्ठी ।। 1.2.1011।।



वियुक्तेति । पत्रिणा शोभनपक्षवता सहितेन सङ्गतमनसा, सहचारिणेति पूर्वमुक्तत्वात् सहितेनेति मनःसाहित्यमुच्यते । अस्य श्लोकस्य पूर्वेणान्वयः ।। 1.2.12।।



तथेति । समपद्यत समजायत ।। 1.2.13।।



तत इति । करुणवेदित्वात् सञ्जातकारुण्यत्वात् ।। 1.2.14।।



मानिषादेति । क्रौञ्चहन्तृप्रत्यक्षदृश्यमाननिषादशापरूपो ऽर्थस्तु स्पष्ट एव । मा लक्ष्मीः निषीदत्यस्मिन्निति मानिषादः तत्सम्बोधनम् । हे मानिषाद विष्णो यद्यस्माद्धेतोः क्रौञ्चमिथुनात् मन्दोदरीरावणमिथुनात् एकं काममोहितं रावणम् अवधीः हतवानसि तस्मात् शाश्वतीः समाः अनेकसंवत्सरान् । अत्यन्तसंयोगे द्वितीया । प्रतिष्ठाम् अखण्डितैश्वर्यानन्दावाप्तिम्, अगमः प्राप्नुहि । अनेन अत्र "अर्थतः शब्दतो वापि मनाक्काव्यार्थसूचनम्" इत्युक्तेः रामेण कृतरावणवधरूपः काव्यार्थः काव्यादाववश्यकर्तव्याशीर्वादश्च सूचित इत्यवगन्तव्यम् ।। 1.2.15।।



तस्येति । मिथुनं वीक्षतः पश्यतः ।। 1.2.16।।



चिन्तयन्निति । अस्य शकुनेर्हेतोश्चकार मतिमान्मतिं मानिषादेतिवचनं श्लोको भवत्विति सङ्कल्पं चकार ।। 1.2.17।।



पादबद्ध इति । तन्त्रीलयसमन्वितः तन्त्री वीणागुणः, लयस्तालवेणुमृदङ्गादीनामेककालविरामः, ताभ्यां समन्वितः तन्त्रीलयसमन्वितः, तन्त्र्यामारोप्य वाद्यैस्सह गातुं योग्य इत्यर्थः । शोकार्तस्येति । श्लोको भवतु श्लोकत्वेन प्रथयताम् ।। 1.2.18।।



शिष्य इति । मुनेर्वाक्यं मानिषादेति शापश्लोकम् । प्रतिजग्राह गृहीतवान् ।। 1.2.19।।



स इति । तमेव चिन्तयन्नर्थमवशात् श्लोकोत्पत्तिरूपमर्थम् । उपावर्तत न्यवर्तत ।। 1.2.2021।।



स प्रविश्येति । ध्यानं क्रौञ्चवधचिन्ताम् एतच्छोकविषयचिन्तां वा ।। 1.2.22।।



आजगामेति । तं मुनिपुङ्गवं शापवाक्यवशात् श्लोक इत्यनूक्तवन्तम् ।। 1.2.23।।



वाल्मीकिरिति । वाग्यतः यतवाक् ।। 1.2.24।।



पूजयामासेति । पाद्यार्ध्यासनवन्दनैः, अत्र वन्दनशब्दःस्तुतिपरः । अनामयं कुशलम्, अव्ययं देवम्, अतः प्रणम्येत्यनेन न पौनरुक्त्यम् ।। 1.2.25।।



अथेति । लोकहितार्थं काव्यं कारयितुमिच्छन् आसनं दत्तवान् ।। 1.2.26।।



उपविष्ट इति । तद्गतेन क्रौञ्चगतेन ।। 1.2.27।।



पापात्मनेति । हन्यात् हन्तुं शक्नुयात् । अकारणात् कारणं विना ।। 1.2.28।।



शोचन्निति । अन्तर्गतमनाः हृद्गते अवशोत्पन्नश्लोकार्थम् एव निवेशितचित्त इत्यर्थः । उपश्लोकम् उपशब्दस्य जगावित्यनेन सम्बन्धः ।। 1.2.29।।



तमिति । प्रहसन् मदाज्ञानुसारेणावतीर्णां सरस्वतीं न जानातीति हासं कुर्वन् ।। 1.2.30।।



मच्छन्दादिति । मच्छन्दात् मम सङ्कल्पादेव, न तु स्वतः । रामचरितं त्वया प्रबन्धमुखेन प्रवर्तनीयमित्येवंरूपान्मदीयसङ्कल्पादित्यर्थः । रामस्य चरितं कुरु, रामस्य वृत्तं कथयेत्यत्र प्रथमवाक्यस्य रामचरितकरणमात्रपरत्वम्, द्वितीयवाक्यस्य नारदोक्तिविशेषपरतेत्यपौनरुक्त्यम् ।। 1.2.3132।।



रहस्यं चेति । अनेन तत्करणयोग्यतादानम् तेन मानिषादेतिवदवशान्निस्सृतापि तव वाक् नान्यथा भविष्यति, किन्तु सत्यैव भविष्यतीति ध्वनितम् ।। 1.2.3336।।



यावदिति । तावत् तावत्कालपर्यन्तम् । ऊर्ध्वमधश्च ये मल्लोकाः मया सृष्टाः लोकाः तेषु सर्वलोकेषु अप्रतिहतगतिस्सन् सञ्चरिष्यसि, ततः परं मुक्तिं प्राप्स्यसीत्यर्थः ।। 1.2.3738।।



तस्येति । प्राहुश्च पठन्ति च, पाठेन आनन्दं चान्वभूवन्नित्यर्थः ।। 1.2.39।।



समेति । अनुव्याहरणात्पुनः पुनः पाठात् । श्लोकः श्लोकत्वमागत इति श्लोकः श्लोकत्वेन प्रतिबद्धो ऽभवत् । मुहुर्मुहुः शिष्यैः पठितत्वात् श्लोकः श्लोकत्वं प्राप्त इत्यर्थः ।। 1.2.40।।



तस्येति । ईदृशैः मानिषादेति श्लोकप्रकारैः ।। 1.2.41।।



उदारवृत्तार्थपदैः प्रसिद्धैः । उदारधीः महाबुद्धिः ।। 1.2.42।।



तदिति । उपगताः सङ्गताः समासाः सन्धियोगाः सन्धिबन्धाश्चास्मिन्निति तथोक्तम् । समैः अन्यूनातिरिक्तैर्मधुरैर्मनोहरैः उपनतार्थैर्वाक्यैः बद्धम्, वस्तुतस्तु समः सर्वोपादानत्वेन सर्वानुगः, मधुरः आनन्दैकरसः, उपनतः नित्यापरोक्षतया प्राप्तः । "यत्साक्षादपरोक्षाद्ब्रह्म" इति श्रुतेः । अर्थः श्रीरामब्रह्मरूपार्थो येषां तैर्वाक्यै र्बद्धम् । दशशिरसश्च वधम् दशशिरसो वधप्रतिपादकं दशशिरसो वधो ऽस्मिन् काव्ये विद्यत इत्युपचारेण, काव्यं तथोच्यते रघुवरचरितं काव्यं निशामयध्वम् निरीक्षध्वम् ।। 1.2.43।।



इति श्रीपरमहंसपरिव्राजकाचार्यश्रीनारायणतीर्थशिष्यमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्वितीयः सर्गः ।। 2 ।।





Sanskrit Commentary by Nagesa Bhatta
नारदस्येति । विशारदो विशिष्टा व्याकरणसंस्कारादिविशेषवती विचित्रार्था च शारदा वाणी यस्य सः । सहशिष्य इत्यत्र "वोपसर्जनस्य" इति वैकल्पिकत्वात्सत्वाभावः । प्रश्नानुरूपं वाक्यगुणसमूहवच्चोत्तरं सम्यग्दत्तमिति पूजयामासातिविचित्रं भगवद्वचनमित्यादिशब्दैः ।। 1.2.1 ।।



यथावदिति । आपृच्छ्यैव साधु यामीत्युक्त्वैव । अभ्यनुज्ञातो यथासुखं विहरतामिति वाल्मीकिनानुगमनपूर्वमभ्यनुज्ञातः । अनेन गुरुशिष्ययोः स्नेहभक्तिप्रकाशनम् । विहायसमिति पुँल्लिङ्गम् ।। 1.2.2 ।।



स इति । स वाल्मीकिस्तस्मिन्नारदे देवलोकं गते सति मुहूर्तं स्वाश्रमे स्तित्वा पश्चान्माध्याह्निकार्थं जाह्नव्या अविदूरतः समीपे वर्तमानं तमसातीरं जगाम । यत्तु मुहूर्तमात्रेण देवलोकं गत इत्यन्वय इति, तन्न । छान्दसत्वकल्पने मानाभावात् । अव्ययत्वकल्पनस्याप्यगतिकगतिकत्वाच्च । "मुहूर्तात्" इति पाठस्तु कल्पितः ।। 1.2.3,4 ।।



अकर्दममिति । अवतरणप्रदेशस्य पङ्कराहित्यमनेनोच्यते । तीर्थमृषिजुष्टजलं निशामय पश्य । अत एव "शमो दर्शने" इति मित्वाभावादह्रस्वत्वम् । रमणीयत्वे हेतुः प्रसन्नाम्ब्विति । सन्मनुष्यचित्तस्य कामादिदोषराहित्येन नित्यप्रसन्नत्वात्सादृश्यम् ।। 1.2.5 ।।



न्यस्यतामिति । "वल्कला" इति पाठे छान्दसं स्त्रीत्वम् । "वल्कलमस्त्रियाम्" इति निघण्टुः । इदमेवात्यासन्नमपि गङ्गातीर्थम् । मध्याह्नकालातिक्रमादगत्वेति शेषः ।। 1.2.6 ।।



एवमिति । वाल्मीकेनेति । "तस्येदम्" इत्यण् । प्रायच्छतेति छान्दसम् । नियतः सेवापरः ।। 1.2.7 ।।



स इति । नियतेन्द्रियो जितेन्द्रियः । विचचार । अनुष्ठानयोग्यैकान्तदेशनिरीक्षणायेति शेषः ।। 1.2.8 ।।



तस्येति । तस्य वनस्याभ्याशे समीपे चरन्भगवांस्तद्वनाभ्याश एव चरन्तमनपायिनमाधिव्याधिरहितमत एव चारुनिःस्वनं क्रौञ्चयोर्मिथुनं ददर्श । चरन्तमनपायिनमित्यार्षम् ।। 1.2.9 ।।



तस्मादिति । मिथुनाद्विभक्तमेकं पुमांसं पापनिश्चयस्तद्धननरूपपापनिश्चयः । अत एव वैरनिलयो निजानपकारिष्वपि प्राणिष्वकारणवैराश्रयः स इव निषादस्तस्य पश्यतस्तं पश्यन्तमनादृत्य जघान । पश्यत इति षष्ठी चानादरे ।। 1.2.10 ।।



