तेषामेवं विषण्णानां पीडितानामतीव च।
बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया।।2.48.1।।
अनुगम्य निवृत्तानां रामं नगरवासिनाम्।
उद्गतानीव सत्वानि बभूवुरमनस्विनाम्।।2.48.2।।