Content

त्यज शोकं च मोहं च सम्भ्रमं दुःखजं तथा।

व्यवधूय च सन्तापं वने वत्स्यति राघवः।।2.60.5।।

Translation

शोकम् grief, मोहम् delusion, तथा also, दुःखजम् arising out of sorrow, सम्भ्रमं च despair, त्यज abandon, राघवः Rama, सन्तापम् difficulties, व्यवधूय after brushig aside, वने in the forest, वत्स्यति is going to live.

Abandon your tears, delusion and despair arising out of sorrow. Rama is going to live
in the forest, brushing aside all agony.
Sanskrit Commentary by Govindaraja
ततो भूतोपसृष्टेव वेपमाना पुन:पुन: ।

धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत् ।। 2.60.1 ।।

नय मां यत्र काकुत्स्थ: सीता यत्र च लक्ष्मण: ।

तान् विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम् ।। 2.60.2 ।।

तत इति । भूतोपसृष्टेव धरण्यां वेपमाना भूतगृहीतेव भूमौ पतित्वा विवर्तमानेत्यर्थ: । गतसत्त्वेव गतप्राणेव । "द्रव्यासुव्यवसायेषु सत्वमस्त्री तु जन्तुषु" इत्यमर: ।। 2.60.12 ।।



निवर्तय रथं शीघ्रं दण्डकान्नय मामपि ।

अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम् ।। 2.60.3 ।।

निवर्तयेति । अथ तान्नानुगच्छामि तान्नानुगच्छामि चेत् ।। 2.60.3 ।।



बाष्पवेगोपहतया स वाचा सज्जमानया ।

इदमाश्वासयन् देवीं सूत: प्राञ्जलिरब्रवीत् ।। 2.60.4 ।।

बाष्पवेगेति । सज्जमानया विक्लवया ।। 2.60.4 ।।



त्यज शोकञ्च मोहञ्च सम्भ्रमं दु:खजं तथा ।

व्यवधूय च सन्तापं वने वत्स्यति राघव: ।। 2.60.5 ।।

त्यजेति । मोहं रामस्य किं भविष्यतीत्यज्ञानम् । सम्भ्रमं व्याकुलत्वम् । सन्तापं शोकजनितदेहसन्तापम्, रामो दु:खितो भविष्यतीति सन्तापमित्यर्थ: । यस्माद्राघव: सन्तापं व्यवधूय वत्स्यति तस्माच्छोकादिकं त्यजेत्यन्वय: ।। 2.60.5 ।।



लक्ष्मणश्चापि रामस्य पादौ परिचरन् वने ।

आराधयति धर्मज्ञ: परलोकं जितेन्द्रिय: ।। 2.60.6 ।।

लक्ष्मण इति । परलोकमाराधयति परलोकं साधयति "राध साध संसिद्धौ" इति धातु: ।। 2.60.6 ।।



विजने ऽपि वने सीता वासं प्राप्य गृहेष्विव ।

विस्रम्भं लभते ऽभीता रामे संन्यस्तमानसा ।। 2.60.7 ।।

विजन इति । लभतेभीतेत्यत्र अभीतेति पदच्छेद: । विस्रम्भं प्रणयम् "विस्रम्भ: प्रणयेपि च" इत्यमर: ।। 2.60.7 ।।



नास्या दैन्यं कृतं किञ्चित् सुसूक्ष्ममपि लक्ष्यते ।

उचितेव प्रवासानां वैदेही प्रतिभाति मा ।। 2.60.8 ।।

नगरोपवनं गत्वा यथा स्म रमते पुरा ।

तथैव रमते सीता निर्जनेषु वनेष्वपि ।। 2.60.9 ।।

नास्या इति । कृतं वनवासकृतम् । किञ्चिदित्यस्य विवरणं सुसूक्ष्ममिति । प्रवासानामुचितेव प्रवासानां योग्येव । अभ्यस्तवनवासप्रयासेवेत्यर्थ: ।। 2.60.89 ।।