तमिति । चेष्टमानम् लुठन्तम् । निहतं दृष्ट्वा निषादेनेति शेषः । करुणां गिरम् दीनं शब्दम् । रुराव अकरोदित्यर्थः । पाठान्तरे "खे परिभ्रमा" । ख आकाशे परिभ्रमणं करोति सेत्यर्थः ।। 1.2.11 ।।



वियुक्तेति । सहचारिणा । अहोरात्रमिति शेषः । ताम्रशीर्षेण कुक्कुटादिवत्ताम्रवर्णशीर्षगतचूडायुक्तेन । मत्तेन कामसम्भोगवशादिति शेषः । अत एव पत्रिणा सम्भोगकालत्वाद्विततपक्षवता । सहितेन स्वसङ्गतेन तेनापूर्णरतित्वादत्यन्तं शोकः । इत्थंभूतेन पतिना वियुक्ता रुरावेति पूर्वेणान्वयः ।। 1.2.12 ।।



तथाविधमिति । तथाविधम् कामभोगवशम् । धर्मात्मनो दयादाक्षिण्याहिंसादिधर्मप्रवणचित्तस्य कारुण्यं दया समपद्यत समजायत ।। 1.2.13 ।।



तत इति । करुणवेदित्वात्सञ्जातकरुणत्वात् । ह्रस्वश्छान्दसः । विदेः सत्तार्थाल्लाभार्थाद्वा णिनिः । रुदतीं क्रौञ्चीं निशाम्य दृष्ट्वा । अयं काममोहितपक्षिवधरूपो ऽधर्म एवेति निश्चित्य क्रौञ्चीविषयकरुणावत्त्वेन, अर्थात्पापकारिणि निषाद आविर्भूतरोषतयेदं वक्ष्यमाणं वचनमब्रवीत् ।। 1.2.14 ।।



मा निषादेति । क्रौञ्चहन्तृप्रत्यक्षदृश्यमाननिषादशापरूपो ऽर्थस्तु स्पष्ट एव । किञ्च मा लक्ष्मीर्निषीदत्यस्मिंस्तत्सम्बोधनं मानिषाद यद्यस्माद्धेतोः क्रौञ्चमिथुनान्मन्दोदरीरावणरूपादेकं काममोहितं रावणमवधीर्हतवानसि तस्मात्त्वं शाश्वतीः समा अनेकान्संवत्सरानद्वितीयां प्रतिष्ठामखण्डैश्वर्यानन्दावाप्तिमगमः प्राप्नुहि । तेन "अर्थतः शब्दतो वा ऽपि मनाक्काव्यार्थसूचनम्" इत्युक्तेः श्रीरामकृतरावणवधरूपकाव्यार्थः काव्यादाववश्यकर्तव्याशीर्वादश्च सूचित इति तीर्थः ।।

कतककृत्तु प्रत्यक्षसंहन्तृनिषादशापरूपो ऽर्थस्तु स्पष्ट एव । किञ्च नितरां सदेवर्षिगणं त्रैलोक्यं सादयति पीडयतीति निषादस्तस्य सम्बुद्धिर्हे निषाद रावण यद्यस्मात्क्रौञ्चमिथुनात् अल्पीभावार्थक्रुञ्चेः पचाद्यच् क्रुञ्चम् ततः स्वार्थिको ऽण् क्रौञ्चम् । राज्यक्षयवनवासादिदुःखेनात्यल्पीभूतं परमकार्श्यं गतं यन्मिथुनं सीतारामरूपं तस्मादेकं सीतारूपं यस्मादवधीर्वधाभ्यधिकपीडां प्रापितवानसि, तस्मात्त्वं प्रतिष्ठां या लङ्कापुरे पुत्रपौत्रभृत्यगणवैशिष्ट्येन ब्रह्मणा प्रतिष्ठा दत्ता तामतः परं मा गम इति काव्यार्थसूचनम् । त्रैलोक्यस्य परममङ्गलरूपं चेदं सत्यसरस्वत्या पुरस्तादाविर्भावितमित्याह । अत्रेदमवधेयम् रावणवधे जाते ऽयोध्याराज्यप्राप्त्यनन्तरं नारदं प्रति प्रश्न इति स्वयमेव व्याख्यातत्वादुत्तरकालिकैतच्छ्लोकस्यैव विधिघटितस्योक्तार्थस्य कतकमते कथं सङ्गतिः । कथं वा सर्वज्ञा सत्यसरस्वती भूतमर्थमाशास्यत्वेन निर्दिशेदिति । तीर्थव्याख्याने ऽपीदं काव्यार्थसूचनं कविना कार्यमिति तदुक्तसम्मतिश्लोकार्थाद्गम्यते । तत्र वाल्मीकेस्तथा तात्पर्ये "किमिदं व्याहृतं मया" इत्युक्तेरसङ्गतेः । न च किमिदमित्यस्य पद्यं गद्यं वेत्यर्थः । "तदप्येषः श्लोको ऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे" इत्यादि बहुशः श्रुतिषूपलम्भेनेदृशाक्षरसन्निवेशस्य श्लोकत्वेन मुनेरज्ञानमित्यस्यात्यन्तमनुचितत्वात् । प्राक्तननारदऋषिसंवादस्यापि श्लोकरूपतया तत्रैव सन्देहकरणौचित्याच्च । तत्प्रश्नोत्तरं सर्वं केवलसंस्कृतैरेव । एतछ्श्लोकोत्तरमेव श्लोकैस्तस्यापि निबन्धनमिति कल्पना तु न युक्ता मानाभावात् अन्यथोपपत्तेश्च । अधर्मत्वबुद्धिपूर्वं कथितवचनस्येदृशे ऽर्थे तात्पर्यसम्भवस्याप्यभावाच्च । माङो योगाभावे ऽगम इत्येतावन्मात्रेण लुङा भूतत्वस्यैव प्रतीत्याशिषो अप्रतीतेश्च । एतच्छ्लोकनिर्गमकाले कवेः काव्यं करिष्यामीति बुद्धेरप्यभावाच्च । ब्रह्मोपदेशानन्तरमेव हि तथा बुद्धिर्वाल्मीकेः ।।

मम तु प्रतिभाति नारदात्स्वगुणश्रवणानन्तरं मुनेः स्ववर्णनेच्छां ज्ञात्वा स्वचरित्रस्य च करुणारसमयत्वेन तत्प्रधानकाव्ये ऽतिकरुणचित्तस्यैवाधिकारादृषेः करुणचित्तत्वजिज्ञासयेव पूर्वभृगुदत्तशापस्य पुनरुक्तत्वकरणेन दार्ढ्यसम्पादनाय मुनेरीक्षणाय च भगवान् राम एव निषादरूपेण पश्यतो मुनेः पुरतस्तमनादृत्य क्रौञ्चं रक्षोविशेषरूपं जघान । ततस्तदिच्छावशादन्तयामितया तथा प्रेरणाच्च महानधर्मो ऽयमनेन कृत इति रुषा "पापमते निषाद यत्त्वं काममोहितं क्रौञ्चमिथुनान्मिथुनीभूतात्क्रौञ्चयुगाद्विभक्तमेकमवधीस्तत्त्वमपि शाश्वतीः समा आयुःशेषभूतानि बहूनि वर्षाणि प्रतिष्ठां स्वस्त्रीसाहित्येन स्थितिमिह लोके मा गमो मा प्राप्नुहि । किन्त्वत्यल्पकालमेव तथा वास एकमिथुनीभावपर्यन्तमिति यावत्" इति शप्तवान्मुनिः । "एकमवधीः" इत्युक्तेर्यथा स त्वया स्त्रीविरहितः कृतः सा च नायकहीना कृता, तथा त्वमपि प्रियया स्वभार्यया हीनो भव । सा च त्वया हीना भवत्विति पर्यवसानम् । अगम इत्यडागमस्तु माङ्योगे ऽप्यार्षत्वात् । तस्य रक्षोरूपत्वं त्वेतदुत्तरं ब्रह्मणः सकाशात्सकलरामवृत्तान्तज्ञानवरलाभोत्तरकालकृते "तस्मात्तु मिथुनादेकम्" इति श्लोके वैरनिलय इति विशेषणेन सूचितम् । रक्षःस्वेव तस्य लोकदृष्ट्या वैरनिलयत्वप्रसिद्धेः । निषादस्यापि प्राणिषु न वैरं किन्त्वाहाराद्यर्थमेव तद्धननमिति प्रसिद्धेश्च । अत एवारण्यकाण्डे मृगयाव्यसनमुपक्रम्य "विना वैरं च रौद्रः" इति, "तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम् । निर्वैरं क्रियते मोहात्तच्च ते समुपस्थितम् ।।" इति च वक्ष्यति।

"त्रीण्येव व्यसनान्यद्य कामजानि भवन्तु ते" इति चोपक्रमे उक्तम् । नन्वीदृशो ऽर्थस्त्वया केन मानेन निर्णीत इति चेच्छृणु । ऋष्यक्षरस्वारस्यात् । तच्चाग्रे स्फुटम् । तत्र सन्देहश्चेत्स्वान्तर्यामिणं पृच्छ । तदुक्तं पाद्मे शिवशिवासंवादे रामवैभववर्णने चतुर्विंशे ऽध्याये "ततो जानपदः कश्चित्पामरः काष्ठविक्रयी । स्ववधूगर्हणद्वारा रावणस्य गृहोषिताम् ।। गर्हयामास वैदेहीं दुर्वृत्तो लोकनिन्दकः । तच्छ्रुत्वा देवि चारेभ्यो भीतो लोकापवादतः ।। आहूय लक्ष्मणं प्राह रामो राजीवलोचनः । शुणु मे वचनं गुह्यं सीतासन्त्यागकारणम् ।। वाल्मीकिना ऽथ भृगुणा शप्तो ऽस्मि किल लक्ष्मण । तस्मादेनां त्यजाम्यद्य जनो नैवात्र कारणम् ।।" इति। तथा स्कान्दे पातालखण्डेऽयोध्यामाहात्म्ये तत्रत्यतीर्थाश्रमवर्णनप्रस्तावे "शापोक्त्या हृदि सन्तप्तं प्राचेतसमकल्मषम्। प्रोवाच वचनं ब्रह्मां तत्रागत्य सुसत्कृतः ।।

