[Rama's agony accentuated by autumn -- description of the beauty of autumn -- Lakshmana leaves for Sugriva.]
गुहं प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः।
वर्षरात्रोषितो रामः कामशोकाभिपीडितः4.30.1।।
पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम्।
शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्4.30.2।।
कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम्।
बुद्ध्वा कालमतीतं च मुमोह परमातुरः4.30.3।।