बालेव रमते सीता ऽबालचन्द्रनिभानना ।

रामारामे ह्यधीनात्मा विजने ऽपि वेन सती ।। 2.60.10 ।।

बालेति । क्रीडैकरसत्वाद्बालादृष्टान्त:, दु:खापरिज्ञाने वा बालाहृष्टान्त: । अबालचन्द्रनिभाननेति च्छेद: । रामे अधीनात्मा आसक्तचित्तेत्यर्थ: । यद्वा रामारामे रामरूपा रामे ।। 2.60.10 ।।



तद्गतं हृदयं ह्यस्यास्तदधीनं च जीवितम् ।

अयोध्यापि भवेत्तस्या रामहीना तथा वनम् ।। 2.60.11 ।।

तद्गतमिति । यद्यस्मात्कारणात् । अस्या: सीताया: हृदयम् । तद्गतं रामगतम् । जीवितं च तदधीनम् । तस्माद्वनं रामसहितम् अयोध्या भवेत् । रामहीना अयोध्यापि तथा वनं भवेदित्यर्थ: ।। 2.60.11 ।।



पथि पृच्छति वैदेही ग्रामांश्च नगराणि च ।

गतिं दृष्ट्वा नदीनाञ्च पादपान् विविधानपि ।। 2.60.12 ।।

रामं वा लक्ष्मणं वापि पृष्ट्वा जानाति जानकी ।

अयोध्याक्रोशमात्रे तु विहारमिव संश्रिता ।। 2.60.13 ।।

पथीत्यादिना सीताया उल्लास उच्यते । दृष्ट्वेति सर्वत्रान्वेति । रामं लक्ष्मणं वा पृच्छति पृष्ट्वा जानाति च । अयोध्याया: क्रोशमात्रे विहारं क्रीडां संश्रितेव स्थिता । यद्वा विहरन्त्यस्मिन्निति विहार: तम् । अधिकरणे घञ् । उद्यानमित्यर्थ: ।। 2.60.1213 ।।



इदमेव स्मराम्यस्या: सहसैवोपजल्पितम् ।

कैकेयीसंश्रितं वाक्यं नेदानीं प्रतिभाति मा ।। 2.60.14 ।।

अयोध्यानिर्गमकालिकं कैकेयीविषयकं सीताया: परुषं वचनं कौसल्याया: प्रियमिति वक्तुमुपक्रम्य तस्य वृद्धयोर्जीवननिराशाहेतुत्वं मत्वा नोचितमिदं वक्तुमित्यस्मरणव्याजेनोपारमतेत्याह--इदमेवेत्यादि । अस्या: सीताया: सम्बन्धि इदमेव स्मरामि प्रस्तुतवृत्तान्तमेव स्मरामि । कैकेयीसंश्रितं कैकेयीमुद्दिश्य प्रवृत्तं सहसा उपजल्पितं हठात्सीतयोक्तं वाक्यम् । इदानीं मा मां प्रति न भातीति सूत: प्रमादात् इदं गोपनीयमित्यवधानाभावात् पर्युपस्थितं सीतावचनत्वेन वक्तुमुपक्रान्तं तद्वाक्यं ध्वंसयित्वा प्रच्याव्य देव्या: ह्लादनम् आह्लादनकरम् उपक्रान्तवाक्यवद्देव्यास्सन्तापाहेतुभूतं मधुरं वचनमब्रवीदिति पदयोजना । सहसा त्वरया । उपजल्पितम् अक्रमेणोक्तमित्यस्मरणहेतूपदर्शनम् । कैकेयीसंश्रितमित्युपक्रान्तांश: इदं स्मरामीति पुन: स्मरेति चोदनावकाशाप्रदानम्, इदानीं भवद्दु:खदर्शनसमये मा मां प्रति न भातीति ध्वंसनप्रकार: ।। 2.60.14 ।।