न निषादः स वै रामो मृगयां चर्तुमागतः । तस्य संवर्णनेनैव सुश्लोक्यस्त्वं भविष्यसि ।। इत्युक्त्वा तु जगामाशु ब्रह्मलोकं सनातनः । ततः संवर्णयामास राघवं ग्रन्थकोटिभिः ।।" कोटिभिः शतकोटिभिः। "चरितं रघुनाथस्य शतकोटिप्रविस्तरम्" इत्यन्यत्रोक्तेः। तच्च सम्पूर्णं ब्रह्मलोक इत्यैतिह्यम्। इह तु कुशलवोपदिष्टा चतुर्विंशतिसहस्रीत्यलम्। योगवासिष्ठे तु शापान्तराण्यप्युक्तानि। तथाहि "सनत्कुमारो निष्काम अवसद्ब्रह्मसद्मनि। वैकुण्ठादागतो विष्णुस्त्रैलोक्याधिपतिः प्रभुः।।

ब्रह्मणा पूजितस्तत्र सत्यलोकनिवासिभिः । विना कुमारं तं दृष्ट्वा ह्युवाच प्रभुरीश्वरः ।। सनत्कुमार स्तब्धो ऽसि निष्कामो गर्वचेष्टया । अतस्त्वं भव कामार्तः शरजन्मेति नामतः ।। तेनापि शापितो विष्णुः सर्वज्ञत्वं तवास्ति यत् । किञ्चित्कालं हि तत्त्यक्त्वा त्वमज्ञानी भविष्यसि ।।" शापितः शप्तः। किञ्चित्कालमवतारान्तरेऽत्यल्पकालम्। तत्त्यक्त्वा तद्रूपं त्यक्त्वा। अज्ञानी स इव। तथा "भृगुर्भार्यां हतां दृष्ट्वा प्रोवाच क्रोधमूर्छितः। विष्णो तवापि भार्याया वियोगो हि भविष्यति।।

" तथा "वृन्दया शापितो विष्णुश्छलनं यत्त्वया कृतम् । अतस्त्वं स्त्रीवियोगं हि वचनान्मम यास्यसि ।।" शीपितः शप्तः। छलनम् पतिवेषेण सम्भोगरूपम्। तथा "भार्या हि देवदत्तस्य पयोष्णीतीरसंस्थिता। नृसिंहवेषधृग्विष्णुं दृष्ट्वा पञ्चत्वमागता ।।

तेन शप्तो हि नृहरिर्दुःखार्तः स्त्रीवियोगतः । तवापि भार्यया सार्धं वियोगो हि भविष्यति ।।" इति। दुःखार्तः तृतीयार्थे आर्षी प्रथमा। दुःखार्तेनेत्यर्थः। ताराशापोऽपि किष्किन्धाकाण्डे तत्रैव वक्ष्यत इत्यलं विस्तरेण। "प्राचेतसेन मुनिना रामो राजीवलोचनः। तमसोपवने शप्तो वेषधृग्जानकीपतिः ।।

श्रीरामः प्राकृतां लीलां स्वीयां वर्णयितुं तदा । मन्दोदर्याः पतिः क्रूरः क्रौञ्चवद्विनिपातितः ।। अण्डजं निहतं दृष्ट्वा मुनिः शापमथाददौ । चिरं प्रतिष्ठा मा भूत्ते निषाद भुवि हिंसक ।। शापं श्रुत्वैव सर्वात्मा तत्रैवान्तरधीयत । शोकाक्रान्तस्तु वाल्मीकिर्ब्रह्मणा ऽ ऽशु सुबोधितः ।।" इति। "त्यक्त्वा जीर्णदुकूलवद्वसुमतीं बद्धोऽम्बुधिर्बिन्दुवद्बाणाग्रेण जरत्कपोतक इव व्यापादितो रावणः। लङ्का कापि विभीषणाय सहसा मुद्रेव हस्तेऽर्पिता श्रुत्वैवं रघुनायकस्य चरितं को वा नरो नाञ्चति ।।

" ।। 1.2.15 ।।



तस्येति । मया मुनिना शान्तेन तपस्विना शकुनिशोकपीडितेनेदमीदृशं क्रूरं तपोनाशकरं किं व्याहृतमिति वीक्षतो ऽन्तर्यामिप्रेरणया निषादे सर्वतो महत्त्वसम्भावनया दृश्यमानक्रौञ्चे तद्वैपरीत्यसम्भावनयातिनिन्द्यमयशस्करं महापातकेभ्यो ऽप्यधिकं पापं वृत्तमिति चिन्ता बभूव । यद्यप्येतत्सर्वं वाल्मीकिकृतमेव तथापि कुशलवगेयतया ऽस्य काव्यस्य करणात्तदुक्तितयैवमुक्तिः । अन्यथा स्वचिन्तायाः स्वापरोक्षत्वाद्बभूवेति लिडसङ्गतिः स्यात् । यद्वा सर्गचतुष्टयमाद्यमुपोद्घातरूपं कस्यचिच्छिष्यस्य । वाल्मीकीयोपोद्घातत्वाच्च वाल्मीकीयोक्तिः । पारोक्ष्यमारोप्य स्वयमपि तथोक्तिरुपोद्घातत्वद्योतनायेत्यन्ये ।। 1.2.16 ।।



चिन्तयन्निति । महदयशस्करमिदं कर्म वृत्तमिति चिन्तयन्सत्यसङ्कल्पतयेत्थं मतिं सङ्कल्पं चकार । तदभिलापकं वाक्यं शिष्यमब्रवीदिति सम्बन्धः ।। 1.2.17 ।।



पादेति । अष्टाक्षरानुष्टुप्पादैर्बद्धः । अक्षरसमश्छन्दःशास्त्रोक्तगुरुलध्वक्षरवैषम्यरहितः । तथा तन्त्री वीणा, लयस्तालमृदङ्गवेणुहस्ताभिनयानां समकालं विरामः, ताभ्यां युक्तः । तन्त्र्यामारोप्य वाद्यैः सह गातुं योग्य इति यावत् अतः शोकार्तस्य शापरूपतयानौचित्येन प्रवृत्तो ऽपि मे मम श्लोको यशोरूपो भवतु अन्यथा ऽयशोरूपो मा भूदित्यर्थः । अत्र "भवतु" इति पाठ एव बहुपुस्तकसम्मतस्तीर्थसम्मतश्च । "श्लोको यशसि पद्ये च" इति निघण्टुः ।। 1.2.18 ।।



शिष्य इति । एवं ब्रुवतस्तस्यर्षेर्वाक्यं यशो भवत्वित्येवंरूपं हृष्टः सन् तथैवेदं यशोरूपमेवेदमित्यनुमोदनेन प्रतिजग्राहाङ्गीचकार । अयशोरूपे ऽपि यशस्त्वानुमोदनेन गुरुस्तस्य तुष्टो ऽभवदित्यर्थः ।। 1.2.19 ।।



स इति । अभिषेकमिति मध्याह्नकर्तव्यानुष्ठानोपलक्षणम् । तमेवार्थमवशतः शापार्थश्लोकोत्पत्तिरूपम् । उपावर्तत न्यवर्तत ।। 1.2.20 ।।



श्रुतवान्बहुश्रुतः पृष्ठतः पृष्ठभागेन प्रसारितकरः परिपूर्णं कलशमादायानु पश्चाज्जगामेत्यन्वयः ।। 1.2.21 ।।



स इति । मुखतो ऽन्याः कथाश्चकार, मनसा तु शापार्थकश्लोकविषयं ध्यानमास्थितः । यत्तु ध्यानमम्बाया गायत्र्याश्चतुर्मुखरुद्रप्राधान्येन ध्यानमास्थित इत्यर्थ इति, तन्न । तदा स्थितो ऽन्याः कथाश्चकारेत्यस्यासङ्गतेरित्यलं ध्यानपदार्थानभिज्ञदूषणाभिनिवेशेन ।। 1.2.22 ।।



अथ तच्चिन्तां निवर्तयितुं ब्रह्मागमनमाह आजगामेति । स्वयं प्रभुरनन्यमुखनिरीक्षकतया सर्वलोकसृष्ट्युपयोगिज्ञानैश्वर्यादिशक्तिमान् अत एव भूरादिलोकनिर्माता । तम् शापवाक्योच्चारणवशादतिचिन्ताक्रान्तम् ।। 1.2.23 ।।



वाग्यतो ऽतिसम्भ्रमवशाद्यतवाक् । प्रयतो ऽतिनम्रः ।। 1.2.24 ।।



पूजयामासेति । वन्दनम् स्तुतिः । प्रणम्येति पृथगुक्तेः । एनमित्याद्युत्तरान्वयि ।। 1.2.25 ।।



एनम् मुनिम् । ब्रह्मा । अनामयमामयः पीडा तद्रहितम् । व्ययहीनमितियावत् । तप इति शेषः । तत्पृष्ट्वा ऽनन्तरं स्वयमासन उपविश्य ऋषय आसनं दिदेश । आसन उपवेष्टुमनुमेन इत्यर्थः । "वाल्मीकये च ऋषये" इति पाठः । एतेन "ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम्" इत्युक्तेर्बाह्मणं प्रत्ययं प्रश्नः स्मार्ताचारविरुद्धः । तं देवमित्यनेनैव सिद्धे एनमित्यस्य वैयर्थ्यापत्तिश्चेत्यपास्तम् ।। 1.2.26 ।।



लोकपितामह उपविष्टे सति तदनुज्ञया स्वयमुपाविशदिति सम्बन्धः ।। 1.2.27 ।।



तद्गतेन क्रौञ्चगतेन । वैरं गृह्णाति सा चासौ बुद्धिस्तद्वता । कर्तरि ल्युट् बाहुलकात् । निषादेनेति शेषः । कष्टं कृतम् क्रौञ्चवधरूपं तपोनाशसम्पादकशापनिःसारणेन कष्टं कृतम् । मयेति शेषः ।। 1.2.28 ।।



कष्टमेवाहयदिति । हन्याद्धतवानित्यर्थे छान्दसम् । अकारणाद्दृश्यमानकारणं विना । उप समीपे । ब्रह्मणः समीपे ।। 1.2.29 ।।



शोकपरायणः क्रौञ्चवधकृतक्रौञ्चीदुःखदर्शनजेन स्वस्य मुखतस्तपोहानिकरशापार्थकश्लोकस्यावशतो निःसरणजेन च शोकेन व्याप्तः । अत एवान्तर्गतमना अन्तर्गते श्लोकार्थ एव दत्तचित्तः श्लोकं जगाविति सम्बन्धः । तं तथा शोकग्रस्तम् । प्रहसन्मदिच्छयावतीर्णां सरस्वतीं न जानातीति हासं कुर्वन् ।। 1.2.30 ।।



