Content

बाष्पवेगोपहतया स वाचा सज्जमानया।

इदमाश्वासयन्देवीं सूतः प्राञ्जलिरब्रवीत्।।2.60.4।।

Translation

सः सूतः that charioteer, बाष्पवेगोपहतया prevented by fastflowing tears, सज्जमानया faltering, वाचा with words, देवीम् to Kausalya, आश्वसयन् consoling, प्राञ्जलिः with folded palms, इदम् these words, अब्रवीत् said.

With folded hands and faltering words choked by his fastflowing tears the charioteer tried to console Kausalya:
Sanskrit Commentary by Mahesvara Tirtha
तत इति । भूतोपसृष्टेव भूताविष्टेव । गतसत्वेव गतासुरिव धरण्यां स्थितेति शेषः ।। 2.60.13 ।।



बाष्पेति । वाचा उपलक्षिताम् । सः सूतः ।। 2.60.4,5 ।।



लक्ष्मण इति । परलोकमाराधयति परलोकं साधयति ।। 2.60.6 ।।



विजन इति । अभीतेति पदच्छेदः । विस्रम्भं प्रणयम् ।। 2.60.79 ।।



बालेति । अबालचन्द्रनिभाननेति पदच्छेदः । बालेव रामे रमते ।। 2.6010 ।।



तद्गतमिति । यतस्तस्या हृदयं तद्गतं रामगतम् तस्मात्कारणात् यथारामयुक्तं वनमप्ययोध्या तथा रामहीनाप्ययोध्या वनं भवेत् ।। 2.60.11 ।।



परिपृच्छतीति । उद्यानमिव वनमाश्रिता वैदेही ग्रामादीनि दृष्ट्वा रामं वा लक्ष्मणं वा परिपृच्छति पृष्ट्वा जानातीति सम्बन्धः ।। 2.60.12,13 ।।



इदमेवेति । अस्याः सीतायाः सम्बन्धि, इदमेव प्रस्तुतवृत्तान्तजातमेव स्मरामि । कैकेयीसंश्रितं कैकेयीमुद्दिश्य प्रवृत्तं सहसा जल्पितं हठात्सीतयोक्तं वाक्यमिदानीं मा मां न प्रतिभातीति सूतः प्रमादात्पर्युपस्थितं तद्वाक्यं ध्वंसयित्वा देव्याः कौसल्यायाः ह्लादनं ह्लादकरम् वचनमब्रवीदिति योजना ।। 2.60.1416 ।।



वदान्यायाः वल्गुवाचः "वदान्यो वल्गुवागपि" इत्यमरः । न विकम्पते म्लानतां न यातीत्यर्थः ।। 2.60.17,18 ।।



नूपुरेति । नूपुरोद्धुष्टहेला हेला विलासः खेलं कान्तम् । तद्रागात् गमनाभिनिवेशात् । गमानाभिनिवेशस्य विरोधीनि भूषणान्यधारयन्त्यपि भूषणसमृद्धविलासेव खेलं गच्छतीत्यर्थः । यद्वा इदानीमपि गमनवेलायामपि तद्रागाद्भूषणविषयस्नेहात् व्यस्तभूषणा चरणाद्यवयवेष्वर्पितभूषणा वैदेही नूपुरोद्धुष्टखेलेव नूपुरादिशिञ्जितविलासयुक्तैव । इव एवार्थे । खेलं कान्तं यथा तथा गच्छतीत्यर्थः । अनेन सीतायाः सदा साभरणत्वमुक्तम् । 'मन्ये साभरणा सुप्ता' इति भरतवचनात् ।। 2.60.19,20 ।।

नेति । ते रामादयः । आत्मानो वयम् । इदं चरितं पितृवचनपरिपालनरूपम् ।। 2.60.21 ।।



विधूयेति । महर्षियाते महर्षिभिर्याते प्राप्ते ।। 2.60.22,23 ।।



इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामयणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां षष्टितमः सर्गः ।। 2.60 ।।





Sanskrit Commentary by Nagesa Bhatta
तत इति । भूतोपसृष्टेव भूताविष्टेव गतसत्त्वेव गतासुरिव धरण्याम् पतितेति शेषः ।। 2.60.1,2 ।।