ध्वंसयित्वा तु तद्वाक्यं प्रमादात् पर्युपस्थितम् ।

ह्लादनं वचनं सूतो देव्या मधुरमब्रवीत् ।। 2.60.15 ।।

ध्वंसनहेतुं कविरनुवदति--ध्वंसयित्वा तु तद्वाक्यं प्रमादात् पर्युपस्थितमिति । ह्लादनमित्यनेनोपस्थितवचनस्य तापहेतुत्वं द्योत्यते । ननु कैकेयीनिन्दारूपत्वे ऽपि देव्यास्तापकारणमवश्यं मोपनीयम् । कीदृशं तद्वाक्यं स्यात्किंचिदिदमित्युक्तौ तत्र किं प्रमाणं स्यात् ? उच्यते--अवधेहि, एवं विधं हि कार्यवशात् गुप्तं कुत्रचित्कविर्न विवृणोति चेत् सर्वज्ञोपि तत्कथमिदमित्यभिदध्यात् । अत्रेमं च प्रमादादुपस्थितं ध्वंसितं वृद्धयो: सन्तापकरं कैकेयीविषयकं वृत्तान्तं कविरुत्तरत्र व्यक्तीकरिष्यति । युद्धकाण्डे सीतामधिकृत्य "विजगर्हे ऽत्र कैकेयीं क्रोशन्ती कुररी यथा" इत्युक्त्वा कैकेयीविषयकं सीता वचनमेवाह "सकामा भव कैकेयि हतो ऽयं कुलनन्दन:" इति । इदं सीताहृदयम् । कैकेय्या: राज्यलाभेनैवाभीष्टसिद्धे: । रामविवासनाभ्यर्थनस्येदमाकूतम् । रामविवासने हि तद्वियोगं क्षणमपि सोढुमक्षमा सीताप्येनमनुगच्छेत् सा च लोकोत्तरसुन्दरी केनाप्यपह्रियेत तस्यां च हृतायां राम: स्वत एव नश्येत् ततो मे राज्यं सुप्रतिष्ठितं स्यात्, अन्यथा लब्धेनापि राज्येन न किञ्चित्प्रयोजनम्, यतो रामगुणपरवश: सर्वोपि जन: तद्विधेय: स्यात् तस्माद्रामोपि विनाशाय विवासनीय इति । इदमेव सीतोक्तं रामोप्यारण्यकाण्डे 'सुप्तप्रमत्तकुपितानां वचनैर्भावज्ञानं दृष्टम्' इति न्यायेन वक्ष्यति "कच्चित्सकामा कैकेयी सुखिता सा भविष्यति । या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ।।" अन्यत्र च "यदभिप्रेतमस्मासु प्रियं वरवृतं च यत्। कैकेय्यास्तत्सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण ।।" इति । इममेवार्थं पूर्वसर्गान्ते सूचितवान्-- "जानकी तु महाराज निश्वसन्ती तपस्विनी । भूतोपहतचित्तेव विष्ठिता विस्मिता स्थिता । अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी । तेन दु:खेन रुदती नैव मां किञ्चिदब्रवीत् । उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता । मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा ।।" इति। अत्र रोदनमवचनं परिशुष्यता मुखेन भर्तृवीक्षणं पुन: सुमन्त्रवीक्षणं बाष्पमोचनं च कुर्वन्त्या पूर्वोक्तार्थस्मरणम्, तत एव स्तब्धता, भर्तृमुखवीक्षणेन वक्तुमनर्हत्वज्ञानं बाष्पमोचनेन सूतवीक्षणेन च श्वश्रूं प्रत्यकथनीयत्वद्योतनं चेति व्यज्यते। तत्र सीतयोक्तं प्रामादिकमिति जुगोप। अत्र तु स्वस्यैव प्रमादोत्थं व्याजेन परिहृतवान् ।। 2.60.15 ।।



अध्वना वातवेगेन सम्भ्रमेणातपेन च ।

न विगच्छति वैदेह्याश्चन्द्रांशुसदृशी प्रभा ।। 2.60.16 ।।

अध्वनेति । अध्वना अध्वगमनेन । सम्भ्रमेण व्याघ्रादिदर्शनजन्यव्याकुलत्वेन । न विगच्छति न विकरोति ।। 2.60.16 ।।



सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम् ।

वदनं तद्वदान्याया वैदेह्या न विकम्पते ।। 2.60.17 ।।

सदृशमिति । शतपत्रस्य पद्मस्य । पूर्णचन्द्रोपमप्रभं पूर्णचन्द्रसदृशप्रभम् । वदान्याया: वल्गुवाच: । "वदान्यो वल्गुवागपि" इत्यमर: । न विकम्पते न विचलति । स्वाभाविकप्रभां न जहातीत्यर्थ: ।। 2.60.17 ।।