तद्वचनमेवाह श्लोक एवास्त्वयमिति । अयं त्वया बद्धः श्लोको यशोरूप एवास्तु । श्लोकशब्दस्य पद्यपरतया योजने "अस्तु" इति पाठस्यासङ्गत्यापत्तेः । अस्तीत्युक्तेरेवे ब्रह्मण औचित्यात् । मम त्वयशोरूपस्य यशोरूपताशीर्दानमिति नासङ्गतिः । "श्लोक एव त्वया" इति पाठे ऽपि यशोरूप एवायं त्वया बद्धः । अत्र तव विचारः सन्देहो मास्तु । मद्वचनात्त्वत्सङ्कल्पाच्चास्य तथा भावप्राप्तेरित्याशयः । ननु भवतु त्वदाशिषा तथात्वमस्याः, परन्तु शान्तस्वभावस्यर्षेर्ममेदृशी वागत्यन्तमनुचितेत्यपि मा विषादं कुर्वित्याह मच्छन्दादिति । मत्सङ्कल्पादित्यर्थः । विष्णोरवतारभूतस्य रामस्य सङ्कल्पो ऽपि स्वसङ्कल्पत्वेनोक्तः । "एका मूर्तिस्त्रयो देवा रुद्रविष्णुपितामहाः" इति हरिवंशोक्तेः । नन्वीदृशसङ्कल्पो ब्रह्मणो ऽपि किमर्थमिति चेच्छृणु । येषां परस्य दारवियोगादिजनकं कर्म स्वस्य दारवियोगादिकं जनयितुं नालम्, तेषामपि ब्रह्मशापस्तज्जनने ऽलमिति लोके ब्राह्मणमाहात्म्यं सूचयितुम् । एवं राज्यादिसत्त्वे ऽपि कामजय एवोत्तमः, न तु तद्भोगचापलम्, इति च स्वव्यवहारेण शिक्षयितुम्, तत्प्रायाश्चित्तविधया स्वकीर्तिवर्णनेन मुनेर्यशोवृद्ध्यर्थं भगवद्विषयमहापापप्रायश्चित्तत्वात्कैमुतिकन्यायेनेतरजनानां सर्वपापप्रायश्चित्तं रामायणश्रवणादीत्यर्थतत्त्वं बोधयितुं चेति गृहाण एतदृष्यक्षरस्वारस्यबलेन मया योजितम् अतो निरीर्ष्यं सहृदया विचारयन्तु ।। 1.2.31 ।।



एवं परवशप्रवृत्तस्यापि शापस्य भगवद्विषयतयेतरसकलमन्वाद्युक्तप्रायश्चित्तानिवर्त्यस्य यं प्रत्यसौ शापस्तच्चरितवर्णनरूपं प्रायश्चित्तमुपदिशति रामस्य चरितमिति । लोके रामस्य । रमते इति रामः । बाहुलकात्कर्तरि घञ् । तेन लोकाधिष्ठातुर्लोकान्तर्यामिणश्चेत्यर्थः । कुरु वर्णयस्व । धर्मात्मन इत्यनेन रावणादिवधवत्क्रौञ्चवधो ऽपि धर्मफलक एव लोकव्यवहारेण लोकहितत्वात्त्वद्रक्षकत्वाच्चेति सूचितम् ।। 1.2.32 ।।



वृत्तमिति । अस्य नारदोक्तविशेषपरत्वादपौनरुक्त्यम् । धियमीरयतीति धीरः तेन बुद्धिप्रेरकस्येत्यर्थः तेन गायत्र्यर्थभूतस्येत्युक्तम् ।। 1.2.33 ।।



रामलक्ष्मणयो राक्षसानां सीतायाश्च यत्प्रकाशं तदीयानां प्रकाशं तवाविदितम् । यदि वा यदपि तदीयानामपि रहो ऽविदितम्, तव तु सुतरामविदितम्, तदपि सर्वं ते विदितं भविष्यति । अनेन तत्करणयोग्यतादानम् । यच्च "मा निषाद" इतिवदपर्यालोच्यापि वाक्त्वत्तो निःसरिष्यति सा ऽपि नान्यथा भविष्यति, तेनास्या अपि सत्यत्वं भावीति ध्वनितम् ।। 1.2.34,35 ।।



एवं सामर्थ्यं दत्त्वोपसंहरति कुर्विति । यावदित्याद्युत्तरान्वयि ।। 1.2.36,37 ।।



तावदिति । यावत्त्वत्कृतकथाप्रचारस्तावदधश्च त्वं दयापूर्वमप्यतिमहति क्रोधकरणादधोगमनयोग्यो ऽपि त्वमूर्ध्वं सर्वोर्ध्वं वर्तमानेषु मल्लोकेषु निवासं प्राप्स्यसि । ततो मया सह मोक्ष्यस इत्यर्थः । लोकेष्विति तदवयवाभिप्रायं बहुवचनम् । ऊर्ध्वमधश्च विद्यमानेषु मल्लोकेषु मन्निर्मितलोकेषु निवत्स्यसि सर्वत्राप्रतिहतगतिः सञ्चरिष्यसि ततःपरं मुक्तिं प्राप्स्यसीति तीर्थः । तत्र मल्लोकेष्वित्यस्य चारितार्थ्यं चिन्त्यम् । इतीति । तत्रैवान्तर्धानेनास्याप्यन्तर्यामिरूपतोक्ता । तत इति । विस्मयमाश्चर्यम् ।। 1.2.38 ।।



तस्येति । प्रीयमाणा आश्चर्यमिदमस्मद्गुरोः पद्यं यद्ब्रह्मणाप्यनुमोदितम् । प्राहुश्च वक्ष्यमाणमित्यर्थः ।। 1.2.39 ।।



तदेवाह समेति । साम्यम् गुरुलघ्वक्षरराहित्यम् । यो ऋषिणा गीतः सः । अन्वतिशयितशोकोत्पत्त्यनन्तरं व्याहरणाद्भूयः शोको विपुलः शोक एव श्लोकत्वं प्राप्त इति वयं मन्यामह इति प्राहुरिति सम्बन्धः । उत्प्रेक्षा चेयम् । तेनास्य श्लोकस्य करुणरसमयत्वं ध्वनितम् । अत्र नष्टक्रौञ्चालम्बनकः क्रौञ्चीविरावानुदीपितो निषादविषयक्रौधव्यभिचारिको "मा निषाद" इत्यादिवाक्यानुभावकः करुणो रस इति बोध्यम् । यत्तु पूर्वश्लोके प्राहुरित्यस्य पठन्तीत्यर्थकरणम्, पुनः पुनः पाठेनानन्दवन्तो ऽभूवन्निति फलितार्थकथनम्, अत्र च श्लोके भूयो ऽनुव्याहरणान्मुहुर्मुहुः शिष्यैः पुनः पाठाल्लोके शोकः श्लोकत्वेन प्रतिबद्धो ऽभवच्छ्लोकत्वं प्राप्त इति तीर्थादिव्याख्यानं तदतिनिःसारमिति स्पष्टमेव ।। 1.2.40 ।।



तस्येति । ईदृशैः "मा निषाद" इतिवत्करुणारसप्रधानैरित्यर्थः । अनेनान्ये रसा अत्र गुणीभूता इति ध्वनितम् ।। 1.2.41 ।।



उदारेति । उदारस्य यद्वृत्तम् चरितम् उदारं वा यच्चरितं तद्रूपार्थबोधकैः पदैः मनोरमैः श्रुतिकटुत्वादिदोषरहितैः । अस्य यशस्विनो रामस्य दाशरथे रामस्य नारदोपदिष्टस्य । श्लोकशतैरिति शतशब्दो ऽनन्तवाची ।। 1.2.42 ।।



एवं काव्यनिर्माणमुक्त्वा तत्र श्रोतृ़नभिमुखीकरोति तदिति । समासस्तत्पुरुषादिः, सन्धिरेकादेशादिजः, योगः प्रकृतिप्रत्ययोः, एते उपगता यथाव्याकरणालङ्कारशास्त्रमर्यादं यस्मिन्काव्ये तादृशं काव्यं रघुवरचरितं तद्वर्णनरूपम् । समः पतत्प्रकर्षदिदोषरहितः, मधुरः करुणारसयुक्तत्वेन माधुर्यगुणप्रधानः, उपनतः प्रसन्नतयोपलभ्यमानो यो ऽर्थस्तद्बोधकवाक्यैर्निबद्धम् उपनतत्वेन प्रसादगुणवत्ता दर्शिता । समुदायेन वैदर्भीरीतिमत्त्वं ध्वनितम् । रघेर्गत्यर्थान्निष्पन्नरघुवरशब्देन तस्य सर्वान्तर्यामित्वं ध्वनितम् । ईदृशस्यापि मिथ्यार्थकत्वे ऽनुपादेयत्वं स्यादत आह मुनिप्रणीतं ब्रह्मानुग्रहप्राप्तसत्यवागृषिप्रणीतम् । पुरुषार्थस्वर्गमोक्षादिसाधनत्वं तु रघुवरचरितमित्यनेनोक्तप्रायमेव । दशशिरसश्च वधमित्यनेन वधान्तमिदं श्रोतव्यमिति सूचितम्, तेनैव सूचितफललाभात् । उत्तरकाण्डं त्वस्य खिलम्, भारतस्य हरिवंशवत् । अत एवाग्रिमसर्गे वनसञ्चरणपर्यन्तवृत्तान्वेषणमेव समाधिना ऋषिर्वक्ष्यतीति प्राञ्चः । परे तु दशशिरसो वधं चेत्यन्वयः । तेन सीतात्यागादिरूपोत्तरकाण्डीयवृत्तान्तसङ्ग्रह इत्याहुः ।। 1.2.43 ।।



इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे द्वितीयः सर्गः ।। 2 ।।



Sanskrit Commentary by Sivasahaya
श्रीमद्रामायणव्याख्या रामायणशिरोमणौ ।

समाप्त: प्रथम: सर्गो: रामपादप्रसादत: ।। 1 ।।



इत्यार्षे श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे प्रथम: सर्ग: ।। 1 ।।



नारदोपदेशश्रवणोत्तरकालिकं वाल्मीकिवृत्तमाह नारदस्येत्यादिना । वाक्यविशारद: वाक्ये वक्तव्ये विविधा विशिष्टा वा शारदा वाणी यस्य स: । धर्मात्मा धर्मे आत्मा यत्नो यस्य । परमधर्मोपदेष्टेत्यर्थ: । सहशिष्य: शिष्यसहित: महामुनि: सर्वमुनिश्रेष्ठ: वाल्मीकिर्नारदस्य तद्वाङ्मनसागोचरेश्वरबोधकं वाक्यं श्रुत्वैव पूजयामास । अहो एतद्बुद्धिवैभवमिति प्रशशंसेत्यर्थ: । महामुनिमिति पाठे तु महा: मुनिं पूजयामासेत्यर्थ: । तुशब्द एवार्थे ।। 1.2.1 ।।



यथावदिति । तदा तस्मिन्काले तेन वाल्मीकिना यथावत्पूजित: स देवर्षिर्नारद आपृष्ट्वा अहं यामीत्युक्त्वैव अभ्यनुज्ञात: सुखं याहीति तत्सम्मतिं प्राप्तो विहायसमाकाशं जगाम ।