अथ यदि ।। 2.60.3,4 ।।



संभ्रममावेगम् ।। 2.60.5 ।।



रामस्य पादौ परिचरन्परलोकमाराधयति संपादयति ।। 2.60.6 ।।



अभीतेति च्छेदः विस्रम्भः प्रणयः ।। 2.60.7 ।।



कृतं वनवासकृतं दैन्यमित्यर्थः ।। 2.60.8,9 ।।



बालेवेति दुःखापरिज्ञानेनोपमा तस्या देहाद्यभिमानाभावान्नाधिजं दुःखमिति भावः ।

अबालचन्द्रेत्यादिच्छेदः । रामारामे रामरूपे आराम इत्यर्थः, भिन्नपदे वा ।।

2.60.10 ।।

रामहीनायोध्या यथा वनं तथा भवेदित्यन्वयः ।। 2.60.11 ।।



नदीनां गतिं रामनगरवृक्षांश्च दृष्ट्वा रामं वा लक्ष्मणं वा पृच्छति पृष्ट्वा च जानाति अयोध्यातः क्रोशमात्रे विद्यमानं विहारं संश्रिता यथा रमते स्म तथैव वने ऽप्यरमतेत्यर्थः ।। 2.60.12,13 ।।



इदमेव सीतायाः संबन्धीदमेव प्रस्तुतवृत्तान्तजातमेव स्मरामि । कैकेयीसंश्रितं कैकेयीमुद्दिश्य प्रवृत्तम् । सहसा हठेन । सीतया तस्याः परमदुःखकारिणीत्वान्मां प्रति यत्तद्विषयं जल्पं वाक्यमुपजल्पितमुक्तं तदिदानीं मां न प्रतिभात्येवेत्येवंरूपेण प्रमादात्पर्युपस्थितं मुखान्निर्गतं कैकेयीविषयं सीतावाक्यं ध्वंसयित्वा व्यवहारान्तरेणानुक्तप्रायमिव कृत्वा देव्याः कोसल्याया ह्लादनं मधुरं वचनं सूतो ऽब्रवीदित्याह कविः ।। 2.60.1416 ।।



वदान्याया दात्र्या वल्गुवाचश्च "वदान्यो वल्गुवागपि" । न विकम्पते म्लानतां न याति ।। 2.60.17 ।।



अलक्तरसवर्जितावपि तद्रसरक्तकान्ती स्वभावरक्ततया पद्मकोशसमप्रभौ न तु मार्गगतिप्रत्तकाठिन्यभाजा ।। 2.60.18 ।।



नूपुरेणोत्कृष्टा तिरस्कृता हंसादिलीला यया सेव खेलं विलासयुतम् अर्शआद्यजन्तम् । तद्रागेण भर्तृप्रीतियोजकभूषणानुरागेणान्यस्तान्यत्यक्तानि भूषणानि यया ।। 2.60.19 ।।



नाहारयति न करोति न संप्राप्नोतीति वा ।। 2.60.20 ।।



अतस्ते रामादयो न शोच्याः ते तवात्माप्यत एव न शोच्यः । न राजापि तेषां सुखश्रवणेन तस्यापि जीवनसंभवात् । इतो ऽपि न शोच्यांश इत्याह इदं हीत्यादि । प्राप्तमपि राज्यं महाबलो ऽपि परित्यज्य पितृवचनमपालयदित्येवमादि रामचरितं स्वार्थमुद्दिश्य भर्तारमपि परित्यज्यातिघोरं कृतवती कैकेयीत्यादि इदं रामचरितं शाश्वतं प्रतिष्ठास्यतीत्यनेन तन्नामवदेवास्य सुस्थिरत्वं वदता तस्येश्वरत्वं ध्वनितम् । न ह्यन्यचरित्रं शाश्वतं प्रतिष्ठां लभते ।। 2.60.21 ।।



महर्षिभिर्याते ।। 2.60.22 ।।



तथा ऽपीति । सूतेन निवार्यमाणा सूतोक्तं गृहीतवत्यपि न विरराम दुःखप्राबल्यादिति शेषः ।। 2.60.23 ।।



इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे षष्टितमः सर्गः ।। 2.60 ।।





Sanskrit Commentary by Sivasahaya
कौशल्यावृत्तान्तं वर्णयन्नाह-- तत इति । भूतोपसृष्टा भूतेन गृहीतेव पुन: पुनर्वेपमाना गतसत्वेव धरण्यां पतिता कौशल्या सूतमब्रवीत् ।। 2.60.1 ।।