अलक्तरसरक्ताभावलक्तरसवर्जितौ ।

अद्यापि चरणौ तस्या: पद्मकोशसमप्रमौ ।। 2.60.18 ।।

अलक्तेति । अद्यापि वनगमनेपि ।। 2.60.18 ।।



नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी ।

इदानीमपि वैदेही तद्रागान्न्यस्तभूषणा ।। 2.60.19 ।।

नूपुरेति । तद्रागात् भूषणविषयस्नेहात् । न्यस्यभूषणा चरणाद्यवयवेष्वर्पितभूषणा । वैदेही नूपुरोद्घुष्टहेलेव नूपुरोत्पन्नस्वनानुकारिलीलायुक्तेव । खेलं सलीलं गच्छति । सीताया: सर्वदा साभरणत्वं 'मन्ये साभरणा सुप्ता सीतास्मिन् शयनोत्तमे' इत्युत्तरत्र भरतवचनादवगम्यते । यद्वा तद्रागात् रामेण सह गमनकौतुकात् । न्यस्तभूषणा उत्सृष्टनूपुरापि नूपुरोत्कृष्टहेलेव नूपुरसञ्चितविलासेव (नूपुरोत्कृष्टहेलेवेति पाठ:) ।। 2.60.19 ।।



गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनमाश्रिता ।

नाहारयति सन्त्रासं बाहू रामस्य संश्रिता ।। 2.60.20 ।।

गजमिति । गजं दर्शनमात्रेण भीषणमहाकायं वीक्ष्य न तु श्रुत्वा, सिंहं तमपि तृणाय मत्वा । व्याघ्रं वा जन्तुमात्रहिंसकतया सिंहादप्यतिक्रूरं सिंहदर्शनादपि व्याघ्रदर्शनमतिक्रूरमिति न तत्प्रकर्ष: । वनमाश्रिता विनापि सिंहादीन् स्वत एव भयङ्करं प्रदेशमवगाहमानापि । नाहारयति नारोपयति । आहारयतेरारोपार्थकत्वात् भयभावनामात्रमपि न करोतीत्यर्थ: । नाहारयति सन्त्रासं स्त्रीत्वप्रयुक्तस्वाभाविकभीतिरपि निर्गता । तत्र हेतुमाह बाहू रामस्य संश्रिता । परिघान्तर्गता: किं बिभ्यतीति भाव: ।। 2.60.20 ।।



न शोच्यास्ते न चात्मान: शोच्यो नापि जनाधिप: ।

इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् ।। 2.60.21 ।।

न शोच्या इति । ते रामादय: । आत्मान: वयम् । इदं चरितं पितृवचनपरिपालनरूपं चरित्रम् शाश्वतम् आचन्द्रार्कम् ।। 2.60.21 ।।



विधूय शोकं परिहृष्टमानसा महर्षियाते पथि सुव्यवस्थिता: ।

वनेरता वन्यफलाशना: पितु: शुभां प्रतिज्ञां परिपालयन्ति ते ।। 2.60.22 ।।

विधूयेति । महर्षियाते महर्षिभि: प्राप्ते ।। 2.60.22 ।।



तथापि सूतेन सुयुक्तवादिना निवार्यमाणा सुतशोककर्शिता ।

न चैव देवी विरराम कूजितात् प्रियेति पुत्रेति च राघवेति च ।। 2.60.23 ।।

तथापीत्युक्तं विवृणोति--सूतेनेत्यादिना । सुयुक्तवादिना सूतेन तथा निवार्यमाणापि सुतशोककर्शितत्वात् देवी प्रियेत्यादिकूजितान्न विरराम ।। 2.60.23 ।।



इत्यार्षे श्रीरामायणे वाल्मीकीये आदि0 श्रीमदयोध्याकायण्डे षष्टितम: सर्ग: ।। 60 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामा0 भूषणे0 पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षष्टितम: सर्ग: ।। 60 ।।