आकाशमार्गेण स्वलोकं प्रापेत्यर्थ: । एतेन गुरुशिष्ययोरभीष्टार्थसिद्धिर्जातेति द्योतितम् ।। 1.2.2 ।।



नारदगमनोत्तरकालिकं वृत्तमाह स इत्यादिना । तस्मिन्नारदे देवलोकं देवकर्तृकदर्शनयोग्यम् । स्वलोकमित्यर्थ: । गते तन्निष्ठसंयोगानुकूलव्यापारवति सति स मुनिर्वाल्मीकिर्मुहूर्तं घटिकाद्वयं स्थित्वा जाह्नव्या गङ्गाया अविदूरत: समीपे एव विद्यमानं तमसातीरं जगाम । मुहूर्त्तं स्थित्वेत्यनेन वाल्मीकेर्नारदविषयकप्रेमातिशय: सूचित: । समीपे विद्यमानां जाह्नवीं न गतस्तमसातीरमेव गत इत्यनेन तमसायां तत्प्रीत्यतिशय: सूचित: । तेन तत्स्थलस्य रघुनाथसञ्चारवत्त्वं ध्वनितम् । तुशब्द एवार्थे ।। 1.2.3 ।।



सत्विति । तदा तस्मिन्काले स मुनि: वाल्मीकिस्तमसायास्तीरं समासाद्य सम्यक् प्राप्य अकर्दमं पङ्करहितं तीर्थम् ऋषिसेविततमसाजलं दृष्ट्वैव पार्श्वे स्थितं शिष्यं भरद्वाजमाह तुशब्द एवार्थे । 'तीर्थं शास्त्राध्वरे क्षेत्रे मन्त्रोपाध्यायमन्त्रिषु । अवतारर्षिजुष्टाम्भस्त्रीरजस्सु च विश्रुतम्' इति विश्वकोशात्तीर्थशब्दस्य ऋषिजुष्टाम्भ:परत्वम् ।। 1.2.4 ।।



अकर्दममिति । अकर्दमम् पङ्करहितान्तर्बहिस्थलकम् । अत एव सन्मनुष्यमनो यथा सन्मनुष्यमनस्सदृशम् । अत एव रमणीयमतिरम्यम् । अत एव तीर्थम् । ऋषिभिर्जुष्टम् । इदं प्रसन्नाम्बु स्वच्छजलम् । हे भरद्वाज निशामय पश्य । 'शमो दर्शने' इति दर्शने मित्वनिषेधाद्ध्रस्वविरह: ।। 1.2.5 ।।



न्यस्यतामिति । हे तात कलशमुदपात्रं न्यस्यताम् । अत्रैव ध्रियतामित्यर्थ: । मम वल्कलं शरीराच्छादनहेतुभूतकदलीत्वक् दीयताम् । उत्तमं तमसातीर्थमृषिसेविततमसाजलमिदमेवावगाहिष्ये अत्रैव स्नास्यामीत्यर्थ: । स्नानात्पूर्वमेव वल्कलादियाचनेन त्वमपि स्नानं कुर्विति गुर्वाज्ञापनं ध्वनितम् ।। 1.2.6 ।।



एवमिति । नियत: स्नानकार्ये गुरुणा नियोजित: महात्मना परमपूज्येन वाल्मीकेन वाल्मीकात्प्रादुर्भूतेन । एवमनेन प्रकारेणोक्तो भरद्वाज: मुने: नारदोपदिष्टवस्तुविषयकविचारशीलस्य गुरोस्तस्य वाल्मीकस्य वल्कलं प्रायच्छत प्रादात् । सञ्ज्ञापूर्वकविधेरनित्यत्वात्प्रायच्छतेति आत्मनेपदम् ।। 1.2.7 ।।



वल्कलदानौत्तरकालिकं वृत्तमाह स इत्यादिना । नियतेन्द्रिय: संयतेन्द्रियग्राम: स वाल्मीकि: शिष्यस्य भरद्वाजस्य हस्ताद्वल्कलमादाय गृहीत्वा विपुलं विस्तीर्णं तद्वनं तमसातीरारण्यं सर्वत: पश्यन् विचचार । ह इति हर्षे । एतेन तद्वनस्य मनोहरत्वं व्यक्तम् । तेन तत्र तिष्ठासा व्यञ्जिता ।। 1.2.8 ।।



तस्येति । तत्र तस्मिन्वने तस्य तमसातीर्थस्य अभ्यासे समीपे एव चरन्तं विहरन्तमनपायिनं वियोगशून्यं चारुनिस्स्वनं मनोहरशब्दयुक्तं क्रौञ्चयो: पक्षिविशेषयो: मिथुनं युग्मं भगवान् वाल्मीकि: ददर्श । तुशब्द एवार्थे । चरन्तमित्यादिपुंस्त्वमार्षम् ।। 1.2.9 ।।



तस्मादिति । वैरनिलय: अकारणद्रोहाश्रय: अत एव पापनिश्चय: तद्वधोद्योगयुक्त: निषाद: तस्य मुने: पश्यत एव पश्यन्तमनादृत्यैव तस्मात् क्रौञ्चमिथुनात् वियुक्तमेकं केवलं पुमांसं जघान । तुशब्द एवार्थे । "षष्ठीचानादरे" इति सूत्रविहिता षष्ठी ।। 1.2.10 ।।



तमिति । शोणितपरीताङ्गं रुधिरव्याप्तशरीरं महीतले चेष्टमानं लुण्ठन्तं निहतं निषादेन हिंसितं क्रौञ्चं भार्या तत्स्त्री दृष्ट्वा तु अवलोक्यैव करुणां श्रवणमात्रेण कारुण्यनिष्पादिकां गिरं रुराव उच्चारयामास । तुशब्द एवार्थे ।। 1.2.11 ।।



वियुक्तेति । मत्तेन सम्भोगहेतुभूतमदविशिष्टेन । अत एव पत्रिणा सम्भोगार्थं विस्तारितपक्षवता ।

अत एव सहचारिणा स्वस्त्रिया सहैव गच्छता । अत एव सहितेन स्वसदृशगमनविशिष्टेन ताम्रशीर्षेण अरुणचूडेन द्विजेन पक्षिविशेषेण तेन हतेन पतिना स्वपतिना वियुक्ता रुरावैवेति पूर्वेणान्वय: । नान्यत्किञ्चित् शुश्रावेत्यर्थ: । एतेन तच्छोकस्य पराकाष्ठा सूचिता । विनापि प्रत्ययं पूर्वोत्तरपदयोश्चेति स्वशब्दलोप: । अत एव नाभावेनार्षकल्पना । वैशब्द एवार्थे । सहितेनेत्यत्र हितशब्द: गमनार्थकहिधातुप्रकृतिकभावनिष्ठान्त: ।। 1.2.12 ।।



तथेति । तथाविधं सम्भोगोद्योगविशिष्टं द्विजं क्रौञ्चं निषादेन निपातितं पृथिव्यां लुण्ठितं दृष्ट्वा धर्मात्मन: परमधर्मज्ञस्य ऋषेस्तस्य वाल्मीके: कारुण्यमनुकम्पा समपद्यत सम्यक् प्राप्नोत् ।। 1.2.13 ।।



निपातितक्रौञ्चदर्शनहेतुककारुण्यप्राप्त्यनन्तरकालिकं वृत्तमाह तत इत्यादि । रुदतीं क्रौञ्चीं निशाम्य दृष्ट्वा । तत: क्रौञ्चीरोदनश्रवणहेतो: करुणवेदित्वात् घृणाविशिष्टत्वाद्धेतो: 'अयं पक्षिवधो ऽधर्म: धर्मविरुद्ध:' इदं वचनं द्विज: वाल्मीकिरब्रवीत् ।। 1.2.14 ।।



तत्रत्यहिंसानिवृत्तिफलकयत्नसूचनपूर्वकहिंसावलोकनजन्यशोकनिवर्तकप्रतिपिपादयिषितकाण्डसप्तार्थसूचकं पद्यमाह मा निषादेत्यादिना । हे निषाद यद्यस्मात्काममोहितं कामासक्तं क्रौञ्चमिथुनादेकं पुमांसं पृथक्कृत्य त्वमवधीस्तस्मात् शाश्वती: निरन्तरा: समा: संवत्सरान् प्रतिष्ठामिह वने क्वचित्स्थानं त्वं मा गम: न प्राप्नुहि । पुनरिह वने तवागमनं न स्यादित्यर्थ: । "आशंसायां भूतवच्च" इति भविष्यत्काले लुङ् । अननुबन्धकमाशब्दप्रयोगान्नाड्विरहप्रसक्ति: । समा इत्यत्र द्वितीया "कालाध्वनो:" इति सूत्रविहिता । 'प्रतिष्ठा स्थितिमाहात्म्यम्' इति वैजयन्तीकोशात्प्रतिष्ठाशब्द: स्थानपर: । किञ्च त्वमेति निषादविशेषणम् । त्वेन आत्मभिन्नेन रागादिना म: बन्धनं यस्य । अनात्मभूतरागादिवश इत्यर्थ: । 'मा च मातरि मो माने बन्धने च प्रकीर्तित:' इत्येकाक्षरकोशान्मशब्दस्य बन्धनवाचकत्वम् । त्वशब्दस्यान्यपरत्वं तु सर्वादिगणे प्रसिद्धम् । अत्र पक्षे सानुबन्धकमाङ्शब्दप्रयोगात् अड्विरहभविष्यत्कालबोधकलुङौ सिद्धाविति बोध्यम् । अर्थस्तु पूर्ववत् । एतेन तत्रत्यहिंसाभाव एव सम्पादित: । न निषादप्राणवियोग: शापेनेति फलितम् । तेन ऋषे: क्रोधो न जात इति ध्वनितम् । तेन ऋषे: परमदयालुत्वं व्यक्तम् ।।

तत्रत्यहिंसानिवृत्तिफलकयत्नरूपार्थमुक्त्वा हिंसावलोकजन्यशोकनिवर्त्तकप्रतिपिपादयिषितकाण्डसप्तकस्वाभिप्रेतसङ्क्षिप्तार्थ उच्यते । हे मानिषाद मानिनां गर्वविशिष्टानां ष: श्रेष्ठ: परशुरामस्तमासमन्ताद्भावेन द्यति खण्डयति वैष्णवधनुस्सज्जीकरणादिना तद्गर्वं निवर्तयतीति मानिषाद: । तत्सम्बोधने हे मानिषाद परशुरामाभिमाननिवर्त्तक त्वं शाश्वती: समा: प्रतिष्ठामगम: प्राप्स्यसि । यद्यस्मात्क्रौञ्चवन्मिथुनीभूता: क्रौञ्चमिथुना: जनकधनुर्यागसमागता अविवेकिनो भूपास्तेषु अतति व्याप्नोतीति क्रौञ्चमिथुनात् त्वमेकं केवलं काममोहितमविवेकीभूयकाममोहितत्वम् । अवधी: न्यवर्त्तय: । 'ष: कीर्तितो बुधै: श्रेष्ठे तथा गम्भीरलोचने' इत्येकाक्षरकोशात्षशब्द: श्रेष्ठपर: । "आशंसायां भूतवच्च" इति सूत्राविहितो ऽत्र लुङ् । काममोहितमिति भावनिष्ठान्तम् । इति बालकाण्डकथा सूचिता ।।