तद्वचनस्वरूपमाह-- नयेति । काकुत्स्थो राम: यत्रास्ति तत्र मां नय तान् विना जीवितुं स्थातुं नोत्सहे ।। 2.61.2 ।।



निवर्तयेति । रथं शीघ्रं निवर्तय रामसम्मुखं कुरु अथ यदि तान् रामादीन्नानुगच्छामि तदा यमक्षयं कालागम्यं साकेतं गमिष्यामि ।। 2.60.3 ।।



बाष्पेति । सज्जमानया रामसंलग्नया अत एव बाष्पवेगेन उपहतया स्खलन्त्या वाचा देवीमाश्वासयन्निदमब्रवीत् ।। 2.60.4 ।।



तद्वचनस्वरूपमाह-- त्यजेति । दु:खजं सम्भ्रमं च त्यज तत्र हेतु: सन्तापं प्रातिभासिकमात्रादिवियोगजनितदु:खं व्यवधूय दूरीकृत्य राघवो वने वत्स्यति ।। 2.60.5 ।।



लक्ष्मण इति । रामस्य पादौ परिचरन्स परलोकं पर: सर्वोत्कृष्ट: यो लोको जन: तं परमपुरुषमित्यर्थ: । किञ्च पर: सर्वोत्कृष्ट: लोक्यते दृश्यते असौ स तं किंच पर: सर्वोत्कृष्ट: लोको यस्य स तं साकेताधीशमित्यर्थ: । आराधयति निषेवते ।। 2.60.6 ।।



विजने इति । वने ऽपि वा सम्प्राप्य रामे विन्यस्तमानसा अत एव अभीता सीता गृहेष्विव विश्रम्भं प्रणयं लभते "विश्रम्भ: प्रणये ऽपि च" इत्यमर: ।। 2.60.7 ।।



नेति । अस्या: सीताया: कृतं सुसूक्ष्ममपि किञ्चिद्दैन्यं न लक्ष्यते अत एव प्रवासानामुचिता योग्या प्रतिभात्येव । इव एवार्थे ।। 2.60.8 ।।



नगरेति । पुरा पूर्वं नगरोपवने गत्वा यथा रमते स्म तथैव निर्जनेष्वपि वनेषु रमते ।। 2.60.9 ।।



तदेव भङ्ग्यन्तरेणाह-- बालेति । अबालचन्द्रनिभानना अबालचन्द्र: पूर्णचन्द्रस्तत्सदृशाननविशिष्टा किञ्चाबालचन्द्रं निभाति प्रकाशयति तदाननं यस्या: सा रामा सीता रामे रामसमीपे बालेव रमते ।। 2.60.10 ।।



तदिति । यस्या: सीताया: हृदयं तद्गतं नित्यं रामं प्राप्तमत एव यस्या: जीवितं तदधीनं रामायत्तं तस्या: अस्या: सीताया: रामहीना अयोध्या यथा वनं तथा भवेत् । एतेन सीतासुखे रामसन्निधिरेव कारणमिति ध्वनितं तेन सीताया अतिसुखात्वं व्यञ्जितम् ।। 2.60.11 ।।



वैदेहीसुखज्ञापकचिह्नानि वदन्नाह-- परीति । वैदेही विदेहकुलप्रादुर्भूता जानकी रामं लक्ष्मणं वा ग्रामादीन् परिपृच्छति नदीनां गतिं विलक्षणगमनं च दृष्ट्वा परिपृच्छति पृष्ट्वा जानाति तत्कथनेन निश्चिनोति अत: अयोध्याक्रोशमात्रे एव विद्यमानं विहारं विहरणोपवनमिव संश्रिता सम्प्राप्ता विहारशब्दो ऽधिकरणघञन्त: । श्लोकद्वयमेकान्वयि एवार्थे ।। 2.60.12,13 ।।



इदमिति । अस्या: सीताया इदं रामसंयोगजनितसुखसूचकाचरणमेव स्मरामि अत एव जल्पितं तदेव कथितमत एव कैकेयीसंश्रितं कैकेय्युद्देश्यकमुपजल्पितं मन्थरया प्रदर्शितं जल्पमनेकविधवचनं मां न प्रतिभाति । एतेन सीतासुखदर्शनेनास्माकं सर्वं दु:खं प्रनष्टमिति व्यञ्जितं तेन भवत्यापि सीतासुखमन्तरान्यन्न स्मर्तव्यमिति सूचितम् ।। 60.14 ।।



