[Hanuman awakens Sugriva from slumber -- advises to initiate the search Vaidehi.]
समीक्ष्य विमलं व्योम गतविद्युद्वलाहकम्।
सारसाकुलसङ्घुष्टं रम्यज्योत्स्नानुलेपनम्4.29.1।।
समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम्।
अत्यर्थमसतां मार्गमेकान्तगतमानसम्4.29.2।।
निर्वृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा।
प्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान्4.29.3।।
स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम्।
विहरन्तमहोरात्रं कृतार्थं विगतज्वरम्4.29.4।।
क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः।
मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम्4.29.5।।
उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम्।
निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित्4.29.6।।
प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः।
वाक्यविद्वाक्य तत्त्वज्ञं हरीशं मारुतात्मजः4.29.7।।
हितं तत्त्वं च पथ्यं च सामधर्मार्थनीतिमत्।
प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम्।
हरीश्वरमुपागम्य हनूमान्वाक्यमब्रवीत्4.29.8।।