यद्वा मं बन्धनं सत्यवचनात्याज्यत्वादेव वरप्रदानसंशयाविष्टत्वम् । आसमन्तान्निषादयति दूरीकरोतीति तत्सम्बोधने हे मानिषाद महाराजाधिराजदशरथसंशयनिवर्त्तक तद्विशेषणं क्रौञ्चमिथुनादिति । क्रौञ्चवन्निरन्तरवनवासेन पक्षितुल्यानि मिथुनानि अनसूया ऽत्र्यादियुग्मोपलक्षितानि तानि आसमन्तादतति स्वदर्शनजनितानन्ददातृत्वेन प्राप्नोतीति क्रौञ्चमिथुनात् वन्यमुन्यानन्ददात:

रघुनाथ यद्यस्मादेकमल्पमापातत: प्रतिभासमानं काममोहितं दशरथकाममोहितत्वम् । किञ्च कामेन रघुनाथेच्छया मोहितत्वं प्रकटस्ववियोगजनितदशरथौदासीन्यमवधी: । स्वाप्रकटस्वस्वरूपसंयोगबोधनद्वारा न्यवर्त्तय: । तस्मात् त्वं शाश्वती: समा: प्रतिष्ठामगम: । इत्ययोध्याकाण्डकथासूचनम् ।।

यद्वा हे मानिष मान: देवकर्तृकपूजा अस्ति येषां ते मानिन: ब्रह्मविष्णुमहेश्वरा: । तेभ्यो ऽपि ष: श्रेष्ठ: तेषां षं येनेति वा । तत्सम्बोधनं हे मानिष अन्ते ब्रह्मादिश्रैष्ठ्यहेतुभूतेत्यर्थ: । अत्र पक्षे षशब्द: भावप्रधाननिर्दिष्टो बोध्य: । तद्विश्ोषणं शेति । मङ्गलप्रदेत्यर्थ: । काममोहितमत्यन्तमोहं प्राप्तं यत् रक्ष:कुलं समा: सर्वत्र समदृष्टयो ये दण्डकारण्यवासिऋषयस्तानाद भक्षयामास । तत् रक्ष:कुलं क्रौञ्चमिथुनात् क्रौञ्चं वनगमनप्रतीयमानाल्पत्वं प्राप्तं यन्मिथुनं मिथुनत्वम् । मिथुनधर्मो विलासवचनादिस्तमतति प्राप्नोतीति क्रौञ्चमिथुनात्त्वमाशु शीघ्रमेकमल्पमश्रममिति यावत् । यथा स्यात्तथा ऽवधी: । अत: प्रतिष्ठां मुनिकृतपूजामगम: । प्राय: अत एवाती: । अत्येति सर्वानतिवर्त्तसे इति अती: । सर्वश्रेष्ठोसीत्यर्थ: । इत्यारण्यकथासूचनम् ।।

यद्वा हे मानिष मस्य ऋष्यमूकपर्वतादन्यत्र सुग्रीवगमनप्रतिबन्धरूपबन्धनस्य आनिष: अत्यन्तध्वंसो यस्मात्तत्सम्बोधनम् । तद्विशेषणं क्रौञ्चेति वनवासहेतुकप्रतीयमानकृशत्वविशिष्टेत्यर्थ: । यद्यस्मान्मिथुनात्तारावालियुग्माद्विभक्तमेकं काममोहितं वालिनं त्वमवधी: । तस्मात् आदप्रतिष्ठाम् आदस्य स्वीकारकर्तुर्या प्रतिष्ठा स्वीकृतनिबर्हणजन्यप्रतिष्ठितत्वं शाश्वती: समा: अगम: प्राप्स्यसि । आनिष इति आङ्निपूर्वकध्वंसार्थकषोधातुप्रकृतिकभावार्थककप्रत्ययेन सिद्धम् । आदेत्यत्र आङ्पूर्वकदाधातो: क: । इति किष्किन्धाकाण्डकथासूचनम् ।।

यद्वा हे क्रौञ्च प्रतीयमानसीताविरहहेतुकप्रतीयमानकृशताविशिष्ट यद्यस्मान्मिथुनात्तारासुग्रीवमाज्ञाप्य मया लक्ष्म्या सह निषीदति नित्यं तिष्ठतीति मानिषादो विष्णुस्तद्वत्सङ्ग्रामे प्रतितिष्ठतीति मानिषादप्रतिष्ठा: हनुमान् तं त्वमगम: सीतान्वेषणार्थं लङ्कां तारासुग्रीवद्वारा प्रैषय: । तस्मात् शाश्वती: समा: बहुकालं रक्षसामेकं मुख्यं काममोहितं काममोहितत्वम् अवधी: न्यवर्तय: । मिथुनादित्यत्र ल्यब्लोपे पञ्चमी । प्रतिष्ठेत्यत्र विच्प्रत्यय: । अगम इत्यत्र गमिरन्तर्भावितणिजर्थ: । इति सुन्दरकाण्डकथासूचनम् ।।

यद्वा हे षाद षं परोक्षत्वं इन्द्रियागोचरत्वम् आसमन्तात् द्यति खण्डयतीति षाद: तत्सम्बोधनं षादेति । स्वावाङ्मनसगोचरत्वं परित्यज्य मम दृष्टिपथं गतेत्यर्थ: । किञ्च ष: श्रेष्ठ: आदो ग्रहणकर्त्ता स एव स इति कर्मधारय: । तत्सम्बोधने हे षाद ग्रहणकर्तृश्रेष्ठ स्वीकृतापरित्यागधर्मविशिष्टेत्यर्थ: । यद्यस्मात् क्रौञ्चं सीताहरणहेतो: परस्परं कुटिलतां प्राप्तं यन्मिथुनं मन्दोदरीरावणयुग्मं तस्माद्विभज्य एकं रक्ष:प्रधानं काममोहितं कामेन रघुनाथेच्छया मोहितम् अयं मम स्वामीति विवेकराहित्यविशिष्टं रावणं त्वमवधी: । तस्माद्धेतो: । मा देवसम्पत्ति: त्वया आनि आजीवि । पुन: प्रापीत्यर्थ: । अत एव शाश्वती: समा: प्रतिष्ठामिह लोके ऽपि महाराजत्वरूपं परममाहात्म्यमगम: प्राप्स्यसि । 'उपसर्गे परोक्षे च षकार: परिकीर्त्तित: । ष: कीर्तितो बुधै: श्रेष्ठे' इति कोशौ । इति युद्धकाण्डकथासूचनम् ।।

यद्वा हे श सकलायोध्यावासिनित्यमङ्गलप्रद क्रौञ्चमिथुनात् तदुपलक्षितपक्षिण आरभ्य समा: साम्यविशिष्टपरमहंसपर्यन्ता: । सकलायोध्यावासिप्रजा इत्यर्थ: । एकम् मुख्यम् । अत एव कामं सर्वेच्छाविषयीभूतम् । अत एव ओहितं तं प्राप्स्यामि न वेति अतिशयतर्कविषयीभूतम् । मो महाशम्भु: अ: महाविष्णु: आ: महाब्रह्मा । तेषामानिषाद: परमा स्थितिर्यत्र स मानिषाद: स एव

प्रतिष्ठा: सर्वोत्कृष्टमाहात्म्यविशिष्ट: अप्रकटसाकेतपदार्थस्तम् । आशु शीघ्रमगम: प्रापय: । अतस्त्वमती: सर्वानतिवर्त्तसे । मकारस्य शिववाचकत्वे प्रमाणम् 'म: शिवे मा रमायां च मा निषेधे ऽव्ययं मतम्' इति विश्व: । इत्युत्तरकाण्डकथासूचनम् ।। 1.2.15 ।।



तस्येति । एवं राजोचितब्राह्मणानुचितव्याधनिवर्तकत्वप्रकारेणापि बोधकं पद्यं ब्रुवत: कथयत: वीक्षत: परधर्माचरणमयुक्तमिति विजानत: तस्य मुने: हृदि चिन्ता बभूव । चिन्तास्वरूपमाह अस्य शकुने: क्रौञ्चस्य शोकार्तेन एतत् क्रौञ्चविषयकशोकविशिष्टेन मया किमिदं व्याहृतम् । कुत्सितमेतदुच्चारितम् । कुत्सितत्वं च ब्राह्मणानुचितव्याधनिस्सारणसूचकत्वेनेति बोध्यम् ।। 1.2.16 ।।



चिन्तयन्निति । महाप्राज्ञ: महान्तो भरद्वाजादय: प्राज्ञा: रघुनाथविषयकज्ञाननिष्ठा: यस्मात् । तत्र हेतु: मतिमान् तत्त्वविषयकज्ञाननिष्ठ: मतिं चिन्तानिवर्तकनिश्चयं चकार । प्रापेत्यर्थ: । तत्स्वरूपं तु रघुनाथचिन्तनप्रतिबन्धकीभूतनिवर्तनं धर्मान्तरेणापि सम्पादनीयमिति । तत्र प्रमाणम् 'मन्निमितं कृतं पापं स वै पुण्याय कल्पते । मद्विरोधी च यो धर्म: स वै पापाय कल्पते ।।' अत एव मुनिपुङ्गव: मुनिश्रेष्ठ: स वाल्मीकि: शिष्यं भरद्वाजमिदं वक्ष्यमाणं वाक्यं वचोऽब्रवीत्। चो हेतौ ।।

1.2.17 ।।

पादेति । पादबद्ध: पादै: अष्टाक्षरचतुर्भिरंशैर्बद्ध: संयुक्त: अक्षरसम: चतुर्ष्वपि पादेषु छन्दश्शास्त्रोक्तपथोचितगुरुलध्वक्षरविशिष्ट: तन्त्त्रीलयसमन्वित: तन्त्र्यादिसूचितगानलालित्यसम्पादकलयविशिष्ट: शोकार्तस्य शकुनिविषयकशोकविशिष्टस्य मे प्रवृत्त: । अयं श्लोक: अन्यथा कथञ्चिदप्यन्यपर: न भवतु न प्रत्येतु । रघुनाथकथाप्रतिबन्धकीभूतव्याधनिवर्तनसूचकमपि रघुनाथकथासूचकमेवेदं पद्यं भवत्विति फलितो ऽर्थ: । यद्वा 'तन्त्रीलयसमन्वित: तन्त्रिणां शास्त्राभिज्ञानामिलं प्रतिष्ठां तत्कृतमहत्त्वं तस्य य: प्राप्ति: तेन समन्वित: युक्त: । पादबद्धोक्षरसम: पादे बद्धो य: उक्षर: उक्षावृषभश्चासौ रश्चेति वृष्ाभश्रेष्ठ इत्यर्थ: । तत्सम: तत्सदृश: शोकार्तस्य मे प्रवृत्त: श्लोक: अन्यथा अन्यपरक: न भवतु । यथा बद्धो वृषभ: स्वस्थानादन्यत्र गन्तुं न शक्नोति तथा ऽयं श्लोकस्तात्पर्यविषयीभूतरघुनाथादन्यत्र न गच्छत्विति फलितो ऽर्थ: । 'रश्च भूपे प्रकीर्तित:' इति कोशात् रशब्द: श्रेष्ठपर: ।। 1.2.18 ।।