ध्वंसयित्वेति । प्रमादाद्रामवियोगजनितग्लाने: पर्युपस्थितं संस्मृतं तत्प्रव्रजनबोधकं वाक्यं मन्थरासम्मतिजनितकेकयीवचनं ध्वंसयित्वा सीतासुखस्मारणेन विस्मार्य देव्या: कौशल्याया ह्लादनं सुखप्रापकं मधुरवचनं सूतो ऽब्रवीत् ।। 2.60.15 ।।



तद्वचनस्वरूपमाह-- अध्वनेति । अध्वना अध्वगमनजनितश्रमेण वातवेगेन अतिवायुप्रवाहेण च

सम्भ्रमेण भयहेतुभूतव्याघ्रादिदर्शनेन च आतपेन धर्मेण च वैदेह्या: प्रभा न विगच्छति परिणामं प्राप्नोति ।। 2.60.16 ।।



सदृशमिति । शतपत्रस्य कमलस्य सदृशं सदृशत्वेन प्रतीयमानं पूर्णचन्द्रेण उपमा उपमेया प्रभा यस्य तद्वदान्याया मधुरवचनशीलाया: वैदेह्या: वदनं मुखं न विकम्पते कदाचिदपि परिणतिं न प्राप्नोतीत्यर्थ: । उपमाशब्द: कर्मप्रत्ययान्त: । "वदान्यो वल्गुवागपि" इत्यमर: ।। 2.60.17 ।।



अलक्तेति । अलक्तरसेन वर्जितौ रहितावपि तस्याः चरणौ अलक्तरसरक्ताभौ अलक्तरसरक्ताभसदृशाभाविशिष्टौ अ़द्यापि पादचारेण वनगमने ऽपि दृश्येते इति शेष: ।। 2.60.18 ।।



नूपुरेति । तस्मिन् रामे यो रागो ऽत्यनुरागस्तेन अन्यस्तानि अपरित्यक्तानि भूषणानि यया सा अत एव नूपुरोत्कृष्टलीला नूपुराभ्यामुत्कृष्टा हंसादिलीलातिरस्कारिकात्वेनातिश्रेष्ठा लीला यस्या: सा भामिनी वैदेही खेलं सविलासमेव यथा स्यात्तथा इदानीं वनाध्वन्यपि गच्छति "उद्धृष्टहेलेव" इति भूषणपाठ: ।। 2.60.19 ।।



गजमिति । वनमाश्रिता प्राप्ता सीता रामस्य बाहू संश्रिता सती गजादिकं वीक्ष्य सन्त्रासं नाहारयति प्राप्नोति ।। 2.60.20 ।।



नेति । हि सर्वेषां सुखित्वाद्धेतो: ते रामादयो न शोच्या अतस्ते आत्मा देहो ऽपि न शोच्य: अत एव जनाधिपो राजा ऽपि न शोच्य: एतेन त्वदादीनां तत्सुखसुखित्वमुचितमिति ध्वनितम् । रामसुखेहेतुमाह-- इदं चरितं परमधर्महेतुकरामाचरणं शाश्वतं बहुकालं लोके सर्वभुवने प्रतिष्ठास्यति अतिप्रतिष्ठां प्राप्स्यतीत्यर्थ: ।। 2.60.21 ।।



विधूयेति । शोकं पित्रादिवियोगजनितं विधूय त्यक्त्वा महर्षियाते महर्षिभि: सेविते पथि सुव्यवस्थिता: अत एव परिहृष्टमानसास्ते रामादय: पितु: शुभां प्रतिज्ञां प्रतिपालयन्ति ।। 2.60.22 ।।



तथेति । सुयुक्तवादिना न्याय्यकथनशीलेन सूतेन यद्यपि निवार्यमाणा देवी कौशल्या तथापि सुतशोककर्षिता सती प्रियेत्यादिकूजिताच्छब्दान्नैव विरराम ।। 2.60.23 ।।



इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे षष्टितम: सर्ग: ।। 2.60 ।।