शिष्यस्त्विति । ब्रुवत: कथयत: तस्य प्रसिद्धस्य मुने: अनुत्तमं न उत्तममन्यद्यस्मात्सर्वोत्तममित्यर्थ: । वाक्यम् रघुनाथवर्णनपर एव मा निषादेति श्लोक: नान्यपर इत्येतद्वचनम् । सन्तुष्ठ: परमसन्तोषं प्राप्त: । शिष्यो भरद्वाज: प्रतिजग्राह । निश्शेमतो ज्ञातवानित्यर्थ: । तेन हेतुना गुरु: वाल्मीकि: तस्य शिष्यस्योपरि तुष्टो ऽभवत् । एतेन तद्वस्तुनो दुर्ज्ञेयत्वं सूचितम् । तेन भरद्वाजस्य बुद्धिमत्तातिशयो व्यञ्जित: । तु शब्दो हेत्वर्थे । अनुत्तमं वाक्यमित्यस्यार्थिकस्सम्बन्धो ब्रुवत इत्यत्रास्तीति बोध्यम् ।। 1.2.19 ।।



स इति । तत: सन्तोषप्राप्त्यनन्तरं तस्मिन् वर्णितकर्दमरहितत्वादिधर्मविशिष्टे तीर्थे पावनहेतुभूततमसाजले एव स मुनि: यथाविधि विधिमनतिक्रम्य अभिषेकं स्नानं कृत्वा तं मा निषादेत्यनेन प्रतिपादितमर्थं काण्डसप्तकसङ्क्षिप्तकथां चिन्तयन् विचारयन्नेव उपावर्तत स्वाश्रममागच्छत् । एतेन तदर्थस्य मनोहरत्वं व्यक्तम् । वैशब्द एवार्थे ।। 1.2.20 ।।



भरद्वाज इति । तत: गुरोरुपावर्तनानन्तरं विनीत: विनयसम्पन्न: श्रुतवान् यथावद्गुरूक्ततत्त्वं ग्रहीता । मा निषादेत्येतच्छ्लोकगूढार्थं परिज्ञातेत्यर्थ: । अत एव मुनि: तदर्थमननशील: शिष्यो भरद्वाज: पूर्णं जलपूरितं कलशमादाय गृहीत्वा पृष्ठत: गुरो: पश्चादनुजगाम । अन्तररहितगमनं चकारेत्यर्थ: । ह इति हर्षे ।। 1.2.21 ।।



स इति । अश्रमपदं श्रमनिवर्तकस्वाश्रमं शिष्येण भरद्वाजेन सहैव प्रविश्य उपविष्ट: सुखासननिविष्ट: धर्मवित् परमधर्मं वेदिता । अत एव ध्यानमास्थित: रघुनाथस्मरणपरायण: स मुनि: अन्या: रघुनाथसम्बन्धशून्या: कथा: उक्ती: चकार तत्त्याज । अत एव ध्यानेन सह अन्या: कथाश्चकारेत्यस्य न विरोध: । विक्षेपार्थककृ़धातो: रूपम् । चशब्द एवार्थे ।। 1.2.22 ।।



आजगामेति । तत: ध्यानस्थित्यनन्तरम् । लोककर्ता भुवनस्य निर्माता प्रभु: समर्थ: चतुर्मुख: चत्वारि चतुर्वेदप्रादुर्भावहेतुभूतानि मुखानि यस्य । अत एव महातेजा: परमतेजस्वी ब्रह्मा तं नारदोपदिष्टं मुनिपुङ्गवं द्रष्टुं स्वयमाजगाम । एतेन नारदोपदिष्टार्थस्य मनोहरत्वं व्यञ्जितम् ।। 1.2.23 ।।



वाल्मीकिरिति । अथ ब्रह्मागमनानन्तरम् । वाग्यत: रघुनाथस्मरणपरायणत्वान्निवर्तितवचनान्तर: अत एव प्रयत: यतचित्त: वाल्मीकि: तं ब्रह्माणं दृष्ट्वा परमविस्मित: सन् सहसा त्वरया उत्थाय प्राञ्जलि: बद्धकरो भूत्वा तस्थौ । परमविस्मित इत्यनेन तात्कालिकब्रह्मागमनहेतुर्न ज्ञात इति हेतुर्ध्वनित: ।। 1.2.24 ।।



पूजयामासेति । तं पुरस्थितं देवं ब्रह्माणं प्रणम्य नमस्कृत्य पाद्यार्घ्यासनवन्दनै: पाद्यार्घ्यजलसमर्पणासनस्थापनस्तुतिभिर्विधिवत् यथाविधि पूजयामास । अथ वाल्मीकिकृतपूजाप्राप्त्यनन्तरम् एनं वाल्मीकिमव्ययं निरवच्छिन्नम् अनामयं रोगादिराहित्यं पृष्ट्वा परमार्चिते अतिपूजिते आसने उपविश्य भगवान् षडैश्वर्यसम्पन्न: अत एव तत: स्वतेजसा व्याप्तो ब्रह्मा ऋषये परममन्त्रद्रष्ट्रे वाल्मीकये आसनं सन्दिदेश । आसने स्थातुमाज्ञापयामासेत्यर्थ: । ब्रह्मकर्तृकासनाज्ञापनेनायमृषि: सर्वश्रेष्ठ इति हेतुर्ध्वनित: । तेन रघुनाथचिन्तनस्य अतिपूज्यत्वसम्पादकत्वं ध्वनितम् । द्वयोरेकत्रान्वय: ।। 1.2.25,26 ।।



ब्रह्मणेति । तदा तस्मिन्काले ब्रह्मणा समनुज्ञात: आसने उपवेष्टुं ब्रह्माज्ञां सम्प्राप्त: स वाल्मीकिरपि आसने उपाविशत् तस्थौ । लोकपितामहे सर्वोत्पत्तिहेतुभूते तस्मिन्ब्रह्मणि साक्षात् प्रत्यक्षतया उपविष्टे आसने उपवेशिते सति तद्गतेन रघुनाथ्ाचरिताविष्टेनैव मनसा वाल्मीकि: ध्यानं स्वकृतमानिषादेतिश्लोकस्मरणमास्थित: प्राप्त: । आसीदिति शेष: । उपविष्ट इत्यत्र अन्तर्भावितणिजर्थ: । सार्द्धश्लोक एकान्वयी ।। 1.2.27 ।।



व्याधनिवर्तनकाण्डसप्तकप्रतिपिपादयिषितरघुनाथाचरितसङ्क्षिप्तवर्णनोभयसूचक

मानिषादेतिश्लोकस्य शोभनत्वं निश्चेतुं ब्रह्माणं प्रति पूर्ववृत्तमाह पापेत्यादिना । पापात्मना पापान्वेषणमनस्केन अत एव वैरग्रहणबुद्धिना वैरग्रहणे वैरकर्मकसम्पादने बुद्धिर्यस्य तेन मया कष्टं कठिनम् । अकर्तव्यमित्यर्थ: । कृतम् सम्पादितम् ।। 1.2.28 ।।



किन्तदित्याह य इत्यादिना । य: व्याध: चारुरवं मनोहरशब्दं तादृशं पूर्वोक्तविशेषणविशिष्टं क्रौञ्चमकारणाद्धन्यात् अहन् तस्य उप समीपे क्रौञ्चीं शोचन्नेव अहमिमं द्व्यर्थकं मानिषादेतिश्लोकं जगौ अवदम् । 'बहु जगद पुरस्तात्तस्य मत्ता किलाहम्' इति वल्लिट्प्रयोग: ।। 1.2.29 ।।



पुनरिति । पुनस्तदनन्तरम् । अन्तर्गतमना: अन्त: अन्तरङ्गार्थे गतं निविष्टं मनो यस्य तादृक् शोकपरायण: शोकात्पर: सकारणशोकसम्बन्धशून्य: नारदोपदिष्टरघुनाथ: तस्मिन्नयनं स्थितिर्यस्य स आसीदिति शेष: । तत: वाल्मीक्युक्तिश्रवणानन्तरं मुनिपुङ्गवं मुनिश्रेष्ठं तं वाल्मीकिं ब्रह्मा प्रहसन्नुवाच । प्रहसन्नित्यनेन मा निषादेतिश्लोको रघुनाथपर एवेति ब्रह्मणाज्ञातमित्यभिप्राय: सूचित: । तेन रघुनाथस्मरणप्रतिबन्धकनिवर्तनमपि रघुनाथकथैवेति हेतुर्ध्वनित: ।। 1.2.30 ।।



तद्वचनाकारमाह श्लोक इति । हे ब्रह्मन् वेदतत्वार्थवेत्त: मच्छन्दात् मह्यं मत्कल्याणार्थं छन्द: प्रादुर्भावे सङ्कल्पो यस्य स राम: तस्मात् । छन्दश्शब्दस्य सङ्कल्पपरत्वं नागोजीभट्टैरपि व्याख्यातम् । किञ्च मता स्वविषयकज्ञानेन शं परं कल्याणं ददातीति मच्छन्दो रघुनाथस्तस्मात्तदिच्छात एवेत्यर्थ: । ते तव इयं सङ्क्षिप्तकाण्डसप्तकार्थप्रतिपादिका सरस्वती प्रवृत्ता । अत: श्लोक: परमयश:कारणभूतरघुनाथप्रतिपादक एवायं त्वया बद्ध: श्लोकरूपेण सम्पादितो ऽस्ति अतो ऽत्रविषये विचारणा अन्यपरोप्ययं श्लोक: सम्भवति न वेति विचारो न कार्य: । 'एवास्त्वयं बद्ध' इति भट्टसम्मत: पाठ: ।। 1.2.31 ।।



रामस्येति । हे ऋषिसत्तम अत: कृत्स्नं यावत्स्वबुद्धिविषयीभूतं रामस्य चरितं त्वं कुरु वर्णय । अर्द्धं पृथगन्वयि । तदेव विशदयन्नाह धर्मेत्यादिना । धर्मात्मन: धर्मयो: पित्राज्ञापितविश्वामित्रसेवनादिवनगमनादिरूपयो: आत्मा यत्नो यस्य इत्यनेन बालायोध्याकाण्डसङ्क्षिप्तार्थसूचनम् । गुणवत: मुनिमोहकरूपादिविशिष्टस्य । अनेनारण्यकाण्डार्थसङ्क्षिप्तसूचनम् । धीमत: सुग्रीवसख्यकरणकृतोपकृतिको हनुमान् मत्प्राणसम एवेत्यादिविषयकनिश्चयविशिष्टस्य । अनेन किष्किन्धासुन्दरकाण्डकथासङ्क्षिप्तसूचनम् ।। 1.2.32 ।।



वीरस्य शत्रुनिबर्हणराज्यकरणाश्वमेधादिकसामर्थ्यविशिष्टस्य रामस्य । अनेन युद्धोत्तरकाण्डकथासङ्क्षिप्तसूचनम् । लोके वृत्तमाचरितं यथा येन प्रकारेण नारदात्ते तव श्रुतं तेन प्रकारेण कथय वर्णय । धीरस्येति पाठे तु धिय: रावणादीनामयोध्याप्रजानां च ब्रह्मादीनां च बुद्धी: ईरयति प्रेरयतीति धीरस्तस्येत्यर्थ: । अनेनापि काण्डद्वयार्थसङ्ग्रह: स्पष्ट एव ।। 1.2.33 ।।



काव्यकरणहेतुभूतवर्णनीयपदार्थवेदितृत्वं ते मत्प्रसादादपि भविष्यतीत्याह रहस्यञ्चेत्यादिश्लोकद्वयेन । धीमत: मत्प्रार्थनास्वीकारविषयकनिश्चयविशिष्टस्य सहसौमित्रे: सुमित्रानित्यपुत्रलक्ष्मणसहितस्य तस्य अवाङ्मनसगोचरस्य रामस्य रहस्यं तदितराविदितं प्रकाशं जनान्तरप्रसिद्धं च यद्वृत्तमाचरितम्, राक्षसानां रावणादीनां च सर्वश: सर्वं विदिताविदितं यद्वृत्तम्, वैदेह्या: विदेहप्रादुर्भूतसीतायाश्च प्रकाशं रहो वा यदि यद्वृत्तं तत्सर्वं ते अविदितं त्वन्निष्ठज्ञानाविषयीभूतमपि विदितं त्वन्निष्ठज्ञानविषयीभूतमेव भविष्यति । चकारेणायोध्याया: विदिताविदितत्वविश्वामित्रादिचेष्टितत्वादि जनकयागगतराजादीनां चेष्टितत्वादि अन्येषामपि वर्णनीयानां चेष्टितत्वादिकं ते विदितं भविष्यतीत्यर्थ: । श्लोकद्वयमेकान्वयि ।। 1.2.34 ।।



काव्यकरणप्रवृत्त्यर्थमृषिं प्रोत्साहयन्नाह न त इत्यादिना । अत्र चिकीर्षिते काव्ये काचिदपि ते वाक् तवोक्ति: अनृता असम्भावितार्था न भविष्यति । अत: मनोरमामन्त:करणाकर्षिकां श्लोकबद्धां पद्यरूपां दिव्यां प्राकृतभिन्नां रामकथां कुरु प्रकटय । अत्र वाल्मीकिप्रार्थनामन्तरेणैव एतद्ब्रह्मोक्त्या रामकथाप्रियत्वं ब्रह्मणो व्यक्तम् ।। 1.2.35 ।।



यावदिति । महीतले यावत्कालं गिरय: पर्वता: सरितो नद्यश्च स्थास्यन्ति तावत्कालं रामायणकथा लोकेषु चतुर्दशसु भुवनेषु प्रचरिष्यति प्रचारं प्राप्स्यति । अत्र सरिद्गिरिरहितमहीतलोपलम्भकावस्थाया: अनुपलम्भात् 'यावत्स्थास्यन्ति गिरय:' इत्याद्युक्तिर्महाप्रलयपर्यन्तकालोपलक्षिका । यद्वा अलोकेषु प्राकृतलोकविलक्षणेषु वैकुण्ठादिषु गीयमाना रामायणकथा यावत्कालं गिरय: पर्वता: सरितो नद्यश्च स्थास्यन्ति तावत्कालं महीतले प्रचरिष्यति त्वन्नाम्ना प्रचारं प्राप्स्यति । अत एव महीतले इत्यस्य न वैयर्थ्यम् ।। 1.2.36 ।।



यावदिति । त्वत्कृता त्वया सम्पादिता रामायणकथा रामपर्यवसानकप्रबन्धो यावत्कालं

प्रचरिष्यति तावत्कालं ऊर्ध्वगति: सर्वत्राप्रतिहतगमनस्त्वं मल्लोकेषु मम लोको दर्शनं येषु तेषु स्थानेषु निवत्स्यसि । स्वसमीपे एव त्वां निवासयिष्यामीत्यर्थ: । एतेन वाल्मीकिमुखनिस्सृतरामायणकथातिशुश्रूषा ब्रह्मणो ऽस्तीति ध्वनितम् । चशब्दात्सर्वत्र लाभ: ।। 1.2.37 ।।



इतीति । भगवान् षडैश्वर्यसम्पन्नो ब्रह्मा इति इदमुक्त्वा तत्रैव वाल्मीकिस्थाने एव अन्तरधीयत तिरोदधौ । तत्रैवान्तरधीयत इत्यनेन रघुनाथकथास्थानत्यागासहिष्णुत्वं तस्य ध्वनितम् । तेन रामकथाविषयकप्रेमातिशयस्तस्य सूचित: । तत: ब्रह्मान्तर्धानानन्तरम् । सशिष्य: भरद्वाजादिसहित: मुनि: ब्रह्मोक्तिमननशील: वाल्मीकि: विस्मयं ब्रह्मलोकं विहाय इहैव तिरोधानतया किमर्थं स्थित इत्याश्चर्यमाययौ प्राप ।। 1.2.38 ।।



तस्येति । तत: मुनिविस्मयप्राप्त्यनन्तरं तस्य वाल्मीकस्य सर्वे भरद्वाजादय: शिष्या: मुहुर्मुहु: प्रीयमाणा: गुरुप्रीतिविषयतां प्राप्नुवन्त: सन्त: इमं मा निषादेति श्लोकं पुनर्जगु: भृशविस्मिता अत्यन्तविस्मयं प्राप्ताश्च प्राहु: । इदमत्यद्भुतमित्युच्चारणं चक्रुरित्यर्थ: । एतेन तेषामानन्दातिशय: सूचित: ।। 1.2.39 ।।



श्लोकमहत्त्वं द्योतयन्नाह समेत्यादिना । समानि न्यूनाधिकरहितानि अक्षराणि येषु तैश्चतुर्भि: पादै: य: श्लोको महर्षिणा वाल्मीकिना गीत: स: श्लोक: अनुव्याहरणात् शिष्यकर्तृकनिरन्तरपठनाद्भूयो महच्छ्लोकत्वं यश:समपादकत्वादिश्लोकधर्ममागत: प्राप्त: । शोक इति पाठे तु शोक: निमित्तत्वेनास्या ऽस्तीति । अर्शआद्यजन्त: । शोकापनोदहेतुक: श्लोक इत्यर्थ: । अन्यत्समानम् ।। 1.2.40 ।।



तस्येति । भावितात्मन भावित: परिशीलित: आत्मा सर्वनियन्ता रघुनाथो येन तस्य वाल्मीकेरियं बुद्धिर्निश्चय: जाता तत्स्वरूपमाह ईदृशै: मा निषादेतिवद्गानयोग्यै: पद्यै: काव्यं सद्य:परनिर्वृत्यादिसम्पादकं रामायणं राममात्रपर्यवसानकं कृत्स्नं सम्पूर्णमहं करवाणि । परनिर्वृत्यादयश्च 'काव्यं यशसे ऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्य: परनिर्वृतये कान्तासम्मिततयोपदेशयुजे' इति काव्यप्रकाशपद्यतो ऽवगन्तव्या: ।। 1.2.41 ।।



उदारेति । तदा ब्रह्मान्तर्धानोत्तरकाले । उदारधी: उदारा दुर्ज्ञेयपदार्थप्रतिपादकत्वेन महती धीरस्येति स: । अत एव कीर्तिमान्प्रशस्ता कीर्तिरस्येति स: । मुनिर्वाल्मीकि: । समाक्षरै: समानि तुल्यानि चतुर्ष्वपि पादेषु अक्षराणि येषु तै: । उदारवृत्तार्थपदै: उदारा: अभीष्टार्थदातारो वृत्तार्था रघुनाथाचरितरूपार्थाः येषु तान्येव पदानि तै: । अत एव मनोरमै: मनोहरै: श्लोकशतै: वक्ष्यमाणानुरोधेन चतुर्विंशतिसहस्रसङ्ख्यासङ्ख्यातश्लोकैर्यशस्विनो न्यूनाधिकरहितकीर्तिविशिष्टस्यास्य रामस्य यशस्करं कीर्तिसम्पादकं काव्यं दोषरहितालङ्कारसहितशब्दार्थकप्रबन्धं चकार रचयामास । 'उदारो दातृमहतो:' इति कोशादुदारशब्दस्य उभयपरत्वम् ।। 1.2.42 ।।



सावधानसम्पत्त्यर्थं शिष्यानाह तदित्यादिना । उपगतसमाससन्धियोगम् उपगता यथाशास्त्रं स्थापिता: समासास्तत्पुरुषादय: सन्धयो यणादय: योगा: प्रकृतिप्रत्ययसम्बन्धा: यस्मिन् तत् । सममधुरोपनतार्थवाक्यबद्धं सममेतत्प्रकर्षादिदोषरहितं मधुरं प्रधानीभूतशृङ्गारादिरससहितं तयो: समाहार: सममधुरम्, उपनत: सहृदयै: प्रसन्नतयोपलभ्यमानो ऽर्थो यस्य तदेव तदिति कर्मधारय: तेन बद्धं संयुक्तम् । मुनिना वाल्मीकिना प्रणीतं तत्प्रसिद्धं रघुवरचरितं काण्डसप्तात्मकं दशशिरसो रावणस्य वधं च निशामयध्वम् शृणुत । गोबलीवर्दन्यायेन पुना रावणवधोपादानम् । किञ्च दशशिरसो

वधं वधविशिष्टं रघुवरचरितं शृणुतेत्यर्थ: । नित्यसापेक्षत्वादेकदेशे ऽन्वय: । एतेन दशशिरसो वधं वधपर्यन्तमित्यर्थ: प्रयुक्त: गमकमन्तरेण लक्षणाया अयुक्तत्वात् ।। 1.2.43 ।।



इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे द्वितीय: सर्ग: ।। 2